Friday, June 26, 2009

Sanskrit Song: Srikrishna-Gitika (श्रीकृष्ण-गीतिका): Dr.Harekrishna Meher

Srikrishna Gitika (Sanskrit Song)
Lyrics and Tuning by : Dr. Harekrishna Meher 
*
[Composed in my self-innovated original new lyrical 
maatraa-metre, which has been named 'Maadhavi']

= = = = = = = = = = 
श्रीकृष्ण-गीतिका 
गीत-रचना तथा स्वर-संयोजना : 
डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = 

भज माधवं परमालयम्,
भव-वैभवं सुजनाभयम् ।
रक्षकेशं         केश-वेशं
केशवं शिव-नन्दितं सच्चिन्मयम् ।
भज माधवं परमालयम् ॥
 (ध्रुवम्)
*
शाश्‍वतं परमेश्‍वरं
तमचिन्त्य-रूप-चिरन्तनम् ;
विश्‍वमयमविनश्‍वरं
सन्तापितान्तर-चन्दनम् ।
मङ्गलकरं         शार्ङ्ग-सुकरं
सुर-मुनि-तपो-वेदितं प्रणवोदयम् ।
भज माधवं परमालयम् ॥ (१)
*
साधु-जन-हृद्‌-रञ्जनं
वृन्दावनेन्दुं सुन्दरम् ;
राधिका-नयनाञ्जनं
गोपाङ्गना-रङ्गाधरम् ।
घनश्यामं          पश्य कामं
मधुर-मुरली-नादितं सुभगाशयम् ।
भज माधवं परमालयम् ॥ (२)
*
दुष्ट-कंस-विनाशकं
परिपूत-साचल-जङ्गमम् ;
लोकजननी-नायकं
शयनार्थ-कलित-भुजङ्गमम् ।
भक्ति-तृष्णं विष्णु-कृष्णं
नन्द-यशोदयान्वितं जगदाश्रयम् ।
भज माधवं परमालयम् ॥ (३)
*
दीनबन्धु- जनार्दनं
शरणार्त्त-तमोहरारुणम् ;
मुरारिं मधु-मर्दनं
खल-दर्प-दारण-दारुणम् ।
सर्व-देवं         वासुदेवं
देवकी-गर्भोदितं दैत्यादयम् ।
भज माधवं परमालयम् ॥ (४)
*
धर्म-सङ्कट-हारिणं
द्रौपदी-प्रियधव-बान्धवम् ;
चक्रिणं हित-कारिणं
वैकुण्ठपुर-कण्ठीरवम् ।
अम्बुदाभं        पद्मनाभं
कम्बु-गदादि-मोदितं प्रभुमव्ययम् ।
भज माधवं परमालयम् ॥ (५)
= = = = = = = = = =  
(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य मध्य-लयेन परिवेषणीया ।) 

(This Śrīkrishņa-Gītikā was published in Music-magazine
“ Sangeet ”
August 1998 Issue, Sangeet Karyalaya, Hathras, Uttar Pradesh.)
= = = = = = = = = = = 

Related Links : 

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher : 

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  
Biodata: Dr. Harekrishna Meher : 

= = = = = 


No comments: