Wednesday, February 10, 2016

'Rajaniti-Prasunam' (राजनीति-प्रसूनम्) Sanskrit Poem/Dr. Harekrishna Meher

राजनीति-प्रसूनम् (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =
राजनीति-प्रसूनं राजते सजल-स्थलम्
कदा बहु-दलं  कदा नव-दलम्
स्वीय-प्रलोभन-सौरभेण
मधुकर-निकर-प्रारम्भेण
सम्मदयति जन-मानसम्,
मतदानं स्वपक्षं कर्त्तुं निरलसम्

कदा सप्तपर्णोत्कट-गन्धेन
कृत-नेत्र-प्रतिबन्धेन
छिद्यते अन्यदल-ग्रन्थिः,
भिद्यते प्रतिपक्ष-पन्थी,
खिद्यते जनता तपस्विनी,
विद्यते प्रवञ्चन-वाक् तेजस्विनी,
स्विद्यते देश-मातृकायाः
सर्वंसहमपि सर्वाङ्गं निर्भीकायाः

अभूतपूर्वं तन्नूनम्
सर्वफलप्रसू राजनय-प्रसूनम्,
नयनानयन-विमोहनम्
शयन-परिहृत-सहनम्,
वैचित्र्य-विमण्डितम्
कदा संयुक्तं कदा विखण्डितम्

* * * 

No comments: