Friday, December 25, 2015

Sanskrit Poem ‘Vikalmashaah’ (विकल्मषाः)/Dr.Harekrishna Meher

Original Sanskrit Poem 
‘Vikalmashaah’
By: Dr. Harekrishna Meher
*
विकल्मषाः 
* डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = 

सर्वे रत्नाकराः
विकल्मषा वाल्मीकयः,
सर्वे सुधाकराः
शीतांशवः कलानिधयः 

सर्वे शङ्कराः
हालाहल-पान-नीलकण्ठाः,
सर्वा राधिकाः
कृष्ण-राग-समागमोत्कण्ठाः

सर्वे वामनाः
बलि-नियमन-कामनाः,
सर्वे उपमन्यवः
गुरु-भक्ति-साधवः,
सकला एकलव्याः
द्रोण-गुरु-शरव्याः

सर्वे पुरुषोत्तमाः
वृत-रमाः
सर्वे कालिदासाः
काव्य-रस-विलासाः,
सर्वा वनिताः
पातिव्रत्य-धर्म-ध्वनिताः

सर्वे शासकाः
लोक-विधान-समुपासकाः,
सर्वे नेतारः
जन-हित-वेत्तारः

समस्ता मन्दाकिन्यः
भगीरथ-दिग्दर्शिन्यः
सर्वा याज्ञसेन्यः
पार्थ-सनाथाः,
सर्वाः कविता कालजयिन्यः
नापि हृदयस्पर्शि-गाथाः

सर्वे देश-निवासिनः
राष्ट्रियता-सुवासिनः,
सर्वे महेन्द्राः
देवाधिराजा वज्रिणः,
किन्तु सर्वे विश्वादिकन्द-केन्द्राः
सम-गुण-शोणित-धारिणः

* * *


No comments: