Saturday, May 11, 2013

Sanskrit ‘Tapasvini’ Kavya Complete (सम्पूर्ण संस्कृत ‘तपस्विनी’ काव्य/डॉ.हरेकृष्ण-मेहेरः)

Original Oriya Mahakavya ‘TAPASVINI’
By :Poet Gangadhara Meher (1862-1924)
. 
Complete Translations 
 into Hindi, English and Sanskrit languages
By : Dr. Harekrishna Meher.

 = = = = = = = = = 

Complete Sanskrit ‘TAPASVINI’ is presented here.    

Sanskrit  Translation Book ‘Tapasvini’  by Dr. Harekrishna Meher.
*
Published by : Parimal Publications, 27/28  Shakti Nagar, Delhi-110007. 
ISBN : 978-81-7110-412-3.  First Edition : 2012.
*
SANSKRIT ‘TAPASVINI’ BOOK 
*
[All Eleven Cantos have been taken here from this Sanskrit Book.]

= = = = = = = = = = = = = = = = = = = = = = =
Sanskrit  Tapasvini  [Contents]
= = = = = = = = = = = = = = = = = = = = = = =

तपस्विनी  (महाकाव्यम्) 
ओड़िआ-मूल-रचना *  स्वभावकवि-गंगाधर-मेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = = = = = = = = = = = = = = = =
 तपस्विनी  सूचीपत्रम्
= = = = = = = = = = = = = = =   
प्राक्‌कथनम्  :

तपस्विनी-महाकाव्यम् : एकमालोकनम्   

= = = = = = = = = = = =

* तपस्विनी-महाकाव्यस्य * 
मुखबन्धः  
*
प्रथमः सर्ग:  
*
द्वितीयः सर्गः  
*
तृतीयः सर्गः  
*
चतुर्थः सर्गः  
*
पञ्चमः सर्गः 
*
षष्ठः सर्गः 
*
सप्तमः सर्गः 
*
अष्टमः सर्गः 
*
नवमः सर्गः  
*
दशमः सर्गः 
*
एकादशः सर्गः  

* * * 
* सम्पूर्णम् * 
= = = = = = = = = = = = 

Complete Hindi ‘Tapasvini’ Kavya :
*
Complete English ‘Tapasvini’ Kavya :
*
Complete Sanskrit ‘Tapasvini’ Kavya (Tapasvini Blog):
 = = = =

 Articles on My Hindi-English-Sanskrit Translations of Tapasvini Kavya :

* * * * * 

Tapasvini Kavya (Complete Hindi-English-Sanskrit Versions): Dr.Harekrishna Meher

Original Oriya Mahakavya ‘TAPASVINI’
By : Poet Gangadhara Meher (1862-1924).
*
Complete Tri-Lingual Translations
into Hindi, English and Sanskrit languages
By : Dr. Harekrishna Meher.
TAPASVINI  BOOKS VIEW :  
Link : 
[All Eleven Cantos have been taken here from the Books.]
= = = = = =  
Tapasvinī, an eleven-canto Oriya epic poem, is the magnum opus and a great classic of Poet Gańgādhara Meher. With the prevailing sentiment of Pathos, this kāvya depicts the post-banishment episode of Sītā in the hermitage of Sage Vālmīki. Here Sītā, the adorable daughter of Earth and the devoted wife of King Rāma, in her later life appears as a Tapasvinī, ‘A Woman practising penance’ or ‘An Ascetic-maid’. In this Rāmāyana-based literary composition, the poetic presentation is well-embellished with originality and significant innovations. Like Kālidāsa in Sanskrit and William Wordsworth in English, Gańgādhara Meher is regarded as Prakŗti-Kavi, Poet
of Nature, in Oriya literature. 

This epic poem reveals the ambition of the poet to portray the brilliant character of a devoted wife steeped in Indian culture. With vivid and prominent delineation of Sītā’s life-deeds, ‘Tapasvinī Kāvya' may be construed as a ‘Sītāyana’ in the field of Indian Literature.
= = = = = =  

Complete HINDI ‘TAPASVINI’ :


= = = = = =  

Complete ENGLISH ‘TAPASVINI’ :


= = = = = =  

Complete SANSKRIT ‘TAPASVINI’ :

Friday, May 10, 2013

Sanskrit ‘Tapasvini’ Kavya Complete (सम्पूर्ण संस्कृत ‘तपस्विनी’ काव्य : डॉ.हरेकृष्ण मेहेर)

Original Oriya Mahakavya ‘TAPASVINI’
By : Poet Gangadhara Meher (1862-1924).
*
Complete Translation into Hindi, English and Sanskrit :  
By : Dr. Harekrishna Meher.

Tapasvini Books View : 
= = = = = = = = = =

Complete Sanskrit ‘TAPASVINI’ is presented here.     

Sanskrit  Translation Book ‘Tapasvini’  by Dr. Harekrishna Meher
*
Publisher : Parimal Publications, 27/28  Shakti Nagar, Delhi-110007.  
ISBN : 978-81-7110-412-3.  First Edition : 2012. Total pages : 240.
*
SANSKRIT ‘TAPASVINI’ BOOK 
*
 [All Eleven Cantos have been taken here from this Sanskrit Book.]

= = = = = = = = = = = = = = = = = = = =
Sanskrit  Tapasvini  [Contents]
= = = = = = = = = = = = = = = = = = = =  

तपस्विनी  (हाकाव्यम्)
ओड़िआ-मूल-रचना *  स्वभावकवि-गंगाधर-मेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = = = = = = = = = = 
तपस्विनी  सूचीपत्रम्
= = = = = = = = = = = = = = = = = 

प्राक्‌कथनम्  :
तपस्विनी-महाकाव्यम् : एकमालोकनम्   

= = = = = = = = = = = =

तपस्विनी-महाकाव्यस्य * 

मुखबन्धः  
प्रथमः सर्ग:  
द्वितीयः सर्गः  
तृतीयः सर्गः  
चतुर्थः सर्गः  
पञ्चमः सर्गः 
षष्ठः सर्गः 
सप्तमः सर्गः 
अष्टमः सर्गः 
नवमः सर्गः  
दशमः सर्गः 
एकादशः सर्गः  
*
=* सम्पूर्णम् *=

= = = = = = = = = = = = 
Related Links  
= = = = = = = = = = = = 

Complete Sanskrit ‘Tapasvini’ Kavya  (Tapasvini Blog): 
http://tapasvini-kavya.blogspot.in/2013/05/complete-sanskrit-tapasvini-kavya.html

* * * * * 
Complete Hindi ‘Tapasvini’ Kavya :
*
Complete English ‘Tapasvini’ Kavya : (Tapasvini Blog):
*
Complete English ‘Tapasvini’ Kavya : (HKMeher Blog):
* * * * * 

Articles on My Hindi-English-Sanskrit Translations of Tapasvini Kavya :
*
* * * * * 




























Sanskrit ‘Tapasvini’ Canto-11 (‘तपस्विनी’ महाकाव्यम्, एकादश-सर्गः/डॉ.हरेकृष्ण-मेहेरः)

'तपस्विनी' महाकाव्यम्, एकादश-सर्गः/डॉ.हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Canto-11)

TAPASVINI     
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 
*
Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = = = = = 
Tapasvini  [Canto-11]
= = = = = = = = = = = = = = = = = = = = =    

[Canto-11  has been taken from pages 217- 240  of my Sanskrit
‘Tapasvini’ Book. 

For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’

= = = = = = = = =  

तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = = = = = = = = = =
एकादशः सर्गः 
= = = = = = = = = = = = = = = = =

एकेद्यु-र्वासराधिपतिः
क्षौणि-प्रदक्षिण-विधौ
श्रम-क्लान्त्या क्षीणीकृतापघन-द्य्रुतिः
नीलोदकेषु पश्चिम-पयोनिधौ
गत्वा बभूव गभीरं निमग्नः
समाकाङ्क्षितावगाहनः ॥

अक्षमः परिहर्त्तुं स्वं भर्त्तारम्
न क्षणमपि स्थित्वा सत्वरम्
अतिशय-दैन्य-वशात्
दिवसस्तमन्वगात् ॥

दशां कीदृशीं याति पतिं विना पत्नी,
अविदित्वा ह्येतं विषयम्,
सरला बाला राजीविनी
नात्यजन् निजालयम् ॥

रङ्ग-वास-कोषं तस्याः पद्मिन्याः
निर्लुण्ठ्य प्रदोषस्तत्क्षणम्,
व्यरचयद् व्योम्नि कृते यामिन्याः
चरणतल-वस्त्रास्तरणम् ।
कोमल-कमलिन्या विलोक्यापमानं लज्जातः
शिरीष-द्रुमो म्रियमाणः सञ्जातः ॥

तिग्म-रश्मावस्तं प्रयाते
विहित-हुतवाह-समाराधनः
महेश्वरानुकम्पामस्मरत् स्वान्ते
महामना मुनीन्द्रस्तपोधनः ॥

स्वीयाश्रम-निलये
कुश-विष्टरोपविष्टो मुनिशेखरः
श्रीराम-सुशासन-विषये
मनसा तदासीद् भावना-तत्परः ॥

भावितस्तेन साकं योग्यता-प्रसङ्गः कुमारयोः,
परिचयो भविष्यति कीदृशं पित्रा पुत्रयोः ।
कार्मुकवेद-राजधर्म-शिक्षाद्वारे तौ
वर्त्तेते समयेऽस्मिन् समुपस्थितौ ॥

निवसेतां यदि तौ
कानने तापसैः सहितौ,
तर्हि बहुमूल्यवान् समयः
व्यर्थमेव यास्यति, नात्र संशयः ॥

राजात्मजौ यदि न व्रजेताम्
राजधर्मे प्रवीणताम्,
बन्ध्यद्रुम-तुल्यं तर्हि निष्फलम्
भविष्यति तयोर्गुण-सकलम् ॥

यदि वीरत्व-विभूषणम्
वीर-सन्तानाभ्यां न लभ्यते,
एतद् भविष्यति दुर्विषहं दूषणम्
तर्हि वीरवंशस्य कृते ॥

को वा वदिष्यति नूनम्,
समये समागते
कोशलस्य राजसिंहासनम्
राम-दायादालङ्कारो न कामयिष्यते ?

राजसम्मान-रक्षण-क्षमता
तदा यदि न भविष्यति,
नीति-विषये निश्चितमधमता
तर्हि स्फुटतां यास्यति ॥

विना तत्रादर्शं
कुशलत्वं गमिष्यतः कीदृशं
श्रीरामचन्द्र-सुतौ
वनेऽस्मिन् निवसन्तौ ?

रघुवंशस्य नरेश्वराः
राजन्ते विशेषतो दानवीराः ।
तमादर्शमन्वर्थम्
ऋषि-कुटीरः प्रदास्यति कथम् ?

श्रीराम-रूपस्य निश्चितौ
अविकल-प्रतिबिम्ब-सम्मितौ
शोभेते विधृतावयवौ
राजनन्दनौ कुश-लवौ ॥  

अभिज्ञास्यति स्वीयं सूनु-द्वयं
विलोकनादेव श्रीरघुनन्दनः ।
मनोगतं समस्त-संशयं
निराकरिष्यति रिपुसूदनः ॥ 

स्वीकरिष्यति सुतौ
श्रीरामस्तस्मै समर्पितौ ।
तदास्माकं न भविष्यति
निन्दाभाजनत्वं जगति ॥

परन्तु कान्तां पतिव्रता
इति निश्चितमेव जानता
केवल-कौलीन-भीतेन
निर्दय-हृदयेन तेन
दोहद-पूर्त्ति-व्याजाद् वनं सम्प्रेषिता
प्रियतमा दोहदिनी विदेह-दुहिता ॥

द्वादश-वत्सरानन्तरं
भविष्यति न सुकरं
राज्ञस्तस्य हृदयान्त-र्नूनम्
सन्तान-ममत्व-जननम् ॥   

प्रजाः प्रति समर्पितः
तनय-प्रणयो विद्यतेऽमुना ।
सम्मतिं तासामितः
निकामं स कामयिष्यतेऽधुना ॥

आस्था नास्ति हृदि
यस्य स्वीय-विश्वासं प्रति,
तं सहस्र-कृत्वः प्रत्याययेम यदि,
किं वा भविष्यति ?
विषयेऽस्मिन् वशिष्ठ-लक्ष्मणाभ्यां साकम्
अवश्यं परामर्शः करणीयोऽस्माकम् ॥

समयेऽस्मिन् राजदूतेन समायातेन
कर-पत्राञ्जलिना कृत-प्रणिपातेन
वाल्मीकि-हस्ते समर्पितम्
पत्रं नरपति-प्रेषितम् ॥   

पठित-पत्रेण मुनिवरेण समवगतम्,
अभीष्ट-सिद्धि-मार्गस्तु समाविष्कृतः ।
अश्वमेध-यागे योगदान-निमित्तम्
राज्ञा रामचन्द्रेणास्मि निमन्त्रितः ॥’ 

भावितमेवंविधं
तदा मुनिना तपोनिधिना,
भावनाम्बुधि-सविधं
कूलं प्रदर्शितमनुकूलेन विधिना ॥

अध्वर-दर्शनाय नेष्यामि कुश-लवौ
शिष्य-मिषेण मुनिसुत-वेशौ द्वौ ।
यागक्षेत्रे भ्रमन्तौ स्थाने स्थाने ततः
नव्यं काव्यं रामायणं गास्यतः ॥

प्रीति-सुधा-वर्षणं
विधाय सा राम-कथा
जनानामन्तःकरणं
नूनं हरिष्यति सर्वथा ॥

जनाः समवलोक्य तौ
श्रीरामचन्द्र-सम्मितौ
स्वान्ते निश्चितं विचारयिष्यन्ति
एतौ रामपुत्राविति ॥

स्वीय-प्रतिबिम्बरूपे विलोक्य रामः स्वयम्
प्रेमामृत-कूपे मज्जयिष्यति स्वहृदयम् ।
स्वीकर्त्तुं पुत्रद्वयमात्मनः
कुण्ठां व्यनक्ति चेद् रघुनन्दनः,
देवी कौशल्या तत्र स्थिता
किं न भविष्यति भूलुण्ठिता ?

दशवक्त्रेण बलवता
जानकी कदापि न स्पृष्टा ।
एतन्निशम्य रामायणे जनता
अवश्यं भविष्यति सर्वा संहृष्टा ॥

वह्नि-परीक्षायामुत्तीर्णाभवत्
सती वैदेह-सुता,
समाकर्ण्य वर्णनमेतत्
कस्य तनुर्भविष्यति न पुलकाप्लुता ?

काव्यं रामायणं करिष्यति
भारत्यालोक-विस्तारम्,
त्रिलोकी परित्यक्ष्यति
लोकापवादान्धकारम् ॥

इत्थं विचिन्त्य स्वान्ते मुनीन्द्र-महोदयः
परमोल्लासैरभवत् प्रफुल्ल-हृदयः ।
मधुर-वाक्यै-र्वार्त्ताहराय
स विश्रामादेशं प्रदाय
सत्कार-विधानार्थं तत्क्षणम्
न्ययोजयत् स्वीय-शिष्यगणम् ॥

सविधं गत्वा मुनिवरः प्रीत-चित्तम् 
न्यवेदयत् सीतायै हयमेध-वृत्तम् ।
 वत्से ! समानीय निमन्त्रणमयोध्यातः
श्रीरामचन्द्रस्य दूतोऽस्ति समायातः ।
साकं नीत्वा शिष्यनिवहम्
कल्ये गमिष्याम्यहम् ॥

शिष्यरूपेण गमिष्यतः
सार्धं तैः कुशीलवौ ।
बहुमुनिजनानां भविष्यति दर्शनं ततः,
शुभाशीर्वादांश्च प्राप्स्यतो द्वौ ॥

प्रस्तावं महर्षि-निवेदितं
सादरं समर्थयन्त्या सीतया,
तस्मै नितरां समर्पितं
तनय-द्वयस्य दायित्वं तया ॥

अभाषत ततो मुनिसत्तमः
सर्वमन्तेवासि-सार्थम्,
‘ रजन्यां प्रभातायां यास्यामः
हयमेध-यज्ञ-दर्शनार्थम् ।
कुश-लव-समेता अथ
समस्त-सतीर्थाः
प्रस्तुता भविष्यथ
पाथेय-वित्त-सनाथाः ॥

तात कुश ! लव ! धारयिष्यथः
वीणां स्वस्व-करे ।
शिक्षायाः साफल्यं विधास्यथः
सुसङ्गीत-गानैस्तस्मिन्नवसरे ॥

यः श्रीरामचन्द्रः स्वयं विद्यते
नायको रामायण-काव्यस्य,
प्रमोदं नितरां विधत्ते
युष्मदीय-हृदयस्य,
तेनैव समायोज्यते सम्प्रति
हयमेध-महायागोत्सवः ।
बहुदेशेभ्यः सम्मिलिष्यन्ति
महाभागा बहवः ॥

समागमिष्यति विभीषणः
लङ्काभुवो विभूषणम्,
विलङ्घित-तरङ्गिणी-रमणः
नीत्वा स्वेन सार्धमसुरगणम् ॥

उत्तमा उत्तमाः
अङ्गद-मुख्या ऋक्ष-प्लवङ्गमाः
समागमिष्यन्ति सुग्रीव-सङ्गताः
प्रहर्ष-लेपोज्ज्वालित-लपनाः समस्ताः ॥

यस्य कृते लोष्टखण्डवत् सानुमान्,
अमित-शक्तिमान् सः
महावीरो हनुमान्
स्थास्यति तत्र विहार-तत्परः
यथा केशरि-शेखरः,
सज्जीकृत्य मोदमान-मानसः
स्वहृदये मुक्ताहारम्
वैदेही-प्रदत्तमुपहारम् ॥

आगमिष्यन्ति तत्रानेकैः स्वच्छैः
विहङ्गम-लोमगुच्छैः
समलङ्कृत-कलेवराः
गुहकेन साकं बहवः शबराः ॥

दुष्प्रापं प्रेमाश्लेषं राजश्रियः
भ्रातृभक्ति-शक्त्या समुपेक्ष्य सहेलं यः
अग्रजस्य पादुकाद्वयम्
राजसिंहासनोपरि संस्थाप्य स्वयम्
अगमयच्चतुर्दश-वर्षाणि फलमूलाशनैः,
जीवनमुदनयज्जटाजूट-बन्धनैः,
निरीक्ष्यते यदूर्ध्व-वक्त्रेण
प्रालेयाद्रि-तुङ्ग-शिखरेण,
स्थास्यति स भरतः
तत्र श्रीरामानुगतः
आकाशे राकेश-सङ्काशः
कलित-कीर्त्ति-प्रकाशः ॥

द्रक्ष्यथस्तत्र लक्ष्मणं क्षणजन्मानम्,
क्षौणौ यत्सदृशो नास्ति कोऽपि द्वितीयः ।
स्वयं वज्र-हस्तः
यद्भयादासीत् सन्त्रस्तः, 
तस्य मेघनादस्य बलाभिमानम्
स्वीय-पद्भ्यां व्यदलत् सुकृती यः ॥

कालाग्नीभूय मेघनाद-निधनोदन्तः
दशास्य-हृदयं प्रविश्य प्रबलं प्रज्वलितः ।
आहुतीकृत्य तेन सार्धमङ्ग-बलम्
उग्रतरं चकार दैत्यैश्वरस्तमनलम् ॥

तत्र प्रदीप्त-शक्तिं कृत्वा स्वीयामुत्तप्ताम्
न्यक्षिपत् सुमित्रा-पुत्रं प्रति ताम् ।
शक्त्याघातज-क्षत-लक्षणं दधानः
वक्षसि पृष्ठदेशे चात्मनः
लक्ष्मणो यथार्थ-नामधेयः
राजते स सौमित्रेयः ॥

अक्षिभ्यां द्रक्ष्यथः
अक्षरेषु यद् वीक्षितम् ।
समेषां कथां गास्यथः
समेषां पुरतो निश्चितम् ॥

श्रोष्यन्ति सङ्गीतं तत्र तत्पराः
शत-शत-नरेश्वराः,
तपोज्योतिर्भरित-कलेवराः
शत-शत-यतिवराः ॥

तत्र केनचिद् यदि युष्मदीयः
जिज्ञास्यते परिचयः,
उत्तरयिष्यथः सप्रश्रयौ,
आवां भ्रातरौ वाल्मीकि-शिष्यौ ॥

आह्वास्यति यदा नृपेन्द्रः
युवां श्रीरामचन्द्रः,
तदा तदग्रतो रामायणं गास्यथः ।
सकौतूहलं पृच्छ्यते यदि परिचयः स्वः,
तस्योत्तरं दास्यथः,
‘ वाल्मीकि-शिष्यौ सहोदरौ स्वः

तेन धनं दास्यते चेत्, सविनयमुभौ
निवेदयिष्यथः परिहृत-लोभौ,
 राजन् ! धनं नीत्वा वः
तापस-कुटीरे किं करिष्यावः’ ?”

यदा श्रुता सीतया मुनिवदनात्
अश्वमेध-याग-वार्त्ता,
हृदये तस्या अकस्मात्
घोरा व्यथा सञ्जाता ॥

अचिन्तयत् सती,
‘ रघुवंशावतंसेन नूनं स्थापिता
स्वोत्सङ्गे समानीय द्वितीया वनिता ।
धन्या सा भाग्यवती,
अजायत तस्यास्तपस्तरौ फल-रूपः
सगर-कुल-सागर-कलाकरो भूपः ॥

कुत्र किंप्रकारेण तया
समनुष्ठिता कठोरा तपश्चर्या ?
तां तपस्यां प्रति निश्चितम्
प्रबलं बलते मम चित्तम् ॥

को वा वदिष्यति तस्याः
नियमं गहनं तपस्यायाः ?
नूनं ततोऽप्युत्तमाम्
साधयिष्यामि तपस्यां गुरुतमाम् ॥

भवेत् केन वा ज्ञातम्
तस्याः पूर्व-तपोविवरण-जातम् ?
मन्ये, गोचरं भवेन् महर्षिभिः
वशिष्ठादिभिस्तत्त्वदर्शिभिः ।
अन्यथा सा वनिता
कथं महिषी मनोनीता ?
स्वामिना तेषां सम्मत्या 
सम्पन्नो भवेत् परिणयस्तया ॥

समानेष्यामि केनाप्युपायेन निश्चितम्
गोपनीयं मन्त्रं तम्’,
इति चेतसा विचिन्त्य सती
विनय-पत्रं लिखितुमारब्धवती ॥

पश्यन्ति विद्वांसो यस्मिन्
शरण-वत्सल-केतनं
वैरि-वारणाङ्कुशम्
पुन-र्दुःख-शैल-कुलिशम्,
राजराजेश्वरस्य तस्मिन्
चरणारविन्द-युग्मे वन्दनं
कुरुते विनम्र-वदना 
दूरादियं प्रार्थिनी दीना ॥

भेत्तुं मध्वाशा-ध्वान्तं तत्परा
कान्तारस्था निवेदयतीयं कातरा ।
महाराज ! स्वभावतः
महाध्वरानुष्ठान-दीक्षितस्य भवतः
वामोत्सङ्गे भवेद् दर्शनीया
ललना नूतना प्रिया ॥

मुग्ध-योषित् सम्प्रति
मुग्धा भविष्यति
इति भवेद् भवत्सद्गुण-समस्तम्
शतगुण-समेधितम् ॥

महाध्वरे वाजिमेधे समायोजिते
भवता प्रदास्यन्ते
अपरिमितानि रत्नानि
धनानि च क्षौम-वसनानि ॥

सफल-मनोरथा भविष्यन्ति तत्रार्थिजनाः
यज्ञावसरे कृत-याचनाः ।
चेतसि मे सम्प्रति
याचनैका समुदितास्ति ॥

पूरयितुं क्षुद्रां भिक्षामिमां ततः
स्वामिन् ! कार्पण्यं मा भवेद् भवतः ।
प्रकृत्या स्वयं भवान्
दया-रत्नमय-दानोदन्वान् ॥

काऽहं वर्त्ते,
एतज्ज्ञातुं नावश्यकता,
भवान् सदैव राजते
तपस्विनामशान्ति-हर्त्ता ।
तपस्वि-जनेभ्यो न ते
अदेयं किञ्चिद् विद्यते ।
अस्मि तपस्विनी, अतस्त्वया
नाहं हेया विचार्या ॥

अद्य या वामाङ्क-भाजनं ते
जगज्जनैः सभक्तिकं विलोक्यते,
का नाम घोरा तपस्या
पूर्वं समाचरिता तया ?
कियत्कालं यावत्
कुत्र सा कं मन्त्रमजपत् ?

हे प्रभो ! निवेदयिष्यते कृपया
मह्यमेतन्मात्रं त्वया ।
नास्ति प्रयोजनमन्येन
केनापि मम धनेन ॥

हयमेध-कोटिषु प्रदीयते
यत्परिमाणं वित्तम्,
ततोऽप्यधिकं ज्ञास्यते
मया तन्निश्चितम् ॥

विषये पुनरेकस्मिन्
अस्ति मे प्रार्थना, स्वामिन् !
विद्येते दुःखिन्या मे तनयौ
नितरां बोधशून्यौ ।
जनकोत्सङ्गारोहण-भाग्यं तयोर्नास्तीतः
जन्मतो जनकानुरागं न जानीतः ॥

जानीतस्तौ क्रन्दयितुं जननी-जीवनम्
परिवेषयन्तौ रामायण-गायनम्
स्वीय-सुमधुर-स्वरेण
वल्लकी-तन्त्री-सहकारेण ॥

को वा न क्रन्दिष्यति
धृत्वा मानव-हृदयं जगति ?
पादप-वल्लरी-समुदायाः
येन भवन्ति व्याकुलित-कायाः ॥

स्वयं विमोहितौ सुचरितैर्भवतः
सह महर्षिणा बालकौ गच्छतः ।
भवच्चरणारविन्द-दर्शन-लालसम्
बलादाकृष्य तौ नाययति मानसम् ॥

श्रावयिष्यतस्तौ समस्ताम्
भवदीयां दुःख-कथां विगताम्,
यां निशम्य दुःखिन्या अस्या हृदयम्
विभिद्यते सातिशयम् ॥

अश्रवणे तां प्रति
चेतो मे निरतं धावति ।
भवति न कदापि शक्यम्
दमयितुं तदौत्सुक्यम्  ॥

तां कथामाश्रित्य श्रुतिभ्यां तव,
हे सुधीर-पुङ्गव !
स्मृति-र्यदि सीतायाः
समानेष्यते दीनचित्तायाः,
तर्हि प्रणयस्तस्या विदेह-नन्दिन्याः
स्वप्न इति विचार्यो भवता,
नवीनायाः प्रणयिन्याः
प्र्रफुल्लास्यं पश्यता ॥

एवंप्रकारेण जनक-तनया
पत्रलेखन-मग्नासीद् विह्वल-हृदया ।
तत्र लोचनोदकैर्धौतम्
पत्रं तदीयं संवृत्तम् ।
किमधिकं वा लेखिष्यामीति पुनः
निषेदुषी चिन्तयति स्म मनस्यात्मनः ॥

तस्मिन् समये समागतौ
कुश-लवौ सहर्षं हसन्तौ ।
न्यवेदयतां ततः,
अयि मातः !
धन्य-धन्यः स नरेश्वरः
रघुवंश-शेखरः ।
धन्या सौभाग्यवती
तस्य प्रणयिनी सती ॥

महीशः कौशल्या-सुतः
समायोजयति हयमेध-सत्रम् ।
समायातोऽस्ति तस्य दूतः
समानीय निमन्त्रण-पत्रम् ॥

पृष्ट्वा दूतमावाभ्यां विदितमेवम्,
श्रीराम-हेतोर्धन्यरद्य विश्वमिदं सर्वम् ।
रघुकुलेन्दुना लोकनिन्दा निरस्ता
प्र्राण-प्रणयिनीं वैदेहीं विसृजता ॥

अश्वमेध-यज्ञानुष्ठाने
रामेण सहधर्मिणी-स्थाने
पार्श्वे संस्थापिताऽस्ति कानकी
प्रियतमा जानकी ॥

अम्ब !  कापि योषिता
तस्य कृते किं दुर्लभासीत् ?
जानकीजानिना नाभिलषिता
जाया द्वितीया जातुचित् ॥

मातः ! क्व गता सा जनक-दुहिता ?
न भवेद् वा जीविता ।
रामायणे खलु न ज्ञातः
आवाभ्यां स वृत्तान्तः ॥
जननि ! गमिष्यावः
श्रीराम-पद्मपादौ द्रक्ष्यावः ।
नेतुमावां स्वेन सार्धं सम्प्रति
मुनिपुङ्गवो निगदति ॥

पुत्रयोर्वाणी-सुधा-सिन्धु-कल्लोलैः
सत्याः सीताया मज्जितमभूज्जीवितम् ।
आसीत् तस्या हृदयम्
यथा क्षेत्रं तप्त-सिकतामयम् ।
रामप्रेम-जीमूत-सलिलैः
तदभवत् सम्प्लावितम् ॥

अभाषत सा स्वमनसा ततः,
हा ! चिर-पातकिन्यहं यथार्थतः ।
लिखिता मया वाणी
प्रभु-हृदय-तापकारिणी ।
अस्मि नूनमबला
नितान्त-दुर्बलान्तःकरणा ।
परन्तु राजतेऽनन्ता ह्यतला
मम प्रभोः सुकरुणा ॥

प्रभो ! क्षम्यतां सानुग्रहं
ममापराधो भवता क्षमाब्धिना ।
हे नाथ ! तव हृदयस्याहं
गरलीकृतास्मि विधिना ॥

पत्रं निगूह्य तत्
सती सानन्दमवदत्,
 वत्सौ ! क्रियतां प्रस्थानमह्नाय
महाराज-पद-राजीव-दर्शनाय ।
तातेन महर्षिणा निगदितम्,
तत्र युवां दर्शयिष्यथः सुललितम्
सङ्गीतं मनोरमम्,
प्रकृत्या नूनं तत् सुधोपमम् ॥

यज्ञ-क्षेत्रे पुण्यमये
पीयूष-प्रवाह-रूपं सत्
जनानां हृदये हृदये
ओतप्रोतं भविष्यति तत् ॥

रघुवरेणाहूतौ गमिष्यथस्तदन्तिकम्,
तत्पदद्वयं प्रणंस्यथः सभक्तिकम् ।
विलोकयिष्यथस्तत्र तस्यानुज-त्रयम्,
चरणेषु तेषां प्रणंस्यथः सप्रश्रयम् ॥

तत्र राजमातृणां पूज्यानां
पावन-पाद-सरोजानां
रजोभिः समलङ्कृत्य स्वमस्तकम्
जीवनं करिष्यथः सार्थकम् ॥

सविधे तासां दर्शनं 
भविष्यति च तिसृणाम्
जानक्याः स्वसॄणाम् ।
तासां पाद-वन्दनं
करिष्यथः सविनयम्
ध्यायन्तौ जानक्याः प्रत्ययम् ॥

जनः कोऽपि तत्रस्थः
यदि पृच्छति, ‘ कस्य नन्दनौ युवाम् ?
प्रत्युत्तरं दास्यथः,
‘ पुत्रौ तपस्विन्या आवाम् ॥

जननी-भाषितैः समुल्लसितौ
सञ्जातौ नन्दनौ मनसि तौ ।
नूतन-कौतूहलैस्तत्क्षणम्
अवाप परिपूर्णतां तयोरन्तःकरणम् ॥

नाजायत पुनरादरो नन्दनयोः
विषये तदाशन-शयनयोः ।
हृदये नृत्यरतमभवत्
श्रीराम-प्रशंसा-वचनं महत् ।
परस्परं राम-कथामालपन्तौ
सहौदरौ निद्रोत्सङ्गं गतौ ॥

जीवनं जानक्याः सत्याः
पतिभक्ति-स्रोतस्वत्याः
स्रोतसि नितरां प्लवते,
अस्थिरं भ्रमति स्म तदावर्त्ते ॥

आनेतुं स्वीयोत्सङ्गे रामजायां
निद्राऽभवत् स्वयमक्षमा ।
ततः समुपेत्य योगमायां
व्यज्ञापयत् ससम्भ्रमा ॥

अयि देवि !”, न्यगादि निद्रया,
जानक्याः सत्या जीवितेन
अद्य विद्यते मानवी-हृदयस्य मर्या 
समतिक्रान्ता निश्चितेन ॥

द्वादश-वर्षाणि यावत् सती
नयनोदकैः शय्यां प्लावयन्ती
सकृदपि समायाति स्म
शनैः शनैरुत्सङ्गे मम ॥

