Friday, January 30, 2009

Sanskrit Song 'Vāṇī-Gītikā' (वाणी-गीतिका): Dr.Harekrishna Meher

Vāṇī-Gītikā (Song for the Goddess of Speech) 
Lyrics and Tuning by : Dr. Harekrishna Meher  
*
(Composed in my self-innovated original new lyrical
maatraa-metre, which has been named
 
'mayī')  
(Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih’)
= = = = = = = = = = = = = = =   

 वाणी-गीतिका     
रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेरः    
( ‘मातृगीतिकाञ्जलिः' – काव्यतः)   
= = = = = = = = = = = = =  = = 
कवि-जननी त्वं
शतदल-निवासिनी,
भव-शमनी त्वं
सुविमल-सुवासिनी ।
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (ध्रुवम्)
*
हृदि मम शारदे ! रचय निजालयम्,
सुमति-विशारदे ! वितर शुभाशयम् ।
अयि मातः सारदे !
प्रणतिरियं श्रीपदे ।
अघ-दहनी त्वं
जड़-बल-निरासिनी,
प्रोज्जल-विभासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (१)
*
तव कृपया सदा नश्यतु तामसम्,
ज्योतिःसम्पदा दीव्यतु मानसम् ।
भगवति हे सारदे !
प्रणतिरियं श्रीपदे ।
नव-कवनी त्वं
बुध-गल-विलासिनी,
मङ्गल-विकासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (२)
*
त्वमसि सरस्वती कमल-समर्चना,
सुललित-भारती सुमधुर-मूर्च्छना ।
धृत-वीणॆ सारदे !
प्रणतिरियं श्रीपदे ।
सन्मिलनी त्वं
कश्मल-परासिनी,
कोमल-सुहासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (३)
*
न भवतु मे मति- र्विपदि समाकुला,
प्रसरतु मे गति- र्वाङ्‍मय-मञ्जुला ।
जय जय हे सारदे !
प्रणतिरियं श्रीपदे ।
काव्य-वनी त्वं
पेशल-समासिनी,
प्राञ्जल-सुशासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (४)
*
प्रणवमयाक्षरे ! नन्दय सादरम्,
स्फटिक-स्रग्‍धरे ! विन्दय सुन्दरम् ।
दह दुरितं सारदे !
प्रणतिरियं श्रीपदे ।
शं-वहनी त्वं
परिमल-निकासिनी,
पुष्कल-कला सिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (५)  
= = = = = = = = =    
(इयं गीतिका प्रायः कहरवा-ताल-मध्य-लयेन परिवेषणीया ।) 
[मालकोश-रागेण स्वर-संयोजिता ।]        
= = = = = = = = = = = = = = =

English Translation by the Author.
*

Vāṇī-Gītikā   
(Song for the Goddess of Speech : Kavi-jananī Tvam)
Lyrics and Tuning by : Dr. Harekrishna Meher
= = = = = = = = = = = = = = =   

(Sarasvatī, the Goddess of Speech and Learning is prayed in this lyric. 
She is also known as the Goddess of Music. She dispels the murk of  
ignorance and spreads the light of wisdom.)
= = = = = = = = = = = = = = =

The Mother of poets thou art.
Thy abode is in lotus.
Thou art pacifier of mundane sorrows.
Thy figure is of pure fair fragrance. (0)
*
O Goddess Sāradā !
Deign to have thy dwelling in my heart.
O Great among the wise !
Please bestow auspicious thoughts on me.
O Mother Sāradā !
This salutation of mine is at thy sacred feet.
Thou art the extinguisher of sins
and the eradicator of inertia.
Thou art splendidly illustrious. (1)
*
May all the darkness of ignorance
vanish for ever by thy compassion.
With the wealth of thy effulgence,
may my mind illume.
O Goddess Sāradā !
My prostration is at thy auspicious feet.
New poesie thou art.
In the mouth of the learned, you shiningly play.
You enhance all kinds of well-being to the people. (2)
*
You’re Goddess Sarasvatī
worshipped with sacred lotuses.
You form very graceful and nice speech.
The sweet mellifluous tune you are.
O Goddess, the bearer of lute !
O Sāradā ! This prostration of mine is at thy holy feet.
You form the assembly of the noble and wise ones.
You’re dispeller of delusion.
Yours is very delicate sweet smile. (3)
*
I pray. Let my intellect never get nonplussed
at the time of adversity.
Let my step splendid with fullness
of speech proceed forward.
O Goddess Sāradā !
Victory to Thee.
This salutation of mine is at thy noble feet.
Paradise of poetical compositions thou art.
With comely word-compounds, you’re embellished.
You’re the preacher of succinct admonitions. (4)
*
O Ye, Goddess in the form of holy letter ‘OM’ !
Kindly gladden me with endearments.
O Ye, adorned with crystal garlands !
Kindly help me attain the beauteous.
O Goddess Sāradā !
Deign to destroy all my vices.
This prostration of mine is at thy sacred feet.
Thou art the pioneer of prosperity and goodness.
Vivid-visioned, thou art the fair-limbed
Goddess with opulent arts.
Thou art the Mother of poets.

* * * * * 

(Thus ends Vāņī-Gītikā)
= = = = = = = = = =
(Taken from the Book ‘Mātŗigītikāñjalih’ Kāvya of Dr. Harekrishna Meher,
Published by Kalahandi Lekhak Kala Parishad, Bhawanipatna, Orissa, in 1997.)


Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = = 

Monday, January 26, 2009

Sanskrit Poem ‘Andhānusandhānam’ (The Blind Quest): Dr.Harekrishna Meher

Andhānusandhānam’
Sanskrit Poem by : Dr. Harekrishna Meher

= = = = = = = = = = = = = = = = = = =   
 अन्धानुसन्धानम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः
( ‘जीवनालेख्यम्’-काव्यतः)

= = = = = = = = = = = = = = = = = = =  


निश्शङ्कं भ्रमन्ति
अद्यापि राजमार्गे कंसाः
नित्यमत्याचार-प्रवणा लब्ध-प्रशंसाः,
भाययन्तः सर्वाणि जगन्ति
कृत-मङ्गलाध्वर-ध्वंसाः
बहिष्कृत-लोक-शुभाशंसाः ॥

अद्यापि राजन्ते जरासन्धाः
दुराचार-परिव्याप्त-गन्धाः
परिचाल्यन्ते मदान्धा निकृष्ट-सम्बन्धाः
प्रसभं भृत-कटिबन्धाः ॥

अद्यापि विद्यन्ते मन्थराः
दाशरथये दर्शयितुं काननस्य पन्थानम्,
कैकेय्यो विवेकिन्यस्तत्पराः
हन्त ! अर्हन्ति बहुमान-स्थानम् ॥

अद्यापि भ्रमन्ति रावणाः
बहु-वैदेही-हरण-प्रवणाः,
कुर्वन्ति द्रुतमुपद्रवं जयद्रथाः
पर-दारापहरणार्थं समारूढ़-रथाः ॥

बाष्प-पूर्णाश्‍चतुष्पद्यः
अद्यापि खिद्यन्ते समुपद्रुता द्रौपद्यः
शरव्या दुःशासनानाम्
केशकर्षण-धर्षण-लालसानाम् ।
भीष्मास्तु तूष्णीकृत-वर्ष्माणो ह्यनुष्णाः
अपेक्षन्ते कदा रक्षिष्यन्ति श्रीकृष्णाः ॥

स्वार्थ-पूर्त्तिपरा धूर्त्ता दुर्जनाः
वित्त-क्षमताभि-र्भवन्त्यार्या दुर्योधनाः,
धृतराष्ट्राणां तु का कथा ?
शकुनीनां नाभावो भवनेषु सर्वथा ॥

तदासीदुदाहरण-जातं सम्प्राप्तम्
केवलं नारी-निर्यातना-पर्याप्तम्,
परन्तु सम्प्रति जायन्ते जघन्याः
कामुकत्व-घटना असामान्याः
हत्याकाण्डादिकं यौतुक-प्रथाभ्यन्तरम्
राक्षसाचरणस्य विशिष्ट-स्वाक्षरम् ॥

निष्कारण-रक्त-पातनम्,
निरीह-जनता-निपातनम्,
चलति हननं मानवताया अप्रतिहतम्
बाल-वृद्ध-वनिता-निर्विशेषेण निरतम् ।
लक्ष्य-भ्रष्टानां दुष्टानाम्
दुराचरण-सृष्टानाम्,
विश्व-द्वेषिणाममानुषाणामुच्छृङ्‍खलैः
अस्त्र-बलै-र्निरर्गलैः खलैः ॥

किमेतद् मानवत्वम् ?
किमिदं सामाजिक-महत्त्वम् ?
मर्त्त्यं किमिदं सुधा-सारम्
मानव-जीवन-यातनागारम् ?
यत्र वन्य-जन्तवोऽप्यसुरक्षिता विपर्यस्ताः
गगनचारिणोऽपि भीत-त्रस्ताः ॥
* * * * *  

(From Sanskrit Kāvya ‘Jīvanālekhyam’, 
this poem has been published in “Sanskrita Mañjarī”, April-June 2007 Issue,
of Delhi Sanskrit Akademi, Delhi) 

* * * 

Sanskrit Poem ‘Satyam’ (The Truth)/ Harekrishna Meher

‘Satyam’ 
Sanskrit Poem by : Dr. Harekrishna Meher 
*
सत्यम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः  

= = = = = = = = = = = = = = = = = = = = 
सत्यं सत्यमिति वक्तुं
नैके कुण्ठिताः,
सत्यं सत्यमिति स्वीकर्त्तुं
नैके कुण्ठिताः,
सत्यं सत्यमिति प्रतिपादयितुं
नैके कुण्ठिता लुण्ठिताः,
सत्यं मिथ्येति कथयितुं
नैके समुत्कण्ठिताः ॥
*
प्रवञ्चनायाः घनावरण-मध्ये
सत्यं ह्यसत्यमिति दर्शयितुं
प्रयत्न-परा अनेके सांसारिकाः,
स्वकीय-स्वार्थ-सिद्धि-निमित्तम्
अथवा स्वात्म-रक्षायै भीत-चित्तम्
अथवा अन्य-हेतु-वशतो हृत-विवेकाः ।
परन्तु को वा समर्थः
सत्यस्य स्वरूपं विज्ञातुं वस्तुतः ॥
*
क्षुरस्य धारा तीक्ष्णा
इति जानन्तोऽपि केचित्
दृढ़ात्म-प्रत्यय-सहकारेण
समीहन्ते प्रयतन्ते सत्यं सत्यमिति
वक्तुं स्वीकर्त्तुं प्रतिपादयितुं च
अत्रस्ताः सर्वत्र प्रदर्शयितुं
देश-काल-पात्र-निर्विशेषेण,
ततः पराजय-व्यथया मिथ्या रोदिति ॥
*
सत्यस्य विजयो भवतीति सुनिश्‍चयः ।
विजय-शब्दादेव सूच्यते
सङ्‍घर्षः संग्रामः सक्रियता द्वन्द्वं वा ।
ससङ्‍घर्षेण सक्रियेणासत्येन
असङ्‍घर्ष-निष्क्रिय-सत्योपरि
विजयो भवतु नाम सामयिकः ।
सत्यासत्ययोः सङ्‍घर्षे सञ्जाते
सङ्‍घर्ष-रतस्य सत्यस्य मिथ्योपरि
विजयो भवति शाश्‍वतिकः ॥
*
असत्यस्य विजयो मायाच्छन्नः,
सत्यमेव धर्मश्‍चिरन्तनः ।
सर्वोपरि परिणामे
सत्यमेव विजयते द्वन्द्वग्रामे संग्रामे,
जयति ज्योति-र्यथा
निरस्त-तमस्तोमम्,
अधःकृतोऽपि कृशानुरूर्ध्वगामी सर्वथा
न कदापि भजते विलोमम् ॥
* *


(This Poem taken from Sanskrit Kāvya ‘Mauna-Vyañjanā’
has been published in “Lokabhāshā-Sushrīh”, August-September 2005 Issue,
of Lokabhāshā Prachār Samiti, Saradhābāli, Puri.)

* * *

Sunday, January 25, 2009

Sanskrit Song (Ghazal) 'Priya-Milanam' (प्रिय-मिलनम् :संस्कृत-गज़ल):Dr.Harekrishna Meher

प्रिय-मिलनम्
( संस्कृत-गज़ल-गीतिः )
रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेरः 
(पुष्पाञ्जलि-विचित्रा' -काव्यतः) 
= = = = = = = = = = = = = = = = 


प्रिय-मिलनं यदा भवेन् नूनं मे ।
स्वर्भुवनं प्रतीयते न्यूनं मे ॥ [०]
*
प्रविचलिते मनोद्रुमे सोत्कण्ठम्,
धैर्य-दलं सुकोमलं लूनं मे ॥ [१]
*
अनुपगते समाकुलं यामिन्याम्,
दृग्-युगलं प्रतीक्षया शूनं मे ॥ [२]
*
शशि-विरहे कुमुद्वती नो फुल्ला,
स्वं हृदयं प्रियं विना दूनं मे ॥ [३]
*
पिक-विरुते सुमञ्जुले सञ्जातम्,
ह्री-सहितं विमोहितं मौनं मे ॥ [४]
*
पुलकभरं समर्पितं माङ्गल्यम्,
प्रेममयं शुचि-स्मितं सूनं मे ॥ [५]

* * * 
= = = = = = = = 
[इयं गीतिः प्रायः कहरवा-ताल - मध्यलयेन परिवेषणीया ।]
= = = = = = = = 

(This Song with own Musical Notations and Hindi Translation  
has been published in “Sangeet” Music Magazine, September 2004,
Sangeet Karyalaya, Hathras, Uttar Pradesh, India)
* * * 


Hindi Translation By the Author Dr. Harekrishna Meher
= = = = = = = = = = = 
प्रिय-मिलन
रचयिता : डॉ. हरेकृष्ण मेहेर

= = = = = = = = = = = 
(इस गीत में कोई नायिका अपने प्रियतम के साथ घटित मिलन एवं विरह की 
कुछ अनुभूति-रूप यादें व्यक्त करती है अपनी सखी के सामने ।) 
= = = = = = = = = = = 

प्रियतम के साथ 
जब निश्‍चित रूप से 
होता है मेरा मिलन,
तब मेरे लिये 
मुझे कम लगता है 
सुखमय स्वर्ग-भुवन ॥
*
मन का वृक्ष जब 
उत्कण्ठा से विचलित था,
मेरा कोमल चञ्चल 
धीरज-पल्लव टूट गया सर्वथा ॥
*
प्रियतम जब पास नहीं होते,
मेरी आँखें रातभर 
प्रतीक्षा से बड़ी हो जाती थीं 
अत्यन्त व्याकुल होकर ॥
*
कुमुदिनी प्रफुल्ल नहीं होती
चन्द्रमा के विरह से, 
हृदय मेरा व्यथित हो उठता 
प्रियतम के बिना वैसे ॥
*
जब सुनाई पड़ी
कोयल की सुमधुर बोली,
तब लज्जा सहित विमोहित हो उठी
मेरी मौनता बड़ी भोली ॥
*
रोमाञ्चभरा मङ्गलमय सुरभित 
शुभ्र मुस्कान-शोभित 
प्रेम-पुष्प उन्हें 
तब अर्पण कर दिया मैंने ॥ 

* * * 
= = = = = = = = =  

Also Published with Author's own English Translation 
on the site "Sanskrit Literature" 
(June 2008) Link: 
https://venetiaansell.wordpress.com/2008/06/28/priya-milanam-dr-harekrishna-meher/
= = = = = = = = = 

English Translation By the Author 
= = = = = = = = = = = = = = = = = = =
Priya-Milanam (Union with Lover)
Sanskrit Song – Ghazal
Lyrics and Tuning By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = = = =
(In this song, a blushful beloved wife expresses before 
her maiden-friend some experiences of pleasure and pain 
relating to union and separation of her loving companion.)
= = = = = = = = = = = = = = = = = = =

Verily when I enjoy union with him,
heavenly abode seems very little for me. [0]
*
When the tree of mind
became unstable with anxiousness,
tender leaf of my patience
shivering became severed. [1]
*
In absence of my loving prop,
my eyes for the whole night
waiting and waiting for him
turned well swollen up. [2]
*
Lily feels no efflorescence
due to separation from Moon.
My heart felt woesome
because of his absence. [3]
*
When the sweet cooing of cuckoo
entered in the cavities of my ears,
my silence along with blush
became enchanted, overwhelmed. [4]
*
I offered him meanwhile
the flower of love, auspiciously fragrant,
filled with horripilation, and pleasant
with fair charming smile. [5]
= = = = = = = = = = = = = = = = = = 
(Extracted from Original Sanskrit Kavya  
"Pushpāñjali-Vichitrā" of Dr. Harekrishna Meher.) 
* * * * * 

Sanskrit Song ‘Desha-Gītikā’ (देश-गीतिका): Dr. Harekrishna Meher

‘Desha-Gītikā’  (Sanskrit Song)   
 Lyrics and Tuning By : Dr. Harekrishna Meher 

*
[Composed in my self-innovated original new lyrical 
maatraa-metre, which has been named 'Namasyaa']


देश-गीतिका
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः
('मातृगीतिकाञ्जलिः’ -काव्यतः)
= = = = = = = = = = = = = = = 


भारत-माता परम-नमस्या विजयते,
स्वतन्त्रताया रण-वीराणां
सफल-तपस्या विजयते ।
परम-नमस्या विजयते ॥ (ध्रुवम्)
*
अम्बुधि-विधौत-सुमधुर-चरण-विलासा,
गङ्गा-सलिले सलील-सुललित-हासा ।
कुसुमारामे रसभर-सुरभि-समीरा,
तरुवर-पुञ्जे रञ्जित-मञ्जु-शरीरा ।
विहङ्ग-ताने मङ्गल-गाने
श्यामल-शस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ (१)
*
अखण्ड-भूमी मण्डित-विपुल-श्रीमा,
कुमारिकातो महती हिमगिरि-सीमा ।
वर्णिल-सुमनोमाला सौम्या प्रथिता,
भारतीयता-राष्ट्रिय-सूत्र-ग्रथिता ।
ऐक्य-विताने प्रिय-सन्ताने
वृत-वरिवस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ (२)
*
विदलित-वैरा वीर-प्रवरा धन्या,
सेना-त्रितयी विभाति जगत्यनन्या ।
यत्र पताका स्वान्ते शान्ति-विधात्री,
त्याग-सुमैत्री-समता-मोदित-गात्री ।
असौ त्रिरङ्गा    प्रेम-तरङ्गा
ससौमनस्या विजयते ।
परम-नमस्या विजयते ।

भारत-माता परम-नमस्या विजयते ॥ (३)
*
सुन्दर-मन्दिर-वृन्दै-र्विशेष-वेषा,
निसर्ग-सर्गे सराग-रङ्गोन्मेषा ।
स्वर्ग-सौख्यदा ख्यातालेख्य-निधाना,
महीयसीयं यशःपीयूष-पाना ।
कर्म-साधने    शर्म-वर्धने
भुवां प्रशस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ (४)
*
यत्र विचित्रा पवित्र-पूजित-वसुधा,
सदानवद्या विद्याराधित-विबुधा ।
विज्ञान-कला-
प्रज्ञा-वैभव-भव्या,
कलितालोका लोके मानयितव्या ।
सुगुणाधारा   संस्कृति-धारा
विमल-यशस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ (५)
*
समान-मनसां सहभावत्वं सततम्,
संहति-मन्त्रः परमं ज्योति-र्नियतम् ।
अनेक-मार्गा गम्याः परमस्माकम्,
समं हि लक्ष्यं रक्ष्यं नयेन साकम् ।
मानवताया   रम्य-शतदलं
हृदय-सरस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ (६)
* * 
* * * *
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।] 
***
(This 'Deśa-Gītikā' has been taken from Sanskrit Kavya ‘Mātrigītikāñjalih’.
It was first published in Sanskrit Magazine “Arvācheena-Sanskritam”, 
Sanskrit Quarterly, October 1993 Issue of Devavani Parishad, Delhi.
Later on published in "Samvid", August 1997 Issue of Bharatiya Vidya Bhavan, Bombay.)
= = = = = = 

English Translation by the Author : 

DESHA-GĪTIKĀ
(Song for the Country)
Lyrics and Tuning by : Dr. Harekrishna Meher 
 - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 
(Natural prosperity, cultural heritage, national unity and philanthropic attitude
are depicted in this patriotic song. Motherland Bhāratavarsha is extolled here.
Brave and loyal, all the offspring should keep the dignity and glory of our Mother India.)
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 
 


Victory to our Motherland ‘Bhārata’
greatly adorable by us.
Victory to the prolific penance of the warriors
who fought and achieved freedom of our country. (0)
*
Our Motherland has the brilliance
of beauteous feet washed by oceans.
She has graceful smiles with gestures
in the water of the sacred River Gańgā.
She bears flavorous and fragrant zephyr
in the beautiful flower-gardens.
In the clusters of trees,
she contains colourful and comely figures.
Having sweet cooing of birds
forming auspicious songs,
she is prosperous with green crops.
Victory to our Motherland ‘Bhārata’
greatly adorable by us. (1).
*
Ours is the Motherland embellished
with immense wealth and fortune.
She spreads from Kanyākumārī
up to the lofty Himālaya.
She forms beauteous multi-coloured garland
intersticed with the national thread of ‘Bhāratīyatā’, Indianness.
Long live the service to humanity
among her dear children with the feelings of unity.
Victory to our Motherland ‘Bhārata’
greatly adorable by us. (2)
*
The trio of our Army, Air Force and Navy
shines unique in the world.
Fortunate and blessed, this trio bears
fearless warriors and quells the foes bravely.
The tricolour flag renders peace in every mind
and rejoices with the feelings
of dedication, noble friendship and equality.
Triumph to the tricolour that spreads
the waves of love and fraternity.
Victorious is our adorable Motherland India. (3)
*
Our country bears excellent figure
with many beautiful temples.
In the creation of Nature,
our Motherland has the emergence
of vast theatre and musical tone.
She offers heavenly happiness
and forms the repository of renowned illustrations.
Verily adorable, she sprinkles the nectar of glory.
In view of noble deeds and rendering peace,
she is admired all over the world.
Victory to our adorable Motherland India. (4)
*
Here by the flow of marvellous culture,
world is sanctified and adored.
Impeccable, it shines with the great wise persons
worshipped by learning.
It has profuse wealth of arts, science
and other various streams.
It has prosperity of light in every aspect
and is honoured in the whole world.
Receptacle of noble qualities,
it has gained grand effulgent glory.
Victory to that culture of our Motherland India. (5)
*
In our country, here prevails friendship,
with equal fellow-feeling and equal mind.
The incantation of national integration
is the prime resplendent light.
We have several paths to cover;
but the destination is one
and that should be preserved with righteous policy.
In the lake of heart here eternally blooms
the beautiful lotus of humanitarianism.
Adorable and victorious is our Motherland Bhāratavarsha. (6)  

* * * * *  
(This Song may be presented with Kaharva Tala, madhya laya) 
= = = = = = 

Complete ‘Matrigitikanjalih’ Kavya : 
= = = = = = 

Other Patriotic Songs : Link:
Contributions to Sanskrit Literature : Link:
= = = = = = 

Friday, January 16, 2009

Sanskrit Song ‘Vibhu-Gītikā’ (विभु-गीतिका): Dr. Harekrishna Meher

Vibhu-Gītikā
(Song for the All-pervading Supreme Being) 
*
Lyrics and Tuning by : Dr. Harekrishna Meher 
(Taken from Sanskrit Gitikavya 'Matrigitikanjalih')
= = = = = = = = = = = = = =   
विभु-गीतिका    
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः     
= = = = =  = = = = = = = = 

दीव्यति भवतो दिव्यत्वम्,
सर्वस्मिन्     हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ।
त्वमसि त्वमसि त्वमसि त्वम् । ॥ (ध्रुवम्)

*
मधु-सङ्गीते पिकस्वरे

सुरभि-सरसिजे विकस्वरे,
प्रसन्न-सलिले सरोवरे
कलकल-झरणे महीधरे ।
दीव्यति भवतो नव्यत्वम्,
नव्यत्वम्, दिव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (१)
*
अनन्त-नीलिम-महाम्बरे
अगाध-जलधौ सुदुस्तरे,
विद्युल्लसिते वारिधरे
वल्लि-तरुवरे चारुतरे ।
दीव्यति भवतो भव्यत्वम्,
भव्यत्वम्, दिव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (२)
*
सौर-सुरुचिरे चराचरे
सान्द्र-सुन्दरे चान्द्र-करे,
शिशु-सित-हसिते मनोहरे
परम-प्रमोद-महोदरे ।
दीव्यति भवतः सेव्यत्वम्,
सेव्यत्वम्, दीव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (३)
*
प्रकृति-पुरुषयोः स्वयंवरे
भाव-विमुग्धे कलेवरे,
सरस-सुमधुरे प्रियाधरे
स्नेह-विगलिते नेत्र-झरे ।
दीव्यति भवतो द्रव्यत्वम्,
द्रव्यत्वम्, दीव्यत्वम् ।
सवस्मिन्     हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (४)
*
प्रणव-लक्षिते सदक्षरे
सज्जन-सङ्गे पुण्यभरे,
समस्त-वस्तुनि वरावरे
स्वस्मिन् भगवति परात्परे ।
दीव्यति भवतः काव्यत्वम्,
काव्यत्वम्, दिव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (५)
* *

(इयं गीतिका प्रायः कहरवा-ताल-मध्य-लयेन परिवेषणीया)
= = = = = = = = = 


English Translation by the author.
Vibhu-Gītikā
(Song for the All-pervading Supreme Being)

= = = = = = = = = = = = = = = = =  
[Omnipresence of the Supreme Being is depicted in this song. 
In every aspect of Nature and creation, presence of the Lord is experienced. 
Supreme Bliss pervades all the universe.]
= = = = = = = = = = = = = = = = = = =      

In all, scintillates Thy divinity.
In all, Thou art, Thou art, Thou art.
O Lord ! In all, Thou art, Thou art, Thou art. (0)
*
In the sweet mellifluous tone of cuckoo,

in the efflorescent fragrant lotus,
in the lucid-watered lake,
in the mountain where flows the fountain with indistinct tunes,
scintillates Thy novelty, the novelty, the novelty, the divinity. (1)
*
In the vast limitless blue firmament,

in the unfathomable unsurpassable ocean,
in the cloud shining with lightning
and in the handsome tree with creeper,
scintillates Thy excellence, the excellence, the divinity. (2)
*
In all the movable and immovable beings

enlightened with sunbeams,
in the affectionate splendid moonlight,
in the sweet fair smiling of a baby
and in the great womb of beatitude,
scintillates service to Thee, service to Thee, the divinity. (3)
*
In the wedding assembly (svayamvara)

of Prakriti (Primordial Matter) and Purusha (Self),
in the body overwhelmed with attractive emotions,
in the juicy lovely lips of the beloved spouse
and in the flow of the eyes drippling with affections,
scintillates Thy fusion, the fusion, the divinity. (4)
*
In the auspicious letter having emblem of ‘OM’,

in the opulence of virtues,
in the company of the saintly holy persons,
in all high and low things,
also in thy own self, the Supreme God, great among the great,
scintillates Thy epical splendour, the epical splendour, the divinity.
Verily in all, Thou art, Thou art, Thou art. (5)
= = = = = = = 


(This song has been taken from Sanskrit-Kāvya ‘Mātrigītikāñjalih’ 
 published in 1997.)
* * *

Complete Kavya 'Matrigitikanjalih' of Dr. Harekrishna Meher : 
Link : 
http://hkmeher.blogspot.in/2011/09/complete-matrigitikanjalih-kavya.html
= = = = = = =