Friday, March 23, 2018

‘Kanchani Kunchika’ (काञ्चनी कुञ्चिका) Sanskrit Poem: Dr. Harekrishna Meher

‘Kanchani Kunchika’ (Sanskrit Poem) 
By Dr. Harekrishna Meher
* * *
काञ्चनी कुञ्चिका (संस्कृत-कविता)
डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = 
महान् खलः खल्वसि त्वमुत्कोचः,
त्वयि क्रियते नाल्पोऽपि सङ्कोचः
सञ्जायते ततो देश-द्रोहिता
केवलं व्यक्ति-स्वार्थ-हिता
विक्रीयते त्वया स्वदेश-मर्यादा,
निश्चित-विजयेऽपि प्राप्त-पराजय-स्वादा
हन्यते त्वया जनानामान्तरिको विश्वासः,
परिवर्त्तते लोकः कृकलास-वर्णविलासः

हैम-लोचन हे महामहिमाप्रतिम !
वादित-प्रचण्ड-डिण्डिम !
असाध्यमपि साध्यते त्वया
सर्वं कार्यं गूढ़ं निर्विघ्नतया
त्वन्निमित्तं लोकाः समुत्काः
भवन्ति समुत्कर्षापकर्ष-निर्णायकाः

यत्कार्य-सम्पादने दुर्गमो मार्गः
तव द्वारेण तु सुप्रवेशः स्वर्गः
समुच्च-प्राचीरोऽपि त्वया लङ्घ्यते निश्शङ्कम्,
समं पश्यसि त्वं राजानं रङ्कम्
रुद्ध-कपाटस्य त्वं काञ्चनी कुञ्चिका
अजानतां कृते तु माया मरीचिका

कृत-घोर-जघन्यापराधाः
चौर्यधन-प्राचुर्य-विधृतास्पर्धाः
त्वामेव परमं गुरुमाश्रित्य
नय-सिन्धुं दुस्तरमतीत्य
मुक्ता भ्रमन्ति राजाध्वनि निर्बाधाः
यथा जन्तु-हन्तुकामा व्याधाः
प्रदर्शित-प्रतापा हित-हन्तारः संदृप्ताः
पर-प्रवञ्चन-प्रभञ्जन-चालन-परितृप्ताः

इतिहासोऽपि त्वत्कृत्यानां साक्षी,
प्रकृतिस्ते विशालाक्षी
सर्वत्र ते सिद्धिः परन्तु
जनास्त्वया यत्किञ्चिद् वा हरन्तु,
यद्यपि सिध्यति किञ्चिदिष्टम्,
तथापि सर्वत्र स्वदते सुमिष्टम्
नार्हति तद् दीर्घस्थायित्वम्
सुतरां समवगच्छसि त्वम्

कर्त्तुः पश्चाद् धावति धावति स्वकृतम्
सुकृतं भवत्वथवा दुष्कृतम्
अवश्यं भोक्तव्यं कर्म-फलम्
परिणामे भवतु मङ्गलम्
अथवा कदाचिदमङ्गलम्
विचारणीयं तत् सुस्वादु-गलम्
* * * * *  
(Extracted from Sanskrit Kavya ‘Jivanaalekhyam’
of Dr. Harekrishna Meher)
* * * * * 
‘Jivanaalekhyam’ Kavya : Link :

No comments: