Sunday, September 27, 2009

Sri-Durgashtakam (श्रीदुर्गाष्टकम्): Devotional Sanskrit Poem: Dr.Harekrishna Meher

Sanskrit Stostra * Śrī-Durgāshţakam *   
By : Dr. Harekrishna Meher  
= = = = = = = = = = = = = =

* श्रीदुर्गाष्टकम् * 
रचयिता : डॉ. हरेकृष्ण- मेहेरः
= = = = = = = = = = = = = = = =    

दुर्गति-हारिणि दुर्गे !  महादेवि ! नमोऽस्तु ते ।
केसरीन्द्र-समारूढ़े !  यातुधान-निवर्हिणि ! ॥ (१)


उमा हैमवती मातस्त्वं  पार्वती महेश्‍वरी ।
कालिका सर्वमङ्गला  गौरी भगवती शिवा ॥ (२)

गायत्री त्वं च सावित्री  सहस्रं तव नाम वै ।
शान्ति-स्वरूपिणी देवी  काले त्वं घोर-रूपिणी ॥ (३)

महिषासुर-मर्दिनी  जगतां धर्म-धारिणी ।
आदिशक्ति- र्महामाया  ज्योतिर्मयी महीयसी ॥ (४)

ज्ञानं विद्या धृतिः प्रज्ञा  राजसे श्री-र्यशस्विनी ।
संस्थिता विश्‍व-संसारे  शक्‍तिरूपा त्वमम्बिका ॥ (५)

विपत्तारिणी शङ्करी  लोक-सङ्कट-नाशिनी ।
प्रसीद वरदा सदा  तमस्तोम-विदारिणी ॥ (६)

भक्‍त-क्लेशापहन्त्री त्वं  हर सन्ताप-सन्ततिम् ।
सनातनी सुकल्याणी  सिद्धिं यातु मनोरथम् ॥ (७)

अपराधं क्षमस्व मे  मातस्त्वमनुकम्पया ।
त्वमेव शरणं नित्यं  नमस्तुभ्यं सदाशिवे ! ॥ (८)

कष्टं हरतु लोकस्य त्वदीयमिदमष्टकम् ।
भवतु पापहारकं  हे मातः ! शुभ-दायकम् ॥ (९) 

इति श्रीहरेकृष्णमेहेर-विरचितं श्रीदुर्गाष्टकं सम्पूर्णम् ।  
= = = = = = = 

Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
* * *  

Devotional Songs and Poems of Dr. Harekrishna Meher : 

https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html 

= = = = = 


No comments: