Saturday, February 20, 2016

Sanskrit Poem 'Asram Ajasram' (Tears Immense)/Harekrishna Meher

Asram Ajasram 
Sanskrit Poem By: Dr. Harekrishna Meher 
*
अस्रमजस्रम्  (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = = 
यत्र यत्र न्यायोपरि दृश्यते
अन्यायस्य सामयिकोऽपि ग्रासः, 
अधर्मस्य धर्मोपरि निक्षिप्तः सन्त्रासः,
असत्यस्य सत्योपरि प्रहारात्मकःप्रासः,   
अकारणमन्तर्देशो जायते
शङ्कित-भावोच्छ्वासः,
तत्र तत्र सहृदयानां नयन-द्वयम्
विमुञ्चति  धीराश्रु-रयम्,
दुर्भावनान्दोलितं जायते हृदयम्,
अज्ञाताशङ्कया सभयं सविस्मयम् 
वहति करुण-धारा निरर्गलम्,
भवति चित्तं धैर्य-च्युतं भीति-विह्वलम्  

यत्र यत्र न्यायस्य विजयो दृश्यते,
श्रूयतेसमनुभूयते पठ्यते ज्ञायते, 
तत्र तत्र भवति नूनम् 
सत्यस्य स्वरूपं गहनम्
उन्मोचितम्प्रकाशितम्,  
विशदीकृतम्प्रतिष्ठितम् 

तत् तद् दृष्ट्वा श्रुत्वा
समनुभूय पठित्वा ज्ञात्वावा
सहृदय-जनानां नयन-युगलम्
आन्तर-भाव-तरलम् 
युगपत्  सञ्जायते लोतक-परिषिक्तम्
अनिर्वचनीय-रसाप्लुतम् 

हृद्देशो जायते समङ्कितात्म-विश्वासः
प्रसन्नतायाःसन्निवासः 
मानसं जायते समुच्छलम्
परमानन्द-सबलम्  

किं भवति तत् सत्यस्य रहस्यम् ?
किं तन् न्यायस्य सामञ्जस्यम् ?
किं तद् धर्मस्य सारस्यम् ?
किं वा सचेतसां सांमनस्यम् ?

एतल्लोतक-तल्लोतकयोर्मध्ये
परस्पर-भाव-वैविध्ये
केनावबुध्यते पार्थक्यम् ,
रसग्राहिणां समास्वादनैक्यम् ?

* * * 

No comments: