Wednesday, August 19, 2009

Sanskrit Song 'Bhāratīyā Vayam' (भारतीया वयम्): Dr.Harekrishna Meher

Bhāratīyā Vayam (Sanskrit Song) 
*
Lyrics and Tuning By : Dr. Harekrishna Meher
= = = = = = = = = = = = = =   
भारतीया वयम्     
गीति-रचना तथा स्वर-रचना :
डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = =  

भारतीया वयम्, भारतीया वयम् ; 
भारतं नो मातृ-भूमी माननीया स्वयम् । 
भारतीया वयम् ॥ (ध्रुवम्) 
* 
जयतु जम्बूद्वीप-तिलकं भास्वरम्, 
जयतु हिन्दुस्थानमतुलं सुन्दरम् । 
कर्म-भूमी रत्न-कम्रा सत्‍फला, 
स्वर्ग-सुगुणा कला-निपुणा पुष्कला । 
वैरि-दलने वीर-सेना विजयते निर्भयम् । 
भारतीया वयम् ॥ (१) 
* 
अहिंसाया दिव्य-वाणी शंसिता, 
भ्रातृ-मैत्री हृदय-कमलोद्‌भासिता । 
यत्र वार्त्ता मानविकता कीर्त्तिदा, 
ऐक्य-मन्त्रं वहति महतां संविदा । 
त्रिरङ्गा नो मङ्गलमयी चिरं तनुते जयम् । 
भारतीया वयम् ॥ (२) 
* 
आत्मिकं नो बन्धनं सद्‌भावनम्, 
शान्ति-मधुरं भवतु जगतां पावनम् । 
मातृ-चरणे भक्ति-पूताराधना, 
अभीष्टा नो जयतु राष्ट्रिय-भावना । 
देश-रक्षा-विधौ दक्षा अद्वितीया वयम् । 
भारतीया वयम् ॥ (३) 
= = = = = = = = = = = =
 

(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य मध्य-लयेन परिवेषणीया ।) 
= = = = = = =  
(Published in ‘Sangeet’, Music Magazine, April 2004 Issue, page-56, 
Sangeet Karyalaya, Hathras, Uttar Pradesh, India.)
* * * * * 

Related Link :
‘Pushpanjali-Vichitra’ (Giti-Kavyam):
= = = = =
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:


= = = = = = = = 

No comments: