Monday, October 20, 2008

Modern Sanskrit Poem 'Jīvana-Daśakam' (जीवन-दशकम्): Dr.Harekrishna Meher

Original Sanskrit Poem 
'Jīvana-Daśakam' 
 (From Sanskrit Kāvya 'Jīvanālekhyam')    
Author : Dr. Harekrishna Meher   
= = = = = = = = = = = = = =  

आधुनिक-संस्कृत-कविता   
जीवन-दशकम्   
रचयिता : डा. हरेकृष्ण-मेहेरः   
('जीवनालेख्यम्' - काव्यत:)   
= = = = = = = = = = = = = =  
  
(१) जीवन-विहङ्गमः  
= = = = = = = = = = = = = =   
जीवनं नाम विहङ्गमः
अवसाद-शून्याङ्गो नीड़-गृहङ्गम:,
हृदय-व्योम्नि विहरति
प्रसारित-पक्ष: स्वलक्ष्यं प्रति,
वितरन् मञ्जुलां गुञ्जित-काकलीं
मधुर-रीत्या गीत्यावलीं
समाह्लादित-स्थावर-जङ्गमः
प्रपञ्चित-पञ्चम-स्वर-सङ्गमः ॥

* * 


(२) जीवन-तरङ्‌गिणी  

= = = = = = = = = = = = =       
जीवनं नाम तरङ्‌गिणी

व्याहतापि प्रवहति सुरङ्‌गिणी
सुख-दुःख-पार-द्वया
मिलन-विच्छेद-समया,
विलङ्‌घित-सङ्‍कट-सङ्‍घ-प्रतिबन्धका
बन्धुर-मार्ग-गामिन्यपि मान्योदका,
सश्रद्धा समुच्छलित-प्रेम-वन्या
कल-निर्झरा चलति सुधन्या,
कदा निरस्त- निरिङ्‌गिणी
पुन-र्ध्यात-मधुर-रागिणी
सिन्धु-सङ्गम-सुधा-पायिनी

सुमञ्जुल-मञ्जीर-स्वना सञ्जीविनी ॥
* * 


(३) जीवन-वासरः  
= = = = = = = = = = = = = =    
जीवनं नाम वासरः
हर्ष-विषाद-व्यतिकरः
यत्र सम्पाद्यते त्रिसन्ध्या शोभना
शैशव-तारुण्य-वार्धक्य-सम्पन्ना ।
स्फुरति कदा प्रोत्फुल्लः
कदा मत्त-लोल-कल्लोलः
कदा सन्तप्तोऽवसन्नः
गाम्भीर्य-चिन्ताम्भोधर-समाच्छन्नः
सौम्य-चण्ड-कम्यया
अहिम-दीधित्या रम्यया ॥
* * 


(४) जीवन-प्रसूनम्  
= = = = = = = = = = = = = =   
जीवनं नाम प्रसूनम् 
घटना-समीर-विच्छुरिता यस्य परागाः
प्रतीयन्ते नेत्र-प्रसरे सञ्जात-रागाः
प्रभवन्ति नूनम् 
प्रवर्त्तयितुं प्रेम-सरण्याम्
स्वर्ग-सुखधारिण्यां धरण्याम् ।
संसारे खलु सुमं तद् दुर्लभम्
प्रसरति यस्मात् सद्‍गुण-सौरभम्,
सुरभिरभितः प्रभावयति भावमयं
प्रकामं सुरम्यं परिवेशम्,
प्रमोदयति सम्मदयति जन-हृदयं
सन्दिशति सुन्दर-वार्त्तां प्रतिदेशम् ।
निवसति स्मृतिषु चिरं सुरुचिकरम्
समुपकारकमिदं सुमनो मनोहरम् ॥
* * 


(५) जीवन-सङ्गीतम्   
= = = = = = = = = = = = = =   
जीवनं नाम सङ्गीतं
गीयते यत्र मधुमयं सुधा-गीतं
सुमनसां कमनीय-कान्तिभरम्
श्रुति-दीप्ति-विधायक-सप्तस्वरम्
ऐन्द्र-कार्मुक-सुन्दरम्
सर्वेषां शान्ति-सन्तोष-कन्दरम् ।
नृत्यति हृदयमाभ्यन्तरं तरुणं
कदा च शिव-रञ्जन्या सकरुणं
परिव्याप्त-ताल-लये
निर्दिष्ट-दिग्‌वलये स्वालये ।
मानस-विपञ्च्या समङ्‌कितः
यत्र अपूर्व-झङ्कारः
दीव्यति तन्त्री-समुत्थितः
समुदात्त ॐ-कारः ॥
* * 


(६) जीवन-सरोवरः   
= = = = = = = = = = = = = =   
जीवनं नाम सरोवरः
संसार-जञ्जाल-पुञ्ज-कासर-मज्जनैरपि
सव्यथं विमथितं दुर्जनैरपि
निश्चल-गभीरं वारिभरः
निर्मलोदरो नियतमवदातः
प्रेम्णा संसेवित-प्राणिजातः
यत्र शारदीय-वैशद्यावतंसः
सम्फुल्ल-मानसो विहरति मनोहारी हंसः ॥ 
* * 


(७) जीवन-यात्रा   
= = = = = = = = = = = = = =    
जीवनं नाम यात्रा
यत्र बह्वी नावसाद-मात्रा,
मार्गे चतुष्के न दिग्‌भ्रष्टः
विषोढ़-विषम-मिष्ट-कष्टः
चलति पान्थो ह्यविचलितः
विलङ्‍घ्य कण्टकमपि बलवन्तं
साफल्य-सम्प्राप्ति-पर्यन्तं
लक्ष्यं प्रति निविष्टैकाग्र-चित्तः ।
बाधते न प्रखरापि क्लान्तिः
लभ्यते पुनरान्तरिकी शान्तिः,
मधुमती विमुग्धा सङ्गमनी
जायते समय-वृत्त्या स्व-वर्त्मनी ॥
* * 


(८) जीवन-ज्योतिः 
= = = = = = = = = = = = = =   
जीवनं नाम ज्योतिः सुपुञ्जं
यत्र प्रतिभा-स्फुलिङ्गः
व्यञ्जयति प्रशान्त-कुञ्जं
स्वाङ्ग-तेजसा समुत्थ-शृङ्गः
अहन्यहनि प्रज्वलति यत्र
काम-क्रोध-बह्नि-र्निह्नुतः
हृदय-कन्दर-रन्धन-शालायां
कामिनी-काङ्चन-प्रपञ्च-स्वादोपभोगाय,
पुन-र्ज्वलति तत्र
ब्रह्मचर्य-बह्नि-र्नापह्नुतः
अपाकर्त्तुं पार्थिव-पिपासार्थां मायां
तपस्तेजोदीप्तिं प्रकाश्य योगाय ॥  

* * 

(९) जीवन-मन्दिरम्   

= = = = = = = = = = = = = =   
जीवनं नाम मन्दिरम् 
अमन्दानन्दं राजते सुन्दरम्, 
प्रेम-देवता-नीराजना-भवनं
संस्कार-निष्क-सुशोभनं
स्वच्छमछिन्न-छत्रम्,
नास्ति यत्र दम्पतीनां त्याग-पत्रम् ।
सामोदमुदीरयन्ति यत्र सदस्याः
परस्परार्पित-वरिवस्याः
श्रद्धा-स्नेह-भक्ति-पूजा-मन्त्रम्,
सौहार्द-प्रदीप-सम्पदं सम्पादयितुं
भावाञ्चले सञ्चालयितुं
सामाजिक-धर्म-तन्त्रम्
समेधते शान्ति-सुधा चिरन्तनी,
समेषां प्रदूषण-निकृन्तनी,
पर्यावरण-सपर्या-समुल्लासिता
समभिनन्दिता वैजयन्ती प्रशंसिता ॥ 

* * 

(१०) जीवन-पुस्तकम्  

= = = = = = = = = = = = = =   
जीवनं नाम पुस्तकं
सुवर्णकं पूर्ण-पर्णकं
यत्र लिख्यते विजय-शतकम्
जितान्तरायं कान्तार-सन्तारकम् ।
पराजित्यासत्यमन्यायं सर्वकालं
विभिद्य मिथ्या-कूट-कपट-शाठ्य-जालं
संस्थाप्यते विजयो न्यायस्य सुकृत्यस्य
ऋतस्य धर्मस्य सत्यस्य
कर्त्तव्यस्य उत्तमाचरणस्य
विश्वासस्य विश्वाभरणस्य,
सत्यमेव जयते नानृतम्
इति प्रभवति शाश्वतं वाक्यामृतम् ॥

* * * 

(Sanskrit Poem “Jīvana-Daśakam”
Authored by :
Dr. Harekrishna Meher.   

Published in Samskrita-Mañjarī, July-September 2005 Issue, 
pp. 22–26 of Delhi Sanskrit Akademi, Delhi.)
= = = = = = = = = =  
‘Jivanaalekhyam’ Kavya : Link :


No comments: