Tuesday, April 1, 2008

‘Utkala-Janani Mahiyataam’ (Sanskrit Song from 'Utkaliya-Satkalaa' Kavya): Dr.Harekrishna Meher

 Sanskrit Gīti-Kāvya: Utkalīya-Satkalā' 
= = = = = = =
Extracts : 

Original Sanskrit Poem 

Utkala-Jananī Mahīyatām’
Lyrics and Tuning by : Dr. Harekrishna Meher
= = = = = = = 
उत्कल-जननी महीयताम् 
('उत्कलीय-सत्कला' - गीतिकाव्यतः)
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण मेहेरः  
= == = = = = = = = = = = = = = = = 

उत्कल-जननी सत्कला-धना महीयताम् ।
महाजनानां 
वर-तनुजानां
पुण्य-साधना महीयताम् । 
सत्कला-धना महीयताम् ॥ (ध्रुवम्)
*
शिल्प-कल्पना-स्पन्दित-मन्दिर-माला,
अनिन्द्य-रूपा  वन्दित-सुन्दर-भाला ।
निसर्ग-देव्या  रङ्ग-सुविशाल-शाला,
मङ्गल-भङ्ग्या  वाङ्‍मय-मयूख-जाला ।
मन्दाकिनीव पुनती नाशित-मन्दा,
संस्कृति-सुरुचा  सञ्चारित-मकरन्दा ।
वसुन्धरा सा 
सिन्धु-विलासा 
स्निग्ध-बन्धना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [1]
*
या तीर्थमयी  सत्पथ-सेवित-कामा,
गर्भित-रत्ना  सुरभित-कुसुमारामा ।
धान्य-सुधन्या  वन्य-धनैरभिरामा,
या रमणीया  मणि-माणिक्य-ललामा ।
प्रेम-भास्वरं  शाश्वतं राजमानम्,
संस्कारवतां  पुष्कलमिदं निधानम् ।
शिव-सङ्कल्पा 
पङ्कज-तल्पा 
भव्य-भावना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [2]
*
चारु-कलानां  प्रसन्न-सन्निधि-भूता,
तारुण्यमयी  दारु-कलाकृति-सूता ।
कारु-फलानां  सूक्ष्म-लक्ष्म-परिपूता,
बान्ध-कलानां  सम्बल-कदम्ब-धूता ।
शृङ्ग-मृत्तिका-पित्तल-कला-सुभित्तिः,
पट-चित्राद्यैश्‍चित्त-मोदिनी कीर्त्तिः ।
मयोभूरियं  
बिभर्त्ति श्रियं  
भूरि-वर्धना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [3]
*
कम्बराम्बरैः  सम्बलपुरीति नृत्यम्,
करम्बिताङ्गं  सङ्गत-सुगीत-कृत्यम् ।
सहृद्य-वाद्या  वीर-रसामृत-पाना,
रमयति घुमुरा  जनं स्वनित-निःशाना ।
छ‍उ-दण्डाद्यै-र्मण्डित-भाण्डागारा,
कला-भूरसौ  नयन-विमोहन-कारा ।
विभात्योड़िशी 
नित्य-षोड़शी  
लास्य-शोभना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [4]
*
रथयात्रायाः  प्रथिता यत्र सुगाथा,
वसुज-दर्शनाद् भक्त-जनता कृतार्था ।
पुरी प्रसिद्धा  श्रीपुरुषोत्तम-धाम्ना,
इह महोदधि-र्दधौ सार्थतां नाम्ना ।
यशस्विनीयं  विश्‍वबन्धुता-दाम्ना,
सरसाम्नाता  मुदा समुदात्त-साम्ना ।
आस्तिक-नावा  
प्रशस्त-भावा  
स्वस्ति-दर्शना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [5]
* * 
यत्र राजिता  विश्‍वनाथ-कविराजः,
सामन्त-चन्द्रशेखर-विद्वद्‍राजः ।
श्रीजयदेव-प्रभृति-प्रतिभाभाजः,
उपेन्द्र-भञ्जो  रञ्जित-विबुध-समाजः ।
कृष्ण-बल-रथाभिमन्यु-यदु-गोपालाः,
सब्रजराजा  वाणी-सरो-मरालाः ।
विचित्र-पर्णा  
रचित-सुवर्णा  
रुचिर-वर्णना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [6]
*
भारत-कर्त्ता  यत्र सारला-दासः,
कथा-सम्राट्  फकीरमोहनो व्यासः ।
काव्य-पुरोधाः  कविवर-राधानाथः,
व्यधत्त नव्यं  भक्त-मधुना सनाथः ।
तूली गङ्गाधरस्य मधुर-सुरङ्गा,
समृद्धमकरोत्  निधिं सुधामय-सङ्गा ।
ग्रन्थ-मन्थनं  
तत्त्व-चिन्तनं  
स्वान्तरात्मना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [7]
* *
अस्मितामयी  सुस्मित-विस्मय-धानी,
नन्दित-भुवना  विभाति यत्र वनानी ।
अंशुपया सह  शंसित-सरसोद्‍वेला,
निखिल-लेखनी  यत्र सुलक्षित-खेला ।
केली-कलिता  चिलिका चञ्चल-चेला,
लसति यदङ्गे  रङ्गिम-विहङ्ग-मेला ।
क्वणत्-कङ्कणा  
दीप्त-दर्पणा  
व्याप्त-जीवना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [8]
* *
दीव्यतु मनसो  व्योम-स्थली सुनीला,
तत्र राजतां  तपन-ज्योति-र्लीला ।
अन्तःकरणे  सन्तत-चिन्तन-धारा,
प्रसरतु चार्वी  सत्त्व-विशुद्ध-विचारा ।
संसार-सुधारणे सुधा-रस-सारा,
शुभ्र-सौरभा  हृदय-दयोज्ज्वल-तारा ।
नव्य-सर्जना  
दिव्य-चेतना  
शान्ति-चन्दना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [9]
*
वल्गु-वादिनी  सुभगा विगलित-दैन्या,
सुरक्षणीया  दक्ष-सूनु-गण-सैन्या ।
भारत-मातु-र्मूर्त्तिमती प्रतिमेयम्,
उत्कृष्ट-कला-वैशिष्ट्यं प्रणिधेयम् ।
यत्र हि जैत्रं  प्रेममयमप्रमेयम्,
मानवताया  मधु-सङ्गीतं गेयम् ।
कम्र-कोमला 
नम्र-निर्मला  
मातृ-वन्दना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥ [10]
= = = = = = = = = = = = = = 

Ref : 
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
 = = = = = 

No comments: