Sunday, February 1, 2009

Sanskrit Poem ‘Mahaushadham’ (The Prime Panacea)/Dr.Harekrishna Meher

Mahaushadham’
Sanskrit Poem by : Dr. Harekrishna Meher 
= = = = = = =  = = = = = = = = = = = 
महौषधम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः   

= = = = = = = = = = = = = = = = = =  

वर्द्धन्ते महाव्याधयः
प्राणिजनानां मर्त्त्य-कलेवरेषु,
परन्तु गणतन्त्रस्य शरीरे
जायन्ते ये मानव-बुद्धि-कृता व्याधयः
चिकित्सा तेषां नूनं सुदुष्करा ॥

यौतुकजन्य-वधूमारणं चापहरणं
भष्टाचारो दुर्नीतिरुत्कोचः
लुण्ठनं शोषणं सन्त्रसनमित्यादयः
घोराः सामाजिक-व्याधयः ॥

रक्षका भक्षका भूत्वा
हरन्ति सम्पदं राष्ट्रस्य,

शोषयन्ति सन्तत-जन-धनम्
कृत्वा स्वात्मनः परितृप्ति-साधनम् ॥

घोटाला-घोटकाः सत्वरं
धावन्ति प्रशस्त-राजमार्गे,
धूली-धूमावृतं कृत्वा चत्वरं
प्रखर-खुरोत्‌क्षेपणैः पश्‍चाद्‌भागे ॥

दुर्नयो मारात्मक-व्याधीभूय प्रतिक्षेत्रम्
शनैःशनैः खादति देश-गात्रम्,
चेष्टते नितरां राष्ट्रस्य
पङ्‍गुत्वं विधातुं गणतन्त्राङ्‍गेषु ।
वराकी जनता न जानाति
मुद्रित-नेत्रा केवलं दृष्टिं दधाति ॥

जन-जागरणमेव महौषधम्
कर्त्तुं भ्रष्टाचार-व्याधि-वधम् ।
संस्कार-समुच्चार एव महामन्त्रः
सुसञ्चालित-जनतन्त्र-यन्त्रः ॥


* *


( Published in “Arvācheena-Sanskritam”, April 2004 - January 2005 Issue,
of Devavani Parishad, Delhi.)

* * *

No comments: