Monday, October 20, 2008

Modern Sanskrit Poem 'Jīvana-Daśakam' (जीवन-दशकम्): Dr.Harekrishna Meher

Original Sanskrit Poem 
'Jīvana-Daśakam' 
 (From Sanskrit Kāvya 'Jīvanālekhyam')    
Author : Dr. Harekrishna Meher   
= = = = = = = = = = = = = =  

आधुनिक-संस्कृत-कविता   
जीवन-दशकम्   
रचयिता : डा. हरेकृष्ण-मेहेरः   
('जीवनालेख्यम्' - काव्यत:)   
= = = = = = = = = = = = = =  
  
(१) जीवन-विहङ्गमः  
= = = = = = = = = = = = = =   
जीवनं नाम विहङ्गमः
अवसाद-शून्याङ्गो नीड़-गृहङ्गम:,
हृदय-व्योम्नि विहरति
प्रसारित-पक्ष: स्वलक्ष्यं प्रति,
वितरन् मञ्जुलां गुञ्जित-काकलीं
मधुर-रीत्या गीत्यावलीं
समाह्लादित-स्थावर-जङ्गमः
प्रपञ्चित-पञ्चम-स्वर-सङ्गमः ॥

* * 


(२) जीवन-तरङ्‌गिणी  

= = = = = = = = = = = = =       
जीवनं नाम तरङ्‌गिणी

व्याहतापि प्रवहति सुरङ्‌गिणी
सुख-दुःख-पार-द्वया
मिलन-विच्छेद-समया,
विलङ्‌घित-सङ्‍कट-सङ्‍घ-प्रतिबन्धका
बन्धुर-मार्ग-गामिन्यपि मान्योदका,
सश्रद्धा समुच्छलित-प्रेम-वन्या
कल-निर्झरा चलति सुधन्या,
कदा निरस्त- निरिङ्‌गिणी
पुन-र्ध्यात-मधुर-रागिणी
सिन्धु-सङ्गम-सुधा-पायिनी

सुमञ्जुल-मञ्जीर-स्वना सञ्जीविनी ॥
* * 


(३) जीवन-वासरः  
= = = = = = = = = = = = = =    
जीवनं नाम वासरः
हर्ष-विषाद-व्यतिकरः
यत्र सम्पाद्यते त्रिसन्ध्या शोभना
शैशव-तारुण्य-वार्धक्य-सम्पन्ना ।
स्फुरति कदा प्रोत्फुल्लः
कदा मत्त-लोल-कल्लोलः
कदा सन्तप्तोऽवसन्नः
गाम्भीर्य-चिन्ताम्भोधर-समाच्छन्नः
सौम्य-चण्ड-कम्यया
अहिम-दीधित्या रम्यया ॥
* * 


(४) जीवन-प्रसूनम्  
= = = = = = = = = = = = = =   
जीवनं नाम प्रसूनम् 
घटना-समीर-विच्छुरिता यस्य परागाः
प्रतीयन्ते नेत्र-प्रसरे सञ्जात-रागाः
प्रभवन्ति नूनम् 
प्रवर्त्तयितुं प्रेम-सरण्याम्
स्वर्ग-सुखधारिण्यां धरण्याम् ।
संसारे खलु सुमं तद् दुर्लभम्
प्रसरति यस्मात् सद्‍गुण-सौरभम्,
सुरभिरभितः प्रभावयति भावमयं
प्रकामं सुरम्यं परिवेशम्,
प्रमोदयति सम्मदयति जन-हृदयं
सन्दिशति सुन्दर-वार्त्तां प्रतिदेशम् ।
निवसति स्मृतिषु चिरं सुरुचिकरम्
समुपकारकमिदं सुमनो मनोहरम् ॥
* * 


(५) जीवन-सङ्गीतम्   
= = = = = = = = = = = = = =   
जीवनं नाम सङ्गीतं
गीयते यत्र मधुमयं सुधा-गीतं
सुमनसां कमनीय-कान्तिभरम्
श्रुति-दीप्ति-विधायक-सप्तस्वरम्
ऐन्द्र-कार्मुक-सुन्दरम्
सर्वेषां शान्ति-सन्तोष-कन्दरम् ।
नृत्यति हृदयमाभ्यन्तरं तरुणं
कदा च शिव-रञ्जन्या सकरुणं
परिव्याप्त-ताल-लये
निर्दिष्ट-दिग्‌वलये स्वालये ।
मानस-विपञ्च्या समङ्‌कितः
यत्र अपूर्व-झङ्कारः
दीव्यति तन्त्री-समुत्थितः
समुदात्त ॐ-कारः ॥
* * 


(६) जीवन-सरोवरः   
= = = = = = = = = = = = = =   
जीवनं नाम सरोवरः
संसार-जञ्जाल-पुञ्ज-कासर-मज्जनैरपि
सव्यथं विमथितं दुर्जनैरपि
निश्चल-गभीरं वारिभरः
निर्मलोदरो नियतमवदातः
प्रेम्णा संसेवित-प्राणिजातः
यत्र शारदीय-वैशद्यावतंसः
सम्फुल्ल-मानसो विहरति मनोहारी हंसः ॥ 
* * 


(७) जीवन-यात्रा   
= = = = = = = = = = = = = =    
जीवनं नाम यात्रा
यत्र बह्वी नावसाद-मात्रा,
मार्गे चतुष्के न दिग्‌भ्रष्टः
विषोढ़-विषम-मिष्ट-कष्टः
चलति पान्थो ह्यविचलितः
विलङ्‍घ्य कण्टकमपि बलवन्तं
साफल्य-सम्प्राप्ति-पर्यन्तं
लक्ष्यं प्रति निविष्टैकाग्र-चित्तः ।
बाधते न प्रखरापि क्लान्तिः
लभ्यते पुनरान्तरिकी शान्तिः,
मधुमती विमुग्धा सङ्गमनी
जायते समय-वृत्त्या स्व-वर्त्मनी ॥
* * 


(८) जीवन-ज्योतिः 
= = = = = = = = = = = = = =   
जीवनं नाम ज्योतिः सुपुञ्जं
यत्र प्रतिभा-स्फुलिङ्गः
व्यञ्जयति प्रशान्त-कुञ्जं
स्वाङ्ग-तेजसा समुत्थ-शृङ्गः
अहन्यहनि प्रज्वलति यत्र
काम-क्रोध-बह्नि-र्निह्नुतः
हृदय-कन्दर-रन्धन-शालायां
कामिनी-काङ्चन-प्रपञ्च-स्वादोपभोगाय,
पुन-र्ज्वलति तत्र
ब्रह्मचर्य-बह्नि-र्नापह्नुतः
अपाकर्त्तुं पार्थिव-पिपासार्थां मायां
तपस्तेजोदीप्तिं प्रकाश्य योगाय ॥  

* * 

(९) जीवन-मन्दिरम्   

= = = = = = = = = = = = = =   
जीवनं नाम मन्दिरम् 
अमन्दानन्दं राजते सुन्दरम्, 
प्रेम-देवता-नीराजना-भवनं
संस्कार-निष्क-सुशोभनं
स्वच्छमछिन्न-छत्रम्,
नास्ति यत्र दम्पतीनां त्याग-पत्रम् ।
सामोदमुदीरयन्ति यत्र सदस्याः
परस्परार्पित-वरिवस्याः
श्रद्धा-स्नेह-भक्ति-पूजा-मन्त्रम्,
सौहार्द-प्रदीप-सम्पदं सम्पादयितुं
भावाञ्चले सञ्चालयितुं
सामाजिक-धर्म-तन्त्रम्
समेधते शान्ति-सुधा चिरन्तनी,
समेषां प्रदूषण-निकृन्तनी,
पर्यावरण-सपर्या-समुल्लासिता
समभिनन्दिता वैजयन्ती प्रशंसिता ॥ 

* * 

(१०) जीवन-पुस्तकम्  

= = = = = = = = = = = = = =   
जीवनं नाम पुस्तकं
सुवर्णकं पूर्ण-पर्णकं
यत्र लिख्यते विजय-शतकम्
जितान्तरायं कान्तार-सन्तारकम् ।
पराजित्यासत्यमन्यायं सर्वकालं
विभिद्य मिथ्या-कूट-कपट-शाठ्य-जालं
संस्थाप्यते विजयो न्यायस्य सुकृत्यस्य
ऋतस्य धर्मस्य सत्यस्य
कर्त्तव्यस्य उत्तमाचरणस्य
विश्वासस्य विश्वाभरणस्य,
सत्यमेव जयते नानृतम्
इति प्रभवति शाश्वतं वाक्यामृतम् ॥

* * * 

(Sanskrit Poem “Jīvana-Daśakam”
Authored by :
Dr. Harekrishna Meher.   

Published in Samskrita-Mañjarī, July-September 2005 Issue, 
pp. 22–26 of Delhi Sanskrit Akademi, Delhi.)
= = = = = = = = = =  
‘Jivanaalekhyam’ Kavya : Link :


Friday, October 17, 2008

Reference to Sanskrit Kavya ‘Mātrigītikāñjalih’ : Dr. Harekrishna Meher

Reference to ‘Mātrigītikāñjalih’  
Modern Sanskrit Giti-Kāvya of Dr. Harekrishna Meher
= = = = = = =

* Wikipedia : http://en.wikipedia.org/wiki/Matrigitikanjalih

* Sanskrit Literature :
http://en.wikipedia.org/wiki/Category:Sanskrit_literature (M alphabet)

* http://medlibrary.org/medwiki/Matrigitikanjalih

* http://yomi.mobi/egate/Matrigitikanjalih/a

* http://www.museumstuff.com/learn/topics/Matrigitikanjalih

* http://dbpedia.org/page/Matrigitikanjalih

* [University of California] : http://books.google.com/books?id=0vZ3AAAAIAAJ&dq=editions:0hM4hvuyBIuyK4&pgis=1

* [University of Michigan] : http://books.google.com/books?id=A_JjAAAAMAAJ&q=harekrishna+meher&dq=harekrishna+meher&pgis=1

WorldCat : http://www.worldcat.org/search?q=au%3AHarekr%CC%A5shn%CC%A3a+Mehera&qt=hot_author
* http://www.worldcat.org/oclc/46974667&referer=brief_results

* Marketime : Modern Sanskrit Lyricist Harekrishna Meher :  
 http://marketime.blogspot.com/2008/07/among-modern-sanskrit-lyricists.html

Sanskrit Literature :
http://venetiaansell.wordpress.com/2008/06/21/jivan-gitika-dr-harekrishna-meher
*
http://venetiaansell.wordpress.com/2008/07/12/sangeeta-geetikaa-dr-harekrishna-meher/#more-107

*Wikipedia : Indian Poet (Sanskrit) - Modern Poet : Harekrishna Meher :
http://hi.wikipedia.org/wiki/हरेकृष्ण_मेहेर

* http://epo.wikitrans.net/Matrigitikanjalih?eng=Matrigitikanjalih
* http://diccionario.sensagent.com/matrigitikanjalih/en-en/
= = = = 

Tuesday, October 14, 2008

Sanskrit Song: नववर्ष-गीतिका :Nava-Varsha-Gitika (Song of New Year): Dr.Harekrishna Meher

नववर्ष-गीतिका
गीति-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः
= = = = = = = = = = 
नववर्षम्,
शुभं भवतु नववर्षम्,
सौख्यमयं   
निरामयं
वितरतु परमं हर्षम् ।
शुभं भवतु नववर्षम्,
नववर्षम्, नववर्षम् ॥ (ध्रुवम्)
*
हृदय-मन्दिरे प्रेम-ज्योति-र्विराजताम्,
मनोऽरविन्दं विन्दतु विमलं सुन्दरताम् ।
सुचिन्तनं   
चिरन्तनं
हरतु विषाद-विमर्षम् ।
शुभं भवतु नववर्षम् ॥ (१)
*
प्रसरतु सत्कवि-भावुक-विकसित-सुप्रतिभा,
अम्बर-तलेऽपि सम्बल-विलसित-दिव्य-विभा ।
साभ्युदयं   
वराभयं
तनोतु सकलोत्कर्षम् ।
शुभं भवतु नववर्षम् ॥ (२)
*
प्रदिशतु दिशि दिशि मधु-सन्देशं सुमञ्जुलम्,
शकुन्त-गीतं सकुसुम-फल-तरु-लता-कुलम् ।
अनाविलं  
शुचि सलिलं
शमयतु जगतां तर्षम् ।
शुभं भवतु नववर्षम् ॥ (३)
*
परिमल-मरुतो रमयतु मर्त्त्यं चराचरम्,
दूषण-रहितो वातु सर्वतो नितन्तरम् ।
समुज्ज्वले  
विश्व-तले
तिरयतु कलुषामर्षम् ।
शुभं भवतु नववर्षम् ॥ (४)
*
धृत-पर्जन्या रमतां धन्या वसुन्धरा,
प्रशस्य-शस्या वन्य-वैभवै रत्नभरा ।
फलत्वलं  
समङ्गलं
दृढ़मैक्यं दुर्धर्षम् ।
शुभं भवतु नववर्षम् ॥ (५)
*
शान्ति-पेशलं ज्ञान-कौशलं शोकहरम्,
प्रभवतु भुवने जन-हित-साधन-कर्मकरम् ।
व्रतं परं 
परस्परं
निवारयतु सङ्घर्षम् ।
शुभं भवतु नववर्षम् ॥ (६)
*
सन्नय-मार्गे प्रसन्न-भाग्ये स्व-निर्भरम्,
राष्ट्रिय-संहति-मन्त्रोद्‍गाने पुण्यभरम् ।
रुचि-रुचिरं 
जयतु चिरं
सुरभित-भारतवर्षम् ।
शुभं भवतु नववर्षम् ।
नववर्षम्, नववर्षम् ॥ (७)
**
(इयं गीतिका कहरवा-ताल-मध्य-लयेन परिवेषणीया ।)
= = = = = = = = 

English Translation by the Author Dr. Harekrishna Meher :
Nava-Varsha-Gitika
(Song of New Year : Shubham Bhavatu Navavarsham) 
( Best compliments, noble thoughts and activities, sacred blessings of Nature, 
pollution-free environment and all-round prosperity of the world are depicted here.)
= = = = = = = = 
May the New Year be auspicious.
May the New Year confer on us supreme bliss
with happiness and diseaselessness. (0)
*
May the light of love be brilliantly kindled
in the temples of all the hearts.
May the lucid lotus of mind
bear excellent comeliness.
May noble thoughts perpetually eradicate
all dejections and depressions. (1)
*
In the New Year, may the noble calibre
emerging from noble poets and thinkers expand.
Even under the firmament,
this calibre forms divine effulgence
enlighted with the wealth of learning.
May the calibre bestow prosperity,
fearless boon and all kinds of
brilliant achievements. (2)
*
In every direction
may the pleasant cooings of birds
herald sweet tidings of the riches
of flowers, fruits,trees and creepers.
May the lucid and clear water
quench thirst of the mundane creatures.(3)
*
May the fragrant zephyr gladden
all the worldly beings.
Devoid of pollution, may it blow from all sides
and discard all evils with envies
in the enlightened universe. (4)
*
May the Earth rejoice and be blessed
with fortune by bearing timely rainfall;
also be opulent with excellent profuse corns
and be full of jewels along with sylvan riches.
May the robust infallible unity among the people
be fruitful with well-being. (5)
*
May the dexterous technique of knowledge
removing all sufferings
and beauteously conferring peace,
be prolific in the world
by rendering welfare to the people.
May the great vow eradicate
all conflicts and collisions. (6)
*
Self-dependent in the path of right policy,
with propitiated fortune
and virtuous with the vibrant incantation
of national integration,
may the Motherland Bharatavarsha,
fragrant, resplendent and beautiful,
remain ever-victorious.
May the New Year be auspicious. (7)
*
(Thus ends Navavarsha-Gitika)*
= = = = = = = = = = = = = = 

[Extracted from  Original Sanskrit Giti-Kavya 'Matrigitikanjalih' 
Published by Kalahandi Lekhak Kala Parishad, Bhawanipatna, 
Orissa, India,1997]
* * * 

'Matrigitikanjalih' (मातृगीतिकाञ्जलिः): Link : 
= = = = = = = 
Poem Hunter : (Best Wishes of New Year): Link : 
https://www.poemhunter.com/poem/best-wishes-of-new-year

* Special Reference : 

Nava-varsha-Gitika  (From ‘Matrigitikanjalih’ Kavya): 
= = = = = = = = = = =
Published in “Sanskrita-Manjari”, January-March 1995, Delhi Sanskrit Akademi, Delhi.
*
Original Text, Published in ‘Sangeet’ (Music Magazine, December 1997 Issue),
Sangeet Karyalaya, Hatharas, Uttar Pradesh.  
*
Published Original Text along with Musical Notation (Swara-Lipi).
(Music composed by Pandit H.Harendra Joshi, Ratlam city, Madhya Pradesh).
‘Sangeet’, Music Magazine, December 1999, pages 13-20, 
Sangeet Karyalaya, Hathras, U.P.   

Ref: Pandit Harendra Joshi Music Director:
* Audio-Cassette (1998) and Video-Cassette of “Nava-Varsha Gitika”
(Music composed by Pandit H.Harendra Joshi) 
Telecast on local TV channels 

in Jawara and Ratlam city, Madhya Pradesh in December 1999. 
*
‘Nava-Varsha-Gitika’  Sanskrit Song, Broadcast by All India Radio, Bhawanipatna
on 31 December 2002, on the eve of New Year 2003.  
= = = = = = = 

Friday, October 10, 2008

Sanskrit Song शक्ति-गीतिका Śakti-Gītikā: Dr.Harekrishna Meher

Sanskrit Song 'Śakti-Gītikā'
(Song for the Divine Power)  
Lyrics and Tuning By : Dr. Harekrishna Meher  
(Extracted from “Mātrigītikāñjalih” Kāvya)  
= = = = = = = = = =  
(Composed in my self-innovated original new lyrical
maatraa-metre, which has been named
 'Sivadaa'
शिवदा *) 

= = = = = = = = = =  
शक्ति-गीतिका   
(मातृगीतिकाञ्जलिः-काव्यतः)  
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः
= = = = = = = = = = 
जय जय दुर्गे ! त्वं दुर्गति- निवारिणी । 
महोज्ज्वलागौरी विमला,
त्रिगुणमयी मङ्गल-तरङ्‌गिणी 
दुर्गे ! त्वं दुर्गति-निवारिणी  (ध्रुवम्)
*
मात-र्जगतां  त्वां सर्वगतां पश्यामि सदा,
त्वं शर्वाणी  त्वं श्री-र्वाणी सुखदा वरदा 
विमोहिनीमहिष-मर्दिनी,
हर मान्द्यं मृगेन्द्र-विहारिणी 
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी  (१)
*
आद्या शक्तिः शरण-रक्षणी सरसिजेक्षणा,
नारायणि हे ! त्वं भय-हरणी शुभ-विभूषणा ।
सुहासिनीदुष्ट-शासिनी,
भव शिवदा कुविदां विदारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (२)
*
त्वं हरि-माया  रम्या परमा रण-रुद्राणी,
खण्डित-पापा  चण्डिका सती जन-कल्याणी ।
जनय त्वम्हृदि देवत्वम्,
भव भवानि ! दानव-निवर्हिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (३)
*
तमसां हन्त्री  त्वं गायत्री भद्रकालिका,
दह कुकर्माणि माणिकेश्‍वरी विश्‍वपालिका ।
त्रिशूलिनीशौर्यशालिनी,
त्वं श्रद्धा शिवार्द्ध-शरीरिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (४)
*
कात्यायनि हे ! भक्त्या नियतं त्वं सुपूजिता,
असि पराम्बिका सम्बलेश्वरी चापराजिता ।
हैमवतीत्वं विभास्वती,
भव सुरसा महसां प्रसारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (५)
*
अघ-परिवारं  विषमाकारं जहि दुर्वारम्,
नाशय दैन्यं  दुर्दिन-जन्यं हर कलि-भारम् ।
धृतायुधात्वं ज्ञान-सुधा,
भव सिद्धा वसुधा-सुधारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (६)
*
सत्य-सुन्दरं  कुरु सुनन्दितं भुवनं सकलम्,
स्थापय शान्तिं प्रापय कान्तिं वितरात्मबलम् ।
नमोऽस्तु तेभव जगत्कृते,
अयि मातः ! करुणा-सुवर्षिणी ॥
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (७)
= = = = = 
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।] 
= = = = = =  

[Transliteration in Roman script]

Śakti-Gītikā : Jaya Jaya Durge !
Sanskrit Lyrics and Tuning by : Dr. Harekrishna Meher
= = = = = = = =


Jaya jaya Durge ! Durgati-nivāriņī,
Tvam durgati-nivāriņī /
Mahojjvalā, Gaurī Vimalā, Triguņamayī mańgala-tarańgiņī /
Durge ! Tvam durgati-nivāriņī // (0)
*
Mātar jagatām Tvam Sarva-gatām Paśyāmi sadā,
Tva Śarvāņī Tvam ŚrīrVāņī Sukhadā baradā.
Vimohinī, Mahisha-mardinī,
Hara māndyam mŗgendra-vihāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (1)
*
Ādyā Śaktih Śaraņa-rakshaņī Sarasijekshaņā,
Nārāyaņi he ! Tvam bhaya-haraņī Śubha-vibhūshaņā.
Suhāsinī, Dushţa-śāsinī,
Bhava śivadā kuvidām vidāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (2)
*
Tvam Hari-māyā Ramyā paramā Raņa-Rudrāņī,
Khaņđita-pāpā Chaņđikā Sati Jana-kalyāņī.
Janaya tvam, Hŗdi devatvam,
Bhava Bhavāni ! Dānava-nivarhiņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (3)
*
Tamasām hantrī Tvam Gāyatrī Bhadra-Kālikā,
Daha kukarmāņi Māņikeśvarī Viśva-pālikā.
Triśūlinī, Śaurya-śālinī,
Tvam Śraddhā Śivārddha-śarīriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (4)
*
Kātyāyani he ! Bhaktyā niyatam Tvam supūjitā,
Asi parāmbikā Sambaleśvarī Chāparājitā.
Haimavatī, Tvam vibhāsvatī,
Bhava surasā mahasām prasāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (5)
*
Agha-parivāram Vishamākāram Jahi durvāram,
Nāśaya dainyam Durdina-janyam Hara kali-bhāram.
Dhŗtāyudhā, Tvam jñāna-sudhā,
Bhava siddhā vasudhā-sudhāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (6)
*
Satya-sundaram Kuru sunanditam Bhuvanam sakalam,
Sthāpaya śāntim Prāpaya kāntim Vitarātma-balam.
Namo’stu te, Bhava jagat-kŗte,
Ayi Mātah ! Karuņā-suvarshiņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (7)

* * * * * 

English Translation : 
= = = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 
LITERARY WORKS OF Dr. HAREKRISHNA MEHER: