Tuesday, January 19, 2010

Sanskrit Poem: Svara-Mangala-Vandana (स्वरमङ्गला-वन्दना): Dr.Harekrishna Meher

Svara-Mańgalā-Vandanā 
('Prayer to the Auspicious Goddess of Musical Tune')
Sanskrit Poem By : Dr. Harekrishna Meher  
= = = = = = = = = = 
स्वरमङ्गला-वन्दना 
* रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = 

हे शारदे ! त्वं तमसां निहन्त्री
सद्‍बुद्धि-दात्री शशि-शुभ्र-गात्री ।
देवीं सुविद्या-प्रतिभामयीं त्वां
नमामि नित्यं वर-दान-हस्ताम् ॥ (१)
*
आयाहि मातः ! स्वर-मङ्गला त्वं
राजस्व कण्ठे ललितं मदीये ।
तनुष्व रूपं सुपरिप्रकाशं
रागं सरागं मधुरं प्रकामम् ॥ (२)
*
कान्तिस्त्वदीया हि समुज्ज्वलन्ती
खेदावसादं विनिवारयन्ती ।
स्वान्तारविन्दं कुरुते प्रफुल्लं
मातर्नमस्ते वितरानुकम्पाम् ॥ (३)
*
विजयतां सुकृतामनुरागिणी
रुचिर-राग-रुचा स्वर-भास्वती ।
सरस-मङ्गल-वर्ण-तरङ्गिणी
सुमधुरा सुभगा भुवि भारती ॥ (४)
*
विराजते विनोदिनी पवित्रतां वितन्वती ।
सुमङ्गलं ददातु नो विभास्वरा सरस्वती ॥ (५)   

= = = = = = = = = = =  

Related Links : 
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  

No comments: