Tuesday, September 26, 2017

Sanskrit Poem ‘नमस्ते हे दुर्गे !’ (Namaste He Durge): Dr.Harekrishna Meher

'Namaste He Durge !' (Sanskrit Poem)
By : Dr. Harekrishna Meher 
= = = = =  
नमस्ते हे दुर्गे !  
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = =
नमस्ते हे स्वस्तिप्रद-वरद-हस्तेसुसिते ! 
महासिंहासीने !  दर-दुरित-संहारण-रते  ! 
सुमार्गे मां दुर्गे !  जननि ! तव भर्गान्वित-कृपा
दहन्ती दुश्चिन्तां  दिशतु विलसन्ती प्रतिदिशम् ()
*
अनन्या गौरी त्वं  हिमगिरि-सुकन्या सुमहिता
पराम्बा हेरम्बाकलित-मुखबिम्बा मधुमती
स्वभावै-र्भव्या त्वं  मुनि-मनुज-सेव्या जनहिता
ममान्तः-सन्तापं  हृदयगत-पापं हर शिवे ! ()
*
अपर्णा त्वं स्वर्णाधिक-मधुर-वर्णा सुनयना   
सुहास्या सल्लास्या  भुवन-समुपास्या सुलपना   
जगद्धात्री पात्री  प्रगति-शुभदात्री भगवती  
प्रदेहि त्वं हार्दं  परम-समुदारं प्रियकरम्   ()
*
धरा दुष्टै-र्भ्रष्टैः  परधन-सुपुष्टैः कवलिता
दुराचार-द्वारा  खिल-खल-बलोद्वेग-दलिता
महाकाली त्वं वै  कलुष-कषणानां प्रशमनी
महेशानी हन्त्री  महिष-दनुजानां विजयिनी ()
*
इदानीं मेदिन्या  हृदयमतिदीनं प्रतिदिनं
विपद्-ग्रस्तं त्रस्तं  निगदति समस्तं जनपदम् ।
महाशङ्कातङ्कै-र्व्यथित-पृथिवीयं प्रमथिता
नराणामार्त्तिं ते  हरतु  रणमूर्त्तिः शरणदा ॥ ()
*
समग्रे  संसारे  प्रसरतु तवोग्रं गुरुतरं 
स्वरूपं संहर्त्तुं  दनुज-कुल-जातं कलिमलम्  
पुनः सौम्या रम्या  निहित-ममता-स्नेह-सुतनु-
र्मनोव्योम्नि व्याप्ता  जनयतु जनानां हृदि मुदम् ()
*
अनिन्द्या त्वं वन्द्या  जगदुरसि वृन्दारकगणैः
प्रशान्ते मे स्वान्ते  विकशतु नितान्तं तव कथा
दया-दृष्टि-र्देया  सकल-मनसां शोक-हरणी
सदुक्त्या मे भक्त्या  तव चरण-पद्मे प्रणतयः ()
*
भवेद् गुर्वी चार्वी  चिरदिवसमुर्वी गतभया   
सदन्ना सम्पन्ना  सरस-सरणी ते करुणया
समुत्साहं हासं  प्रिय-दशहरा-पर्व-सहितं   
सपर्या ते पर्यावरण-कृतकार्या वितनुताम्  ॥ (
= = = = = 

(Published as आवाहनी Slokas in
‘Bartika’  Famous Odia Literary Quarterly,
Dasahara Special Issue, October-December 2017,
Page-(iii), Dasarathapur, Jajpur, Odisha.)
= = = = = 

Related Links :
Stavarchana-Stavakam :
= = = = = 

Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  

No comments: