Saturday, July 18, 2015

Odia Article : समन्वयर प्रतीक दारुदेवता श्रीजगन्नाथ : डॉ. हरेकृष्ण मेहेर

My Odia Article :
“Samanvayara Pratika Daru-Debata Sri-Jagannatha” 
*
समन्वयर प्रतीक दारुदेवता श्रीजगन्नाथ 
ओड़िआ लेख : डॉ. हरेकृष्ण मेहेर
*
Published in  ‘Prameya’
(Odia Daily Newspaper, Bhubaneswar)
on the occasion of the Holy Ratha-Yatra,
Date 18-7-2015, Saturday, Page-8.
= = = = = = = = = = = = = = = = = = =  

Monday, July 6, 2015

Sakalaa Sukalyaani (सकला सुकल्याणी) Sanskrit Poem/ डॉ. हरेकृष्ण मेहेर

Sakalaa Sukalyaani (Sanskrit Poem)
By : Dr. Harekrishna Meher
= = = = = = = = = =
सकला सुकल्याणी (संस्कृत-कविता)
रचयिता - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = = = 

सर्वंसहा त्वं  सुकृति-र्महाफला
सर्वंदहा त्वं  प्रबला महाबला ।
प्राज्यासु पूज्या महिला च सर्वदा
दिव्यासि  देवी-पदवी प्रियंवदा ॥
 *
त्वमसि कमनीया कामिनी
ज्योतिष्मती यामिनी
अभ्र-गर्भा सौदामिनी,
पुनर्भवितव्या भाविनी संयमिनी ।
मायासि त्वं मायामयी मायाविनी,
कथं पुनः स्वीकृताविला
कूलङ्कषा पङ्किला
कलङ्क-प्लाविनी ?

नारी-पुरुषयो-र्मधुर-मिलने
संसार-स्यन्दन-चालने
त्वमसि चक्रिका सक्रिया
महती शक्ति-रूपा सत्क्रिया ॥।

दानवीय-दुर्नीति-दुष्कृति-दलने
धरणी-सुधारणे  धर्म-पालने
दुर्गासि दुर्गतिहा रचितेतिहासा
स्वर्ग-सुखदा पावनी शुभ्र-हासा ।
प्रभवतु भगवती नव्य-प्रगति-प्रक्रिया,
यत्र विनश्यति सर्वा भ्रष्टाचारादि-विक्रिया ॥

लास्यमयी मञ्जुलास्या मनोरमा
सन्निधान-सम्पन्ना त्वमन्नपूर्णा रमा ।
कथं पुनः पण्य-वस्तुवद् गण्यते
रङ्ग-भङ्ग्या शुभाङ्ग-जातं घृण्यं ते ?

मनुज-समाज-सम्मार्जनार्थं
जागृहि त्वं जगद्-गृह-भरणी सुगृहिणी
सौन्दर्यमयी नारी-मर्यादा-सुरक्षणार्थं
कुसंस्कार-कंसोपद्रव-विद्रोहिणी ।
उत्तिष्ठ प्राणिगण-समुद्धारणाय रण-रुद्राणी
सकला सकलानां सुकल्याणी ॥


* * * *