Friday, October 30, 2009

Divya-Vaibhavam (दिव्य-वैभवम्) : Original Sanskrit Song : Dr.Harekrishna Meher


Divya-Vaibhavam (Sanskrit Song) 
*
Lyrics and  Tuning by : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = = = = = = = =
दिव्य-वैभवम्
गीति-रचना तथा स्वर-संयोजना : 

डॉ. हरेकृष्ण-मेहेर:
= = = = = = = = = = = = = = = = = = = = = = = 

दिव्य-वैभवं विभास्वरम्,
सत्यं शिवं सुन्दरम् ।
अजरं भज रे  महेश्वरम्,
सत्यं शिवं सुन्दरम् ॥
(ध्रुवम्)
*
अगाध-जलधौ  नगाधिराजे वने रणे,
पार्थिव-बन्धे भक्ति-सुगन्धे समीरणे ।
मज्ज सुकरुणा-वारि-कणे,
तमादिकन्दं . . . . . परमानन्दं
विरजं भज रे क्षणे क्षणे ।
तं भगवन्तं निरन्तरम्,
नाद-झङ्कृतं सुधा-झरम् ।
अजरं भज रे 
महेश्वरम्, 
सत्यं शिवं सुन्दरम् ॥ (१)
*
पुण्य-मताया  मानवताया विचारणे,
दैन्य-गताया  दानवताया निवारणे ।
आत्म-विश्वास-जागरणे,
विस्मर नो तं . . . . . भवाब्धि-पोतं
हृदये सुदया-परायणे ।
शान्ति-चन्दनं भ्रान्ति-हरम्,
चिन्तय नियतं ब्रह्म परम् ।
अजरं भज रे 
महेश्वरम्,  
सत्यं शिवं सुन्दरम् ॥ (२)
*   

प्रेम-बन्धनं  विश्व-वन्दनं रसाङ्गणे,
निर्मलाञ्जनं तमोभञ्जनं सदीक्षणे ।
प्रपञ्च-मञ्चे सञ्चरणे,
तर्जय तापं . . . . . वर्जय पापं

सुमङ्गले कृत-पदार्पणे ।
पश्‍य सादरं सरोवरम्,
हंस-विहारं विकस्वरम् ।
अजरं भज रे  
महेश्वरम्,  
सत्यं शिवं सुन्दरम् ॥ (३)
= = = = = = = = = = = = = = = =


(इयं गीतिका कहरवा-ताल-मध्य-लयेन परिवेषणीया ।)
= = = = = = = = = = = =

Included in Sanskrit Gitikavya 
* PUSHPANJALI-VICHITRA * 
Link : 
= = = = = = = = 

No comments: