Wednesday, February 15, 2017

Jivanaalekhyam (Modern Sanskrit Kavya):जीवनालेख्यम् : Dr.Harekrishna Meher

जीवनालेख्यम् (आधुनिक-संस्कृत-कविता-सङ्कलनम्)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
*
‘Jīvanālekhyam’ (Modern Sanskrit Poems)  
By: Dr.Harekrishna Meher 


Extracts: 
Links: 
          = = = = = = 

स्तवार्चन-स्तवकम् : Stavārchana-Stavakam: Dr.Harekrishna Meher

'Stavarchana-Stavakam’ (Sanskrit Stotra-Kavya)  
By: Dr. Harekrishna Meher 
*
स्तवार्चन-स्तवकम्   (संस्कृत-स्तोत्रकाव्यम्)
रचयिता : डॉ. हरेकृष्ण-मेहेरः  
*
Extracts: 
Links: 
    = = = = = 

* Contribution of Dr. Harekrishna Meher to Sanskrit Literature:  

Friday, December 30, 2016

Depiction of Dawn (Usha) in Tapasvini Kavya/ Dr.Harekrishna Meher

Beautiful Depiction of Dawn (Usha)  
in 'Tapasvini' Mahakavya of Poet Gangadhar Meher
*
(Extracted from Tri-lingual Translations of Tapasvini
By  Dr. Harekrishna Meher) 

= = = = = = = = = = = = = = = 
Original Odia Poem from Canto-IV
composed in mellifluous Chokhi-Raga :   
= = = = = = = = = = = = = = = 
मङ्गळे अइला उषा   
बिकच-राजीब-दृशा
जानकी-दर्शन-तृषा 
हृदये बहि      
कर-पल्लबे नीहार-     
मुक्ता धरि उपहार
सतीङ्क बास बाहार  
प्राङ्गणे रहि  ।
कळकण्ठ-कण्ठे कहिला,
दरशन दिअ सति  ! राति पाहिला ॥ ()
*
अरुण कषाय बास     
कुसुम-कान्ति-बिकाश
प्रशान्त रूप बिश्वास 
दिअन्ति मने  ।  
केउँ य़ोगेश्वरी आसि    
मधुर भाषे आश्वासि
डाकुछन्ति दुःखराशि   
उपशमने  ।
देबा पाइँ नब जीबन,
स्वर्गुँ कि ओह्लाइछन्ति  मर्त्त्य भुबन ॥ ()  
*
समीर सङ्गीत गाए   
भ्रमर बीणा बजाए  
सुरभि नर्त्तने थाए   
उषा-निदेशे  ।  
कुम्भाटुआ होइ भाट   
आरम्भिला स्तब पाठ
कळिङ्ग अइला पाट-   
मागध बेशे  ।  
लळित मधुरे कहिला,
उठ सती-राज्य-राणि !  राति पाहिला ॥’ ()
*
= = = = = = = = = = = = 
Hindi Translation
= = = = = = = = = = = =
समंगल आई सुन्दरी 
प्रफुल्ल-नीरज-नयना उषा, 
हृदय में ले गहरी 
जानकी-दर्शन की तृषा  ।  
नीहार-मोती उपहार लाकर पल्लव-कर में, 
सती-कुटीर के बाहर 
आंगन में खड़ी होकर  
बोली कोकिल-स्वर में,   
दर्शन दो, सती अरी  ! 
बीती  विभावरी ॥’ (१) 
*
अरुणिमा कषाय परिधान,  
सुमनों की चमकीली मुस्कान  
और प्रशान्त रूप मन में जगाते विश्वास : 
आकर कोई योगेश्वरी 
बोल मधुर वाणी सान्त्वनाभरी 
सारा दुःख मिटाने पास 
कर रही हैं आह्वान  ।  
मानो स्वर्ग से उतर  
पधारी हैं धरती पर  
करने नया जीवन प्रदान ॥ (२) 
*
गाने लगी बयार 
संगीत  तैयार   
वीणा बजाई भ्रमर ने,  
सौरभ लगा नृत्य करने  
उषा का निदेश मान  ।  
कुम्भाट भाट हो करने लगा स्तुति गान ।   
कलिंग आया पट्टमागध बन,   
बोला बिखरा ललित मधुर स्वन,    
उठो  सती-राज्याधीश्वरि ! 
बीती  विभावरी ॥’ (३) 
*
= = = = = = = = = = = =
English Translation
= = = = = = = = = = = =
Auspiciously came
Usha, the blooming lotus-eyed dame,  
in her heart cherishing keenly  
thirst for a vision
of the virtuous Janaki.  
Bearing dew-pearls as presentation  
in her hands of leafage,  
standing forward
in the outer courtyard
of Sita’s cottage,  
in cuckoo’s tone spake she,  
‘O Chaste Lady !
Deign to give your sight.  
Dawned the night.’ (1)  
*
The saffron costume  
of auroral shine,  
flowers’ smiling bloom  
and tranquil mien  
make a room  
in the mind to presume :  
Some goddess of yoga reaching the place,  
by sweet words giving solace  
calls to render relief  
from pangs of grief.  
From heaven on earth as if  
has descended to bestow a new life.  (2)  
*
Musical tune Zephyr sang swinging.  
Black Bee played on lute charming.  
By Usha’s bidding, in dance  
rapt remained Fragrance.  
Kumbhatua bird as a royal bard  
began to eulogize forward.  
As the panegyrist premier
Kalinga bird appeared there   
and spake in voice gracefully sweet,
‘Wake please,
O Queen of the empire of chaste ladies !  
Dawned the night.’ (3)  
*  
= = = = = = = = = = = = = = 
Sanskrit Translation
= = = = = = = = = = = = = = 
मङ्गलं समागता सौम्याङ्गना
उषा व्याकोषारविन्द-लोचना
वैदेही-दर्शनाभिलाषं वहन्ती स्वहृदये ।
पल्लव-कर-द्वये
नीहार-मौक्तिक-प्रकरोपहारं दधाना
सती-निलय-बहिरङ्गणे विद्यमाना
अभाषत कोकिल-कण्ठ-स्वना सूनरी,
दर्शनं देहि सति ! प्रभाता विभावरी ॥ (१)
*
अरुण-काषायाम्बरम्,
स्मितं सुमनसां विकस्वरम्,
प्रशान्त-रूपं च स्वान्ते जनयन्ति प्रत्ययम् :
काऽपि योगेश्वरी तत्रागत्य स्वयम्
सुमधुर-वचनैः सान्त्वनां प्रदाय
समाकारयति दुःखराशि-प्रशमनाय ।
नवीन-जीवन-दानार्थं सा ध्रुवम्
विद्यते त्रिदिव-भुवनादवतीर्णा भुवम् ॥ (२)
*
सङ्गीतं गायति स्म समीरणः,
भृङ्गो वीणा-वादन-प्रवणः ।
सुरभिरवर्त्तत नर्त्तन-तन्मया
उषाया अनुज्ञया  ।
वैतालिको भूत्वा कुम्भाट-विहङ्गः  
प्रारभत स्तुति-पठनम्  ।  
समागतो मागध-मुख्य-वेशः कलिङ्गः
प्रोवाच सुललित-मधुर-स्वनम्,
उत्तिष्ठ, सती-राज्याधीश्वरि !  
प्रभाता विभावरी ॥ (३)
= = = = = = = = = = 

Ref : Complete Hindi-English-Sanskrit Versions of Tapasvini Kavya :

* * * 

Tuesday, December 13, 2016

Sanskrit Version of ‘Ek Pyaar Ka Nagma Hai’ (Lyrics: Dr.Harekrishna Meher): Vaartaavali DD News

 ‘Ek Pyaar Ka Nagma Hai’ (Hindi Song from Film ‘Shor’) 
Sanskrit Version Lyrics : Dr. Harekrishna Meher
एकं प्रणय-गीतम् : डॉ. हरेकृष्ण मेहेर
(Winner in Sanskrit Lyric Translation Competition conducted by
‘Vaartaavali’ Sanskrit Weekly Magazine of DD NEWS Channel, Delhi)
*
Singer :  Sarita Bhave  (as shown in the program) 
Produced by : DD NEWS and Telecast
on 10 Dec. 2016, Saturday at 7 pm. and 11 December 2016, Sunday at 12.30 pm.
Video : YouTube: 
Link 
https://www.youtube.com/watch?v=jNhtc9n76QE  (Sanskrit Version Song) 
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - 
*
Dr. Harekrishna Meher : FaceBook : 
Link 
https://www.facebook.com/harekrishna.meher.7/posts/1640550902637779?pnref=story
*
Watch 'Sanskrit Vaaraavali' : YouTube : 
Link : 
*
Vaartaavali (Separately posted on FaceBook Timeline)
Spardhageet  Ek Pyaar Ka Nagma Hai : 
Link :  
https://www.facebook.com/994742420623516/videos/1124296557668101/
Full Episode ‘Vaartaavali’ : YouTube : 
Link : 
= = = = = = = = =

Original Hindi Song ‘Ek Pyaar Ka Nagma Hai’.
Film : ‘Shor’ (1972) 
Lyrics : Santosh Anand
Music : Laxmikant Pyarelal
Singers: Mukesh and Lata Mangeshkar.
Complete Hindi Song : Youtube : 
Link :  
= = = = = = = = =

Dr. Harekrishna Meher : Devoted to language, literature and music.  
* Videos of Dr.Harekrishna Meher :
Youtube : Link :
= = = = = = = = =

Friday, December 9, 2016

आधुनिक-संस्कृत-वाङ्मये काव्यधारा :Kavya in Modern Sanskrit Literature: Dr.Harekrishna Meher

आधुनिक-संस्कृत-वाङ्मये काव्यधारा
* डॉ. हरेकृष्ण-मेहेरः
‘Ᾱdhunika-Saṁskṛta-Vāṅmaye Kāvya-Dhārā’
Research Article By : Dr. Harekrishna Meher
*
Courtesy :
Published in ‘Prāchī Prajñā’, Sanskrit E-Journal (ISSN 2348-8417), 
Volume-XII (Year-III), December 2016):  Shodha-Manjusha Section
Link :  
= = = = = = = = = =

आधुनिक-संस्कृत-वाङ्मये काव्यधारा 
* डॉ. हरेकृष्ण-मेहेरः

(This article presents a glimpse of various aspects of Modern Sanskrit Literature with some main genres of kavya and their examples. Mahakavya, Khanda-kavya, Lahari-kavya, Giti-kavya, Haiku, Tanka, Sijo, Ghazal, Free-Verse, Novel, Story etc. are discussed here.)

उपक्रमः  
      संस्कृतं भाषाजननी-रूपेण सुपरिचितम् । संस्कृतेन सार्धं भारतीय-सभ्यतायाः भारतीय-संस्कृतेश्च सम्बन्धः नितरामन्तरङ्गो वर्त्तते । भारतवर्षस्य प्रान्तीय-भाषाणां साहित्यानि विशेषेण संस्कृत-साहित्य-द्वारा प्रभावितानि लक्ष्यन्ते । भारतीय-साहित्यस्य मूल-तत्त्वं संस्कृतोपरि प्रतिष्ठितम् । संस्कृतमेका वैज्ञानिक-पद्धति-सम्पन्ना सम्मार्जित-भाषा राजते । आधुनिक-युगे तत्त्वविदां मतेन संस्कृतभाषा सङ्गणक-यन्त्र-(कम्प्युटर्)-निमित्तमुपयोगिनी सर्वोत्तमा भाषा भवितुं शक्यते । भारतीय-संविधानानुसारं संस्कृतम् आधुनिक-भारतीय-भाषा-रूपेण स्वीकृतमस्ति । सम्प्रति संस्कृत-विषये विभिन्न-विद्यालय-स्तरादारभ्य विश्वविद्यालयेषु उच्च-गवेषणा-पर्यन्तं विविधतया पारम्परिकाणां पुनः समकालिकानां काव्य-गीत-नाटक-कथादीनां पाठ्यक्रमाः सन्निवेशिताः सन्ति । अद्यतन-विज्ञान-युगे सङ्गणक-माध्यमेन अन्तर्जाले संस्कृतस्य विविध-क्षेत्रेषु सहस्राधिकाः लेख-सामग्री-समूहाः समुपलभ्यन्ते । देशविदेशेषु शताधिकाः संस्कृत-पत्रपत्रिकाः मुद्रित-रूपेण अन्तर्जाल-पत्रिका-रूपेण च प्रकाशिताः भवन्ति । अन्य-भाषासाहित्य-समूहवत् संस्कृत-साहित्येऽपि निर्वाचित-लेखकेभ्यः केन्द्र-साहित्य-अकादम्या भारतस्य विविध-संस्थाभिश्च वार्षिक-पुरस्कार-सम्मान-प्रदान-व्यवस्था वर्त्तते । प्रसिद्ध-संस्कृत-कविवर्यः आचार्य-डॉ.सत्यव्रत-शास्त्री संस्कृत-भाषायां ज्ञानपीठ-पुरस्कारस्य प्रथम-विजेता विराजते । भारतस्य विभिन्न-भाषासु संस्कृत-सम्बन्धिताः विविधाः पुस्तक-शोधलेखाः समुपलभ्यन्ते । आधुनिक-रूपेण संस्कृत-गीत-नाटकादीनि प्रसार्यन्ते । आकाशवाणी-दूरदर्शनादि-माध्यमेन संस्कृत-वार्त्ता-सहिताः विविधाः सांस्कृतिक-कार्यक्रमाः परिवेष्यन्ते । राष्ट्रीय-वैश्विक-स्तरेषु विविधानि संस्कृत-सम्मेलनानि देशविदेशेषु समनुष्ठीयन्ते । संस्कृतभाषायाम् आदिशङ्कराचार्य-श्रीमद्भगवद्गीता-चलचित्रानन्तरं प्रियमानसम्-नाम्ना आधुनिकं चलचित्रं प्रसारितम् । संस्कृत-सम्भाषण-शिविरादि-माध्यमेन देशविदेशेषु संस्कृतस्य प्रसार-प्रचाराश्चलन्ति । विदेशीय-विश्वविद्यालयेष्वपि संस्कृतोपरि नाना-शोधकार्याणि प्रवर्त्तन्ते ।  कथित-भाषा-रूपेणापि संस्कृतस्य महती भूमिका विद्यते । एवं संस्कृतस्य गतिशीलता प्रगतिशीलताऽपि दर्शनीया ।  

संस्कृते आधुनिक-विषय-प्रसङ्गाः  
        अद्यावधि संस्कृत-भाषा निरन्तरं प्रवहमाना विलसति । युग-रुच्यनुसारं प्रत्येकस्मिन् भाषा-साहित्ये किञ्चित् परिवर्त्तनं परिलक्ष्यते । अधुनातने वैज्ञानिक-युगे संस्कृत-साहित्यस्यापि किमपि परिवर्त्तनं स्पष्टमनुभूयते । केषाञ्चिद् विदुषां मतेन अष्टादश-शताब्द्याः अन्तिम-भागे अथवा ऊनविंश-शताब्द्याः प्रथम-भागे आधुनिक-संस्कृत-साहित्यस्य  प्रारम्भो विचार्यते । संस्कृतस्य बहुमुखी-प्रतिभाशाली कविः गवेषकः साहित्यशास्त्रकारः आचार्य-अभिराज- राजेन्द्रमिश्रो मतं पोषयति यत् आधुनिक-संस्कृत-साहित्यस्य कालः त्रिधा विभाजितो भवितुं शक्यते : पुनर्जागरण-कालः १७८४-१८८४ ख्रीष्टाब्दः, स्थापना-कालः १८८५-१९४६ ख्रीष्टाब्दः, पुनः स्वर्णकालः अथवा स्वर्णयुगः १९४७  ख्रीष्टाब्दात् आरभ्य वर्त्तमान-पर्यन्तम् (द्रष्टव्या : आचार्य-मिश्र-सम्पादिता साहित्य-अकादमी-दिल्ली-द्वारा प्रकाशिता कल्पवल्ली, -पृष्ठायां प्रदत्ता नान्दीवाक्) भारतस्य स्वाधीनतोत्तर-कालादद्यावधि संस्कृतस्य विशेष-प्रगति-समृद्धि-कारणादेव कालोऽयं स्वर्णयुग-रूपेण विविच्यते कतिपय-विद्वांसःसमकालिकः’, समकालीनःअथवा आधुनिकःइति शब्दस्य स्थाने (प्राचीनस्य विपरीतः) अर्वाचीनःइति शब्दस्यापि प्रयोगं कुर्वन्ति ।   

        समकालिक-संस्कृत-साहित्ये युगरुच्या सार्धमन्य-भाषासाहित्यानां प्रभावादपि कतिपय-नूतन-प्रवृत्तीनां समावेशो परिदृश्यते । आधुनिकी दृष्टिभङ्गी, साम्प्रतिके सङ्घर्षमय-समाजे नाना-समस्याः, तासां समाधानार्थं मार्गदर्शनम्, जीवनस्य विविधानुभूतयः, नारी-समस्या, नारी-चेतना, नारी-जागरणं, दुर्नीतिः, भ्रष्टाचाराः,  राजनीतिक-स्थितिः, राष्ट्र-भावना, देशात्मबोधकता, भारतीय-संस्कृते-र्महनीयता, भौतिक-सभ्यतायाः विविधाः दिशाः, पाश्चात्य-सभ्यतायाः अन्धानुसरणं तज्जन्य-विपर्ययश्च, महानगरनिवासिनां निम्नवर्गीय-जनानां च जीवनधारण-पद्धतिः, उच्च-नीचवर्गेषु सङ्घर्षः, सामाजिकं प्राचुर्यं दैन्यं च, कतिपय-स्थलेषु मान्य-परम्परां प्रति उपेक्षा आधुनिकता-परम्परयोः समन्वयः, नवसर्जनायाः समुत्साहः, प्रगतिशील-नव्यशैल्या रचना, सौन्दर्यबोधः,  समकालिक-जीवनप्रवृत्तिः, ग्रामीण-जीवनम्, महाकाव्यादिषु आधुनिकानामादर्श-पुरुष-महिलानां नायक-नायिकात्व-चित्रणम्, उपन्यास-कथादिषु साधारण-मानवस्य मुख्यचरित्र-प्रतिपादनं चेत्यादयो विषयाः आधुनिक-साहित्ये चर्चिताः दृग्गोचरीभवन्ति । परम्परावादः अथवा शाश्वततावादः, आधुनिक-युगानुकूलाः विविधाः रूपकल्पाः,  पाश्चात्यवादस्य प्रभावः, एकबिम्बवादः, प्रतीकवादः, वास्तववादः, परावास्तववादश्चेत्यादीनि नव्य-तत्त्वानि सन्निवेशितानि परिलक्ष्यन्ते । आधुनिक-जीवने विषादभावः, मृत्यु-चेतना, संस्कारधर्मिता, सांस्कृतिक-मूल्यबोधः, नैसर्गिक-सामाजिक-परिवेशः, पर्यावरण-तत्त्वम्, वैश्विक-चेतना, आन्तरराष्ट्रीयता, दार्शनिक-चिन्तनम्, आध्यात्मिकता, धार्मिकता, आस्तिकता, कला-सङ्गीत-दर्शनानां सम्मिश्रणम्, संस्कृते समकालिक-विषय-प्रसङ्गानां प्रयोग-सामर्थ्यं चेत्यादयो नानाविषयाः आधुनिक-संस्कृत-साहित्ये समाविष्टाः सन्ति ।  

आधुनिकी  रचना-शैली
       आधुनिक-दृष्ट्या यदि विचार्यते, आधुनिक-संस्कृत-साहित्यस्य रचनावल्यां भाषायाः सरलतया सह सुबोधता स्पष्टं समवलोक्यते । अत्र जटिलता अथवा क्लिष्टता प्रायो नास्ति । प्रसाद-गुणस्य वैदर्भी-रीतेश्च बाहुल्यं समनुभूयते ।  भाषाभिव्यक्तौ किञ्चित् परिवर्त्तनमपि सञ्जातम् । आधुनिक-युगरुच्यनुकूलं संस्कृत-साहित्यस्य स्वरूपे तस्य रचना-शैल्यामपि भिन्नता दृश्यते, नूतनता च प्रतीयते । रक्षणशीलतायाः स्वल्प-दूरे स्थित्वा संस्कृतस्य आधुनिकीकरण-सरलीकरण-माध्यमेन प्रयोजनानुसारं नूतन-शब्दानां संयोजनमपि दृक्पथे समायाति, येन संस्कृतस्य मूल-स्वरूपे न काचिद् विकृतिः, न च हानिः स्यात् । कतिपये रक्षणशीलाः लेखकाः संस्कृते आधुनिक-शब्द-प्रयोगं भिन्नदृशा पश्यन्ति ।  एवं शब्दं प्रति सुरुचिः अथवा अरुचिः वैयक्तिक-स्तरे एव सीमिता जायते प्रगतिशीलाः लेखकाः संस्कृतस्य मर्यादां सुरक्षितां विधाय लेखनी-चालनायां  तत्पराः विद्यन्ते । आधुनिक-युगे नूतन-वस्तूनामुद्भावना आविष्कारश्च, बहुलोक-प्रचलनं च आधुनिक-शब्द-व्यवहारस्य आधाराः वर्त्तन्ते । अतः संस्कृतेतरासु बहुकथित-भारतीय-भाषासु बहु-प्रचलितानां शब्दानां संस्कृते प्रयोजनानुसारं यथासंभवं सुरुचिपूर्वकं संस्कृतायित-रूपेण, अपरिवर्त्तित-रूपेण अथवा  ईषत्-परिवर्त्तित-रूपेण प्रयोग-करणे नासङ्गतिः प्रतीयते । संस्कृतस्य आधुनिक-प्रयोग-प्रसार-विषये दृक्-पत्रिकायाः २००५-२००६ - वर्षे  प्रकाशितेषु  १३-१४-१५-१६-१७-अङ्केषु विशेषेण चर्चा विहितास्ति

        आधुनिक-साहित्ये अनुप्रासः, उपमा, यमकम्, रूपकम्, श्लेषः, उत्प्रेक्षा, अर्थान्तरन्यासः, स्वभावोक्तिः, काव्यलिङ्गम्, अपह्नुतिश्चेत्यादयः प्रचलिताः अलङ्काराः प्रयुक्ताः समवाप्यन्ते । पारम्परिकैः संस्कृत-च्छन्दोभिः सार्धमाधुनिक-रुच्यनुरूपं कतिपय-विदेशीय-च्छन्दसामप्यन्तर्भुक्तिः साम्प्रतिक-साहित्ये दृक्पथमायाति । भारतस्य अन्यान्य-प्रान्तीय-साहित्यवत् आधुनिक-संस्कृतसाहित्येऽपि विजातीय-काव्य-विधानां छन्दसां संयोजना विहितास्ति  । यथा, जापान-देशीयं हाइकु-छन्दः तान्का-छन्दश्च, पुनः कोरिया-देशीयं सिजो-छन्दः । एतानि त्रीणि स्वस्व-गुणानुसारं काव्यविधाः सन्ति, निर्धारित-वर्णक्रमेण सज्जितत्वात्  छन्दांसि अपि कथ्यन्ते । एतानि सर्वाणि संक्षिप्तत्वात्, सारगर्भकत्वाद् रस-भावोद्दीपकत्वाच्च आधुनिक-संस्कृते अनुकूल-रूपेण प्राप्तस्थानाः वर्त्तन्ते । एतेषां मिश्रितरूपैरपि  आधुनिकाः कविताः प्रणीताः लोक्यन्ते । उर्दू-पारस्य-भाषागता गजल्-गीतिः, आङ्ग्लभाषायाः सॉनेट् अर्थात् चतुर्दश-पङ्क्ति-कविता, संस्कृते मौलिकानि स्वोद्भावितानि विविध-मात्रिक-गीतिच्छन्दांसि, कतिपयानां प्रादेशिक-लोकगीतानां छन्दांस्यपि संस्कृते अन्तर्भुक्तानि सन्ति । हिन्दी-प्रभावात् कुण्डलिया (कुण्डली)-छन्दः, क्षणिका इति कविता-प्रवृत्तिरपि संस्कृते अन्तर्भुक्ता प्रयुज्यते । छन्दो-योजना लेखकस्य रुच्यनुरागोपरि निर्भरं करोति । मुक्तच्छान्दसस्य छन्दोमुक्तस्य वा काव्यस्य बहुलं प्रणयनं साम्प्रतिके संस्कृत-साहित्ये दृष्टिगोचरं भवति ।  लेखकानां वैयक्तिक-रुचौ यद्यपि विभिन्नता विद्यते, तथापि पारम्परिकतायाः आधुनिकतायाश्च समन्वयो विशेषं महत्त्वमर्हति ।   

    ऊनविंश-शताब्द्याः अन्तिम-दशके आधुनिक-संस्कृत-साहित्ये कविः भट्ट-मथुरानाथ-शास्त्री (साहित्यवैभवम्-ग्रन्थस्य प्रणेता), पण्डिता-क्षमारावः, (कथापञ्चकम्, शेवधिः, मीरालहरी चेत्यादीनां कवयित्री) चेत्यादीनां काव्य-कथाकाराणां भूमिका प्रणिधानयोग्या । परवर्त्तिनि काले संस्कृतस्य अनेके प्रतिभाशालिनः कवयः, जानकीवल्लभ-शास्त्री, बच्चूलाल-अवस्थी, बटुकनाथ-शास्त्री, हरिश्चन्द्र-रेणापुरकरः, रामकरण-शर्मा, सत्यव्रत-शास्त्री, वेदकुमारी-घई, श्रीनिवास-रथः, जगन्नाथ-पाठकः, रेवाप्रसाद-द्विवेदी, हरिराम-आचार्यः, कलानाथ-शास्त्री, रमाकान्त-शुक्लः, अभिराज-राजेन्द्र-मिश्रः, शिवजी-उपाध्यायः, रहसबिहारी द्विवेदी, प्रभुनाथ-द्विवेदी, प्रशस्यमित्र-शास्त्री, हरिदत्त-शर्मा, राधावल्लभ-त्रिपाठी, कृष्णदत्त-शर्मा, केशवचन्द्र-दाशः, इच्छाराम-द्विवेदी, दिगम्बर-महापात्रः, पुष्पा-दीक्षितः, भास्कराचार्य-त्रिपाठी, गोविन्दचन्द्र-पाण्डेयः, हर्षदेव-माधवः, हरेकृष्ण-मेहेरः, जनार्दनप्रसाद-पाण्डेयः, बनमाली बिश्वालः, रवीन्द्रकुमार-पण्डा, नारायण-दाशः, अन्ये च बहवो लेखकाः आधुनिक-संस्कृतसाहित्यस्य समृद्धि-गौरव-वर्धनार्थं सहायकाः वर्त्तन्ते ।  

संस्कृत-साहित्यस्य आधुनिकं परिदृश्यम् :  
         प्रस्तुत-लेखस्य मुख्यमुद्देश्यमस्ति आधुनिक-संस्कृत-साहित्यस्य संक्षिप्त-रूपरेखा-समुपस्थापनम्, विशेषतः काव्य-दिशायाः भारतीय-भाषासाहित्येषु यद्वत् नाना-साहित्यिक-विभागाः सन्ति, तद्वत् आधुनिक-संस्कृत-साहित्येऽपि विद्यन्ते । पारम्परिकं महाकाव्यम्, खण्डकाव्यम्, गीतिकाव्यम्, दूतकाव्यम्, चम्पूकाव्यम्, स्तोत्रकाव्यम्,  नाटकम्, कथा चेत्याद्याः रचनाः वर्त्तमान-कालेऽपि प्रणीयन्ते । एतत्सार्धं पूर्वतः अनामिताः विभागाः प्रवृत्तयो वा साम्प्रतिके साहित्ये अन्तर्भुक्ताः सन्ति । लेखेऽस्मिन् विषयाणामेतेषां सामान्य-विवरण-प्रदानार्थं कृतोऽस्ति प्रयासः ।  

     आधुनिक-संस्कृत-साहित्यस्य काव्य-श्रेण्यां महाकाव्यम् (यथा, कवि-सत्यव्रत-शास्त्रिणः बोधिसत्त्व-चरितम्, श्रीराम कीर्त्ति-महाकाव्यं च, रेवाप्रसाद-द्विवेदिनः स्वातन्त्र्य-सम्भवम्, श्रीधरभास्कर-वर्णेकरस्य शिवराज्योदय-महाकाव्यम्, अभिराज-राजेन्द्र-मिश्रस्य वामनावतरणम्, दिगम्बर-महापात्रस्य सुरेन्द्रचरित-महाकाव्यम्), रागकाव्यम् (राधा वल्लभ-त्रिपाठिनः गीतधीवरम्), लहरी-काव्यम् (राधावल्लभत्रिपाठिनः धरित्रीदर्शन-लहरी), चम्पू-काव्यम् (जयकृष्ण- मिश्रस्य मातृमुक्ति-मुक्तावली), मौलिक-नूतनच्छन्दोभिः प्रणीतं गीतिकाव्यम् (श्रीनिवास-रथस्य तदेव गगनं सैव धरा, हरेकृष्ण-मेहेरस्य मातृगीतिकाञ्जलिः), लघुकाव्यं खण्डकाव्यं वा (गोविन्दचन्द्र-पाण्डेयस्य भागीरथी, रामकरण-शर्मणः सर्वमङ्गला), दूतकाव्यम् (रामचन्द्र-अम्बिकादत्त-शाण्डिल्यस्य कामदूतम्, इच्छाराम-द्विवेदिनः मित्रदूतम्), अन्यापदेश-काव्यम् (अभिराज-राजेन्द्रमिश्रस्य आर्यान्योक्ति-शतकम्, बदरीनाथ-शर्मणः अन्योक्ति-साहस्री), स्तोत्र-काव्यम् (श्रीसुन्दरराजस्य बदरीशतरङ्गिणी, विन्ध्येश्वरीप्रसाद-मिश्रस्य महाकालेश्वरस्तुति-पञ्चरत्नम्), हास्य-व्यङ्ग्य-काव्यम् (प्रशस्यमित्र-शास्त्रिणः हास-विलासः), उपनिषदीयम् अथवा दार्शनिकं काव्यम् (हर्षदेव-माधवस्य  प्रकाशोपनिषद्), नव्यशतक-काव्यम् (हर्षदेव-माधवस्य मृत्युशतकम्), मुक्तच्छन्दोबद्धम् अथवा छन्दोमुक्तं काव्यम्  (हर्षदेव-माधवस्य निष्क्रान्ताः सर्वे, हरेकृष्ण-मेहेरस्य अस्रमजस्रम्), हाइकु-सिजो-तान्कादि-काव्यम् (हर्षदेव-माधवस्य ऋषेः क्षुब्धे चेतसि, हरेकृष्ण-मेहेरस्य हासितास्या वयस्या), सॉनेट् अथवा चतुर्दशपङ्क्ति-कविता (वीरेन्द्रकुमार-भट्टाचार्यस्य कलापिका), गजल्-गीतिः अथवा गलज्जलिका (अभिराज-राजेन्द्र-मिश्रस्य  मृद्वीका, शालभञ्जिका च), वासरिक-कविता, कब्बाली (काव्याली)-प्रमुखानि लोकगीतानि (कमलेशमिश्रस्य कमलेश-विलासः), प्रहेलिका-काव्यम् (रामाशीष-पाण्डेयस्य प्रहेलिका-शतकम्), विमान-काव्यम् (प्रभाकर-नारायण-कबठेकरस्य भूलोक-विलोकनम्, रमाकान्त-शुक्लस्य वैमानिकम्, अभिराज-राजेन्द्रमिश्रस्य विमानयात्रा-शतकम्), यात्रा-काव्यम् अथवा भ्रमण-काव्यम् (सत्यव्रतशास्त्रिणः थाइदेश-विलासम्, ओम्प्रकाश-पाण्डेयस्य रसप्रिया पेरिस-राजधानी, रेवाप्रसाद-द्विवेदिनः अमेरिका), चरित-काव्यम् (रामजी-ठाकुरस्य लीलाशुकीयम्), शिशु-कविता अथवा बाल-कविता (दिगम्बर-महापात्रस्य ललित-लबङ्गम्, हरिदत्त-शर्मणः बालगीताली, इच्छाराम-द्विवेदिनः बाल-गीताञ्जलिः), सूक्ति-कविता (हरेकृष्ण-मेहेरस्य सूक्ति-कस्तूरिका) चेत्यादीनि विविध-विभाजनानि आधुनिक-दृष्टिभङ्गी-समेतं समुपलभ्यन्ते ।    

    पारम्परिक-गद्यकाव्यस्य द्विविधं विभाजनं विद्यते, कथा, आख्यायिका चेति । एतत्सार्धमाधुनिकाः नैके विभागाः (विधाः प्रवृत्तयो वा) सन्ति । अत्र वर्त्तन्ते उपन्यासः (यथा रामकरण-शर्मणः रयीशः, केशवचन्द्र-दाशस्य ऋतम्,  कलानाथ-शास्त्रिणः जीवनस्य पाथेयम्, नारायण-दाशस्य वह्नि-वलयः), लघु-उपन्यासः उपन्यासिका वा  (राधावल्लभ-त्रिपाठिनः करुणा), दीर्घकथा (अभिराज-राजेन्द्रमिश्रस्य इक्षुगन्धा, बनमालि-बिश्वालस्य जिजीविषा), लघुकथा (केशवचन्द्र-दाशस्य ऊर्मिचूड़ा, बनमालि-बिश्वालस्य बुभुक्षा, प्रशस्यमित्र-शास्त्रिणः अनभीप्सितम्, रवीन्द्रकुमार-पण्डा-कृता छिन्नच्छाया), टुप्-कथा अथवा लघु-लघुकथा, या आङ्ग्ल-भाषायां शर्ट्-शर्ट् स्टोरी- नाम्ना परिचिता  (प्रमोदकुमार-नायकस्य कथा-सप्ततिः), नव्य-कथा (राधावल्लभ-त्रिपाठिनः अभिनव-शुकसारिका), अरण्य-कथा (अभिराज-राजेन्द्रमिश्रस्य कान्तार-कथा), स्पश-कथा, या आङ्ग्ल-भाषायां डिटेक्टिव् स्टोरीइति कथ्यते (जनार्दन-हेगड़े-कृतः व्यूहभेदः, नारायण-दाशस्य हत्याकारी कः), त्रासद-कथा (नारायण-दाशस्य नरेन्द्रपुरीयं रेलस्थानकम्), हास्य-व्यङ्ग्य-कथा (प्रमोदकुमार-नायकस्य उवाच कण्डु-कल्याणः), शिशुकथा अथवा बालकथा (केशवचन्द्र-दाशस्य  एकता, महान्), यात्रा-वृत्तान्तः (दिगम्बर-महापात्रस्य पाश्चात्य-संस्कृतम्) चेत्यादयः । साम्प्रतिके संस्कृते कथा-शब्द-निमित्तं कथानीइति, कथानिकाइति शब्दोऽपि प्रचलितो दृश्यते   

    आधुनिक-संस्कृत-साहित्यस्य रूपक-श्रेण्यां विद्यन्ते नाटकम् (यथा, रमाकान्त-शुक्लस्य पण्डितराजीयम्), एकाङ्कि-नाटकम् अथवा एकाङ्किका (राधावल्लभ-त्रिपाठिनः प्रेक्षण-सप्तकम्), वीथी-नाटकम् अथवा पथप्रान्त-नाटकम्, यत्  आङ्ग्ल-भाषायां स्ट्रीट् प्लेइति निगद्यते (अभिराज-राजेन्द्रमिश्रस्य चतुष्पथीयम्), रेडियो-नाटकम् (रमाकान्त-शुक्लस्य नाट्यसप्तकम्, देवर्षि-कलानाथशास्त्रिणः नाट्य-वल्लरी), नृत्य-नाटिका (नलिनी-शुक्लायाः पार्वती-तपश्चर्या), गीति-नाट्यम् (भवालकरस्य पार्वती-परमेश्वरीयम्), शिशु-नाटकम् अथवा बाल-नाटकम् (पण्डा-रवीन्द्रकुमारस्य यो मे भक्तः मे प्रियः) चेत्यादयो विभागाः गद्य-साहित्यान्तर्गतायां ललितनिबन्ध-रचनायां भट्ट-मथुरानाथ-शास्त्री, देवर्षि-कलानाथ-शास्त्री, हृषीकेश-भट्टाचार्यः, परमानन्द-शास्त्री चेत्यादीनां सारस्वत-साधकानां लेखनी स्मरणीया ।   

    आधुनिक-संस्कृत-साहित्यस्य गद्य-पद्य-विभागद्वये अनुवाद-साहित्यमपि वर्त्तते । अत्र सन्ति गोविन्दचन्द्र-पाण्डेयस्य अस्ताचलीयम्(आङ्ग्ल-कवितानुवादः), लक्ष्मीनारायण-जोषिणः आङ्ग्ल-रोमाञ्चम् (आङ्ग्ल-कवितानुवादः), जगन्नाथ-पाठकस्य गालिब-काव्यम्, अनन्तत्रिपाठि-शर्मणः यथा ते रोचतेइति शेक्शपियर-नाटकानुवादः,  भागीरथि-नन्दस्य ओड़िआ-भाषातः याज्ञसेनी-उपन्यासानुवादः, हरेकृष्ण-मेहेरस्य ओड़िआ-भाषातः तपस्विनी-महाकाव्यानुवादः, नारायण-दाशस्य ओड़िआतः वात्यासारः-कथानुवादश्चेत्याद्याः कृतयः पाठकसमाजे  परिचिताः ।    

   पारम्परिके काव्यशास्त्र-विभागे मम्मटाचार्य-कृतः काव्यप्रकाशः, विश्वनाथकविराज-कृतः साहित्यदर्पणःइति ग्रन्थद्वयं सुविदितम् । तद्वत् आधुनिक-संस्कृतसाहित्य-विवेचना-पराणि नव्यानि काव्यशास्त्राणि विरचितानि सन्ति । एषु नवीन-काव्यशास्त्रुषु रेवाप्रसाद-द्विवेदिनः काव्यालङ्कार-कारिका, अभिराजराजेन्द्रमिश्रस्य अभिराज-यशोभूषणम्, राधावल्लभत्रिपाठिनः अभिनव-काव्यालङ्कारसूत्रम्, रहसबिहारी-द्विवेदिनः नव्यकाव्यतत्त्व-मीमांसाचेत्यादयो ग्रन्थाः समुल्लेखनीयाः । एतेषु आधुनिक-काव्य-नाटकोपन्यास-कथादीनां लक्षणादि-विवेचन-समेतं विविधालङ्कारिक-तत्त्वानां वर्णनमुपलभ्यते । शृङ्गार-हास्य-करुणादि-नवरसैः साकं बहुपूर्वत एव भक्ति-वात्सल्य-रसयोरन्तर्भवनं दृश्यते । आधुनिक-साहित्ये नव्य-साहित्यशास्त्रिणा रहसबिहारी-द्विवेदिना राष्ट्रभक्तिःइति स्वतन्त्र-रसः प्रतिपादितोऽस्ति ।

     सौन्दर्यतत्त्व-चर्चायां शिवजी-उपाध्यायस्यसौन्दर्यशास्त्रम्’, गोविन्दचन्द्र-पाण्डेयस्य सौन्दर्यदर्शन-विमर्शः, रेवाप्रसाद-द्विवेदिनः सौन्दर्य-पञ्चाशिका, हरेकृष्ण-मेहेरस्य सौन्दर्य-सन्दर्शनम्चेत्याद्याः कृतयः आधुनिक-दृष्ट्या समुपादेयतां वहन्ति । आधुनिक-नव्यानि छन्दः-शास्त्राणि च प्रणीयन्ते । अभिराज-राजेन्द्रमिश्रस्य छन्दोऽभिराजीयम्, रामकिशोर-मिश्रस्य छन्दस्कलावती, हरेकृष्ण-मेहेरस्य मेहेरीय-छन्दोमालाचेत्यादयः कृतयः आधुनिक-छन्दो-व्यवहार-दिशायां नव्यनिर्माणस्य नव्य-समुच्चारणस्य च विशेषत्वं प्रदर्शयन्ति । आधुनिक-संस्कृते काव्य-प्रणयनविषये कवि-गवेषक-साहित्यशास्त्रिणः आचार्य-अभिराज-राजेन्द्रमिश्रस्य मतं प्रणिधेयम् । वर्त्तमान-युगस्य संस्कृतकाव्य-रचना-प्रसङ्गे रक्षणशीलतायाः शैथिल्यं विधाय आचार्य-मिश्रेण आधुनिक-लेखकवर्गं प्रति प्रोत्साहाः प्रदत्ताः । स्वीये अभिराज-यशोभूषणम्इति नव्य-साहित्यशास्त्र-ग्रन्थे  तेन विशदमभिव्यक्तम् :   
हाइकु-तानका-सीजो-सॉनेट-लीरिकादयः ।
काव्यभेदा विजातीयाः प्रणीयन्तेऽधिसंस्कृतम्
आदानं प्रदानं सम्भवत्येव साम्प्रतम्
नैकभाषा-नदीष्णेषु सत्सु संस्कृत-सूरिषु
कवयो नावरोद्धव्या एवंप्रणयिनस्ततः ।  
अभिनन्द्यस्तदुत्साह इत्यभिराज-सम्मतम् ॥
(प्रकीर्णतत्त्वोन्मेषः, कारिका १११-११३, पृ.३१७

  आचार्य-मिश्रस्य आशयः एवं भवति यत् साम्प्रतिके साहित्ये कतिपयाः विजातीयाः काव्यविधाः हाइकु-तानका-सीजो-सानेट्-लीरिक्-प्रभृतयो व्यवह्रियन्ते । अनेन प्रयोगेण अनेकभाषा-प्रवीणेषु विद्वत्सु परस्परं सारस्वत-भाव-विनिमयः सम्भवति । ये कवयो हाइकु-प्रभृति-काव्यविधाराजिमाश्रित्य कवितां रचयन्ति, तेषामुत्साहः अभिनन्दनीयः, तेषां कृते बाधा न विधेया । वस्तुतः प्रवीण-साहित्यशास्त्रिणः आधुनिक-युगचेतनया सह आधुनिकी दृष्टिभङ्गी लेखकानां कृते आन्तरिकीं बह्वीं प्रेरणां प्रयच्छति । 

आधुनिक-संस्कृत-साहित्यस्य कतिपयाः प्रमुख-विधाः  
     साम्प्रतिक-संस्कृत-साहित्यस्य विस्तारः अत्यन्त-विपुलः । सविनयं निवेद्यते यत् प्रस्तुते सीमिते लेखे सकल-वर्गाणामुदाहरण-परिवेषणं न सम्भवति । अत्र पाठकानां समवगत्यर्थं विविध-विभागानां स्वल्पानि उदाहरणानि प्रदीयन्ते । तानि मुख्यरूपेण मूल-पुस्तकेभ्यः, सङ्कलित-पुस्तकेभ्यः, विविध-पत्रपत्रिकाभ्यः, समीक्षा-ग्रन्थेभ्यश्च साभारं गृहीतानि सन्ति ।   

* महाकाव्यम्
   आधुनिक-संस्कृत-साहित्ये पारम्परिक-शैल्याऽपि महाकाव्यानि प्रणीयन्ते । अत्र परन्तु प्रसङ्गानुकूलानां सामाजिक- विषयाणामाधुनिकतायाश्च स्पर्शः समनुभूयते । कवि-सत्यव्रतशास्त्रिणः श्रीगुरुगोविन्दसिंह-चरितम्इति महाकाव्यम् एका समुल्लेखनीया कृतिः । इन्द्रवज्रा-वंशस्थोपजात्यादिभिः पारम्परिकै-र्विविधैश्छन्दोभिः प्रणीतमिदं महाकाव्यम् । उदाहरणस्वरूपम्, महादेव-रुद्रेण सह, महाभारतीय-धनुर्धर-वीरेण अर्जुनेन सहापि उपमां प्रदाय शिख-धर्मगुरोः श्रीगुरुगोविन्द-सिंहस्य वीरत्व-वर्णन-प्रसङ्गे कविना निगदितम् :     
गुरुस्तदा रुद्र इव प्रजानां / संहार-काले भयमादधानः
बाणान् प्रवर्षन् परितः प्रसर्पन् / चञ्चद्-द्विजिह्वानिव भीमरूपान्  
एको बहूनात्त-धनु-र्मनस्वी / व्यनाशयत् तीव्र-बलेन वीरः  
गाण्डीव-धन्वेव रिपोश्चमूनां / चकार घोरं कदनं तत्र (श्रीगुरुगोविन्दसिंह-चरितम्)  

    कवि-हरिनारायण-दीक्षितस्य भीष्मचरितम्-महाकाव्यात् समानीतमेकमुदाहरणम् । सामाजिक-परिवेशे पुत्रीं प्रति हेया दृष्टिः कदापि न विधेया । उभयोः पुत्र-कन्ययोः यथासम्भवमुत्तम-लालन-पालनं शिक्षा-प्रदानमप्यावश्यकं भवति । प्रसङ्गतः उपेन्द्रवज्रेन्द्रवंशामिश्रितेन उपजाति-छन्दसा रचिते श्लोके कवेरभिप्रायो व्यक्तः इत्थम् :  
सुपाठनीयाः सुतवत् सुताऽपि / भेदो विधेयो तत्र कश्चन
गार्हस्थ्य-यानस्य कृते ह्युभाविमा-/वावश्यकौ स्तो रथचक्र-सन्निभौ  
(भीष्मचरितम्/ दृक्, २४-२५ अङ्क, पृ.१९९)

    पण्डित-प्रभुदत्त-शास्त्रिणः गणपति-सम्भवम्-महाकाव्यात् पद्यमेकं प्रस्तूयते । काव्येऽस्मिन् कथास्ति यद्यपि पौराणिकी, तथापि आधुनिक-भारतस्य गणतन्त्र-व्यवस्थाऽपि अत्र सङ्केतिता । गणपति-प्रशासन-चित्रण-माध्यमेन  कविना भारतवर्ष-प्रशासनस्य मार्गदर्शन-प्रयासः संलक्ष्यते । जनगणस्य आन्तरिकाभिलाषः कवि-लेखन्यां व्यक्तीकृत इव प्रतीयते । शार्दूलविक्रीड़ित-छन्दसा प्रणीते श्लोक-द्वये कविः कथयति :  
यस्मिन् दूषक-मूषकोऽपि भजेन् मृत्युं क्षुधा-पीड़ितः /
किं यः स्यान् मनुजो गजेन सदृशो नेता समाजस्य वा /
हस्ते मोदकवान् परं कमलान्निर्लिप्ततां द्योतयेत्
पर्शुं दुष्ट-कृते ते त्वभयितां दध्यादिदं शासनम्
(गणपति-सम्भवम्, ९म सर्ग/ दृक्, अङ्क-, पृ.२८

    कवेः अभिराज-राजेन्द्र-मिश्रस्य जानकीजीवनम्-महाकाव्यादेकमुदाहरणम् रामायणीय-कथामवलम्ब्य कविना आधुनिक-रूपेण सीतादेव्याः जीवन-चरितं वर्णितम् । प्रसङ्गक्रमेण वंशस्थ-छन्दोयोजनया रचिते श्लोके भवन-वर्णना नितरां मनोहारिणी भाति, एकावली नामालङ्कारोऽपि दर्शनीयः । कवेरभिव्यक्तौ :   
तद् गृहं यन् विकीर्ण-गीतकं / गीतकं व्यायत-मूर्च्छनं यत्  
मूर्च्छनं यन् रसाक्त-वाचिकं / वाचिकं यन् सुधा-सहोदरम् (जानकीजीवनम्, /

   कवि-सुभाष-वेदालङ्कारस्य अमेरिका-वैभवम्इति महाकाव्यतः प्रस्तूयते श्लोकः एकः । कविना आत्मनः अमेरिका- यात्रा-सम्बन्धिनी विवरणी अत्र वर्णिता । अमेरिकायाः अटलाण्टा-नगर-वर्णनायां शिखरिणी-छन्दोबद्धं पद्यमीदृशम् :
अहो दृष्टं रम्यं नगरमटलाण्टेति विदितं /
समागत्याकाशादनिल-चपलाद्यानत इह
विमानानां भव्यं स्थलमिदमहो दृष्टि-पतितं /
विशालं सच्चैतन् ननु सुरमणीयं सुखकरम् (अमेरिकावैभवम् / दृक्. २८-२९ अङ्क, पृ.१०४)   

* खण्डकाव्यम्, लघुकाव्यम् :  

   आधुनिक-संस्कृते खण्डकाव्यस्य लघुकाव्यस्य वा प्राचुर्यं समनुभूयते । अस्मिन् प्राकृतिक-वर्णनया सार्धं मानवानां प्राणिनां च विविधानामनुभूतीनां दशानां च सरसं चित्रणं समवलोक्यते । उदाहरण-स्वरूपमत्र कवि-गोविन्दचन्द्र-पाण्डेयस्य भागीरथी’-काव्यतः प्रस्तूयते शिशिर-प्रभातस्य मनोरम-दृश्यमेकम् उपमोत्प्रेक्षालङ्कार-सम्मिश्रणेन इन्द्रवज्राछन्दसा प्रणीते श्लोके वर्णनं विद्यते एवंभूतम् :  
प्राभातिकः शैशिर आतपोऽयं / हासो यथा हर्षित-बालकानाम्  
पद्मायते विश्वमिदं समन्तात् / आलोकपायीनि विलोचनानि (भागीरथी, पृ.७७)  

    कवि-सत्यव्रत-शास्त्रिणः शर्मण्यदेशः सुतरां विभातिइति खण्डकाव्यादेकं पद्यम् । कविना जर्मनी-शब्दस्य कृते संस्कृते शर्मण्य-शब्दस्य प्रयोगः कृतः । अस्य देशस्य शस्यभूमि-पुष्करिण्यादीनां मञ्जुल-चित्रणे उपजाति-छन्दोबद्धः एकः श्लोकः प्रस्तुतोऽस्ति एवम् :  
अकृष्टपच्यं खलु यत्र शस्यं / हृद्यास्तथा शाद्बल-भूमिभागाः
दीर्घाश्चकासत्यथ दीर्घिका सः / शर्मण्यदेशः सुतरां विभाति (शर्मण्यदेशः सुतरां विभाति)   

   कवि-रामकरण-शर