Monday, July 16, 2007

Sanskrit Poem (श्रीजगन्नाथ-प्रार्थना): Sri-Jagannatha-Prarthana: Dr.Harekrishna Meher

Original Sanskrit Poem
Śrī-Jagannātha-Prārthanā  
By : Dr. Harekrishna Meher
= = = = = = = = = = = = = 
श्रीजगन्नाथ-प्रार्थना  
रचयिता : डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = = = = 
[१]
शुभं सुभद्रा-बलभद्र-सङ्गतं
नमामि नाथं जगतां वरेण्यम् ।
ओंकार-रूपं भुवि दारु-दैवतं
वेदान्त-वेद्यं महतां शरण्यम् ॥
*
[२]
नतोस्मि विष्णुं हृदि राजमानं
नीलाद्रि-वासं करुणा-निधानम् ।
वृन्दारकै-र्वन्दित-पाद-पुष्करं
ब्रह्म-स्वरूपं पुरुषोत्तमं परम् ॥
*
[३]
अपाणि-पादं मनसां प्रसादं
कृष्णं गुणातीतमजं सुरेशम् ।
तपोधनैरर्चित-पुण्य-पादं
वन्दे विभुं तं धृत-विश्व-वेशम् ॥
*
[४]
लक्ष्मीपतिं शङ्ख-गदाब्ज-चक्रिणं
श्रीवासुदेवं दुरितापहारिणम् ।
रथोत्सवे दर्शित-चारु-विग्रहं
भक्त्या तमीशं शिरसा नमाम्यहम् ॥
*
[५]
प्रदेहि चित्ते विमलावकाशं
गतान्धकारं वितर प्रकाशम् ।
कुरुष्व मे कल्मष-राशि-नाशं
हर प्रभो ! संसृति-बन्ध-पाशम् ॥
*
[६]
मैत्रीं प्रशान्तिं सुखदां चिरन्तनं
तनोतु विश्वे तव नाम-चिन्तनम् ।
आत्मीयता-रूप-रसो महीयतां
प्रभो जगन्नाथ ! कृपा विधीयताम् ॥ 
= = = = = = = = = = = = = 
(Published in Sanskrit Journal Samskrita-Pratibha”  Vol. 23 / 2,
Oct. 2000 - March 2001, Sahitya Akademi, New Delhi)
= = = = = = = = = = = = = 

Revised Poem 
= = = = = = =  
श्रीजगन्नाथ-प्रार्थना (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = =  
शुभं सुभद्रा-बलभद्र-सङ्गतं
नमामि नाथं जगतां वरेण्यम् ।
ओंकार-रूपं भुवि दारु-दैवतं
वेदान्त-वेद्यं महतां शरण्यम्  ॥ (१)
* 
नतोऽस्मि विष्णुं  हृदि राजमानं
नीलाद्रि-वासं करुणा-निधानम् ।
वृन्दारकै-र्वन्दित-पाद-पुष्करं
ब्रह्म-स्वरूपं  पुरुषोत्तमं परम्  ॥ (२)
* 
अपाणि-पादं  मनसां प्रसादं
कृष्णं गुणातीतमजं सुरेशम् ।
तपोधनैरर्चित-पुण्यपादं
वन्दे विभुं तं धृत-विश्ववेशम्  ॥ (३)
* 
लीला विचित्रा तव मानवायिता  
शारीरिकी भङ्गुरता प्रदर्शिता ।
वार्त्तास्ति मर्त्त्ये  परिवर्त्तते तनुः
सत्यं हि मृत्यु-र्नियतं पुनर्जनुः ॥ (४) 

पुरातनं  दारुमयं कलेवरं 
त्यक्त्वा प्रभो हे ! समये समागते ।
दधासि देहं  नवदारु-सुन्दरं 
सांसारिकी रीतिरियं जगत्पते ! ॥ (५)
* 
लक्ष्मीपतिं शङ्ख-गदाब्ज-चक्रिणं
श्रीवासुदेवं  दुरितापहारिणम् ।
रथोत्सवे  दर्शित-चारु-विग्रहं
भक्त्या तमीशं शिरसा नमाम्यहम्  ॥ (६)
* 
प्रदेहि चित्ते विमलावकाशं
गतान्धकारं  वितर प्रकाशम् ।
कुरुष्व मे कल्मषराशि-नाशं
हर प्रभो ! संसृति-बन्ध-पाशम्  ॥ (७)
*
मैत्रीं प्रशान्तिं सुखदां चिरन्तनं
तनोतु विश्वे तव नाम-चिन्तनम् ।
आत्मीयता-रूप-रसो महीयतां
प्रभो जगन्नाथ !  कृपा विधीयताम्  ॥ (८) 
= = = = = = = 
(Published as *Aavaahani* Opeming Verses in “BARTIKA”  
Odia Literary Quarterly, Special Puja Issue, 
October-December 2015, Dasharathpur, Jajpur, Odisha) 
= = = = = =  

Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  

No comments: