Saturday, July 31, 2010

Svarūpam (स्वरूपम्) Sanskrit Poem / HKMeher

Svarūpam (Sanskrit Poem)   
By : Dr. Harekrishna Meher
(Extracted from Sanskrit Kāvya ‘Mauna-Vyañjanā’)
= = = = = = = = = =

स्वरूपम् (संस्कृत-कविता)  
रचयिता : डॉ. हरेकृष्ण-मेहेरः
('मौनव्यञ्जना'- काव्यतः)
= = = = = = = =

पुरतो लक्ष्यते यत्
सर्वं तत् सत्यं न भवति ।
भवति श्रवण-गोचरं यत्
तत् सर्वं सत्यतां नावति ॥


नेत्राभ्यां यद् दृश्यते
तत् सर्वं न भवति सत्यम्,
यथा मरुभूम्यां तोयपूर्णा मृगतृष्णा,
यथा कूटसाक्षिणो मिथ्यायां सत्यभ्रमः,
यथा पाण्डवानामिन्द्रप्रस्थ-भवने
जले स्थल-भ्रान्तिः
धृतराष्ट्र-तनय-नयने ॥

बाह्य-रूपं यदनुभूयते,
आभ्यन्तर-रूपं तन्न भवति सर्वथा ।
अभिधा-सम्पन्नः शब्दः
भिन्नार्थं प्रकाशयति
व्यञ्जना-व्यापारेण यथा ॥

हृदये भाव-सकलं
जागर्ति यत् किञ्चित्,
सर्वं वै न भवति कथ्यम्,
न वै भवति तथ्यम् ॥

बाह्य-वचनं चेत्

सर्वत्र कृत्रिम-रमणीयतरम्,
तद् भवितुं शक्यते
आभ्यन्तर-रूपेण हानिकरम् ॥

बाह्य-रूपे कृत्रिम-विश्‍वासः सञ्जातः,
आभ्यन्तरे परन्तु विश्‍वास-घातः ।

विश्रुतो वैश्रवणो रावणः
भिक्षार्थी विदेहजापहरण-प्रवणः ॥

अमधुरं भवतु नाम
बाह्यं मुख-मण्डलम्,
परन्तु हृदयं भवेत्
विश्‍वास-पूतं सुनिर्मलम् ।
हृदयं सदैव निरीक्षणीयम्,
आत्मीयत्वं परीक्षणीयम् ॥

बाह्य-रूपरेखा न भवति सदा
आभ्यन्तर-भावनाया अभिव्यक्तिः ।
बाह्य-रूपं ह्यापात-रसनीयम्
विश्‍वे न हि विश्‍वसनीयम् ।
यद् विष-कुम्भं पयोमुखं जगति
सर्वं वर्जनीयमेव भवति ॥
= = = = =


No comments: