Tuesday, January 6, 2015

Cover Images of Hindi-English-Sanskrit Version 'Tapasvini' Books/ Dr.Harekrishna Meher :

Cover Images of Hindi-English-Sanskrit Version 
'Tapasvini' Books : 
= = = = = = = = = = = = = = = = = = = = = = = = = =  
















1. TAPASVINI 
      (Complete Hindi Version of Oriya Kavya
      of Swabhava-Kavi Gangadhar Meher),
      Translated by : Dr. Harekrishna Meher.
      Publisher: Sambalpur University, Jyoti Vihar, Orissa, 2000.

2.  TAPASVINI  OF  GANGADHARA  MEHER 
      (Complete English Version of Oriya Kavya Tapasvini),
      Translated by : Dr. Harekrishna Meher.
      ISBN : 81-87661-63-1,  Publisher: R.N. Bhattacharya, 
      A-127, HB.Town, Sodepur, Kolkata, 2009.

3.  TAPASVINI  (MAHAKAVYAM)
      (Complete Sanskrit Version of Poet Gangadhara Meher’s
      Oriya Kavya Tapasvini) 
      Translated by : Dr. Harekrishna Meher.
      ISBN: 978-81-7110-412-3.
      Publisher: Parimal Publications, 27/28, Shakti Nagar, Delhi-7, 2012.
     = = = = = = = 

Complete Books Link : 
= = = = = = = 



Sanskrit Poem ‘Sukhānveṣā’ (सुखान्वेषा): Dr.Harekrishna Meher

Sanskrit Poem ‘Sukhānveṣā’  
(Quest for Happiness)
By : Dr. Harekrishna Meher
*
सुखान्वेषा  

* डॉ. हरेकृष्ण-मेहेरः  

 = = = = = = = = = = = = = = = = 

कतिपये पश्यन्ति सुखं
नयनै-र्मुद्रितायनैः,
परन्तु पश्यन्ति दुःखं
धृत्वा मलीमसं मुखं
समुन्मीलित-नयनैः
मुक्त-वातायनैः ॥

सुखमवलोकयन्ति
उन्मीलित-लोचनैः कतिपये,
सुखं चानुभवन्ति
स्वान्तरे स्वहृदये ॥

नकारात्मक-चिन्तनैः
व्यतिव्यस्ता जनाः
स्वत एव सृजन्ति
दुःख-राशिमप्रसन्नाः ॥

सकारात्मक-चिन्तनैः
सुखं विलोक्यते सुलोचनैः,
नकारात्मक-चिन्तनैः
सुखं नूनं विलुप्यते
दुःखं च समवाप्यते ॥

अपरिमित-वित्तशालिनोऽपि
तृप्तिरान्तरिकी यदि नास्ति,
सुखमायास्यति कुतः ?
दुःखबोधस्तस्य स्वत एव सम्भूतः ॥

मद-मत्त-चित्तः
आत्म-दर्पिष्ठो विपुल-वित्तः
स्वान्तरे सुखमन्विष्यति केवलम्,
परन्तु लब्धुमक्षमः प्रतिपलम् ॥

अहङ्कारी समुद्धतः
दाम्भिको मोह-ग्रस्तः
असमर्थो भुवि भवति
यथार्थ-सुख-स्वरूपं द्रष्टुं
कलकल-नादिन्याम्
आरण्य-निर्झरिण्याम् ।
प्रकृत्याः सुनिर्मल-पर्यावरणे वर्धितेषु
पादप-लतादिषु पुष्पितेषु ॥

अभाव-ग्रस्तोऽपि
दरिद्रतायाः कषाघातै-र्निपीड़ितोऽपि
स्वान्त-सन्तोषमनुभवति यः,
स एव सुखी नूनमद्वितीयः ॥

इन्द्रभवनोपमेषु हर्म्येषु
निवसन्नपि यः
मानसिक-दरिद्रतामनुभवति,
स एव दुःखी विश्व-जगति ।
सुखं तस्य कृते
मरीचिका सञ्जायते
अथवा विहायस-प्रसूनम्
अथवा दिवा-स्वप्नः ॥

नास्ति यस्य अभाव-बोधः
उत क्षीणो यस्याहंभावः,
स भाव-प्रवणो मानवः
निसर्ग-विभावेषु सुखमन्विष्यति,
नितरां सुखं पश्यति
समाह्लादमनुभवति
तच्चान्तरात्मनि
अपूर्वं सर्वमहन्यहनि ॥ 

* * *