परमद्य मुहुर्मुहु-र्मया
सुमधुरं समाकारिताऽपि रामप्रिया
अनिशम्य वाक्यं मदीयम्
प्रयाति स्वर्ग-राज्यम् ॥

नेत्रप्रतिमा-रूपौ तस्याः कुमारौ
भविष्यतः सत्वरमेव लोचनागोचरौ ।
भविष्यन्ति ध्वान्त-ग्रस्ताः
कृते तस्या दश-दिशाः समस्ताः ।
तस्या अस्मिञ्जीविते
सुखादित्योदयो न विद्यते ॥

पतिप्राणतां समाश्रितायाः
किं वा सुफलं सञ्जातं सीतायाः ?
पश्यतु ननु दुःखिनी
श्रीराम-प्रणयिनी ।
तत् सत्यास्तस्या अवश्यम्
समुज्ज्वलं विधेहि भविष्यम् ॥

प्राणालवालेषु स्वकम्
प्रदाय नयनोदकम्
अबलया व्यरचि तया
पतिभक्त्युद्यानं सीतया ॥

तत्र न प्रसूनं प्रस्फुटितम्,
न किमपि फलं प्रकटितम् ।
कथय, खलु तज्जीवनं सम्प्रति
दारुणं विकलं कियद् भविष्यति ?

“ चल सखि !”, आदिशद् योगमाया,
शीता यामिनी प्रयात्यवसित-प्राया ।
सत्वरं गत्वा सम्प्रति सत्याः सकाशम्
करिष्यावस्तस्या भविष्य-रहस्य-प्रकाशम् ॥” 

निद्रया समं तत्परं
समायाता त्वरया
सीता-पर्णशालाभ्यन्तरं 
प्राविशद् योगमाया ।
दीप्यमानमजायत
विपिनं दिव्य-ज्योतिर्भिः,
भूतलो व्यशोभत
भरित-दिव्य-सुरभिः ॥

समजनि जानकी-जीवितम्
सौरभ-प्रसरात् पुलक-सुकलितम् ।
अभवज्ज्योतिःप्रभावात्
निमीलितं नयन-युगलं तस्मात् ॥

ततोऽदृश्यत, विराजते 
ज्योतिर्मयी जानकी सती,
तस्या ज्योतिर्भि-र्देदीप्यते
समस्ता वसुमती ।
सतीं गृहीत्वा ज्योतिर्मयो रघुनन्दनः
रत्नसिंहासन-निषेदिवान् प्रसन्न-वदनः ॥

श्रीरामोत्सङ्गे कुशो निषण्णः,
सीताया उत्सङ्गे लवः ।
पार्श्वे राजते छत्र-हस्तो लक्ष्मणः
ऊर्मिलायाः प्राणधवः ॥

चालयन् चामरं
ज्योत्स्ना-शुभ्रं मनोहरं
तत्र वर्त्तते भरतः
स्वधर्म-पालन-रतः ।
व्यजनं बर्हिण-बर्ह-निर्मितं प्रसन्नः
हस्ते धृत्वा चालयति तत्र शत्रुघ्नः ॥

समेषां जीवन-ज्योतिः शश्वत्
भविष्य-मुखे निश्चितम्
सरित्-स्रोतःस्वरूपं दधत्
प्रवहति तीव्र-वेग-सहितम् ॥

महातीर्थं मत्वा धारायां
तस्यां पवित्रायां
वर्त्तन्तेऽवगाहन-मग्नाः
कोटिकोटि-नर-नारीजनाः ॥

सुदूरं काल-समुद्रं प्रति
तीव्र-रयं प्रधावति
प्रतिमुहूर्त्तं प्रसारिताकारा
सा तोय-धारा ॥

ऊर्ध्वतो विद्यन्ते विद्याधराः सदैवताः
सुमञ्जुल-सुमपुञ्ज-वर्षण-रताः ।
दैत्यानां दिवौकसां
नागानां नराणां चाप्सरसां
जय सीतारामेति नादै-र्वितता
सञ्जाता वसुन्धरा समस्ता ॥

प्रतिगृहं प्रतिप्राणं प्रतिनगरम्,
तरङ्गिणी-तरणीषु,
सरित्पति-पोत-श्रेणीषु
पुनः प्रतिकन्दरम्
दिवसे दोषायाम्,
प्रदोषे चोषायाम्
सुखेषु दुःखेषु जनानाम्
हृदयेषु धनिनां च निर्धनानाम्
समुच्चारः परिव्याप्तिमेति
जय सीतारामेति ।
तत् पश्यन्ती मुग्धा संवृत्ता
सीता सतीवंशावतंस-भूता ॥
= = = = = = =

(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे एकादशः सर्गः)
= = = = = =

 तपस्विनी-महाकाव्यस्य
संस्कृतानुवादः
सम्पूर्णः

॥ श्रीः ॥
= = = = = 

[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = =

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :

 * * * *