Monday, March 7, 2016

सौन्दर्यानुभूतिः (Sanskrit Poem): Dr.Harekrishna Meher

‘Saundaryaanubhutih’ (Sanskrit Poem)

By: Dr. Harekrishna Meher 

(From Sanskrit Kavya 'Saundarya-Sandarshanam')
= = = = = = = = = = = = = = = = = = = = 

सौन्दर्यानुभूतिः
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =
सौन्दर्यमाभ्यन्तर-बाह्य-रूपं
भवेज्जनानां द्विविधं जगत्याम्
आभ्यन्तरं वै  हृदयेन गृह्यते
बाह्यं सदा लोचन-मात्र-गोचरम् ()

केवलं बाह्यग-रूप-गोचरं 
स्पर्शे शब्दे रस-गन्धयोरपि
सुगोचरं  नूनमिदं प्रवाहितं
धारामयं राजति रामणीयकम् ()

आनन्द-निष्यन्दमयं रसालं
दिव्यं हि  सौन्दर्यमिदं विभाव्यते ।
चर्चासु तद् वस्तुगतं विवेचितं
पुनर्भवत्यात्मगतं च तद्विदाम्  ॥ ()

सौन्दर्यमास्ते यदि वस्तु-निष्ठं
तर्हि  प्रमेये  नियतं श्रयन्ते
आकार-वर्ण-प्रभृतीनि यानि
तत्त्वानि सन्तीन्द्रिय-गोचराणि ()

यदात्मनिष्ठं  भुवि सुन्दरत्वं
तदा प्रमातुः स्वगतोऽस्ति धर्मः
प्रमातुरन्तःकरण-स्थिति-र्वै
सौन्दर्यमेवं सृजति प्रमेये ()

सङ्गीत-साहित्य-कलासु रम्यता 
देदीप्यते सर्वत एव सर्वथा  
गुणेषु कर्मस्वपि  राजते स्वं 
निदर्शनं सुन्दरता दधाना ()

पिकस्य ताने मुरली-मधुस्वरे 
चित्रे मूर्त्तौ रचने कलात्मके             
मयूर-नृत्ये कलाप-विस्तरे
बिभर्त्ति वेशं कमनीयता प्रियम् ()

दूरस्थ-बन्धु-र्मधुरः प्रतीयते
दूरस्थ-शैलो रुचिरो हि दृश्यते
दूरस्थ-भावः परिलक्ष्यते तथा 
सुविद्यमाने सविधेऽपि सद्गुणे ()

उत्कर्षशाली प्रतिभाधरोऽपि
स्थाने स्वके  नाद्रियतेऽनुरूपम्
लावण्ययुक्तापि  जनस्य लोचनैः
स्वग्राम-कन्या हि सिङ्घाण-नासिका (

शृङ्गार-भङ्ग्या रमणी-कटाक्षे 
स्नेहेषु पित्रोः  प्रणयेषु बन्धोः
अव्याज-हासे शिशोः पवित्रे
सौन्दर्यमेवं निहितं निगूढ़म् (१०)

अर्क-प्रकाशो धवलो विलोक्यते
सप्तवर्णात्मक एव राजते
वैज्ञानिकैः सत्कविभिश्च वर्णितो
रूप-श्रियाऽसौ जगतां मनोहरः  (११)

सुशीतलत्वं दधतीह दीधिती  
रम्या सुधांशो-र्मृदुला मुदा-प्रदा
उषा सुभूषा निज-रूपभासा 
स्निग्धा सन्ध्या हरतीह चित्तम्  (१२)  

वल्ली सपुष्पा सुफला सपादपा
आह्लादिनी सा मनसां रसान्विता  
विभान्ति चान्ये  प्रकृते-र्विभावाः 
सुदर्शनास्ते  नयनाभिरामाः (१३)

दृश्यावली कर्षति या स्वतो जनं 
कलात्मिका भावुक-भाव-वर्द्धिनी
निसर्ग-देव्या रमणीयता वै
हृल्लोचनान्तःकरण-प्रमोदिनी (१४)  
= = = = = = = 

Related Link : 
Saundarya-Sandarshanam 
http://hkmeher.blogspot.in/2016/04/sanskrit-kavya-saundarya-sandarshanam.html
*
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:  
Translated Works of Dr. Harekrishna Meher : 
http://hkmeher.blogspot.in/2016/08/translated-works-of-dr-harekrishna-meher.html
 = = = = = 

No comments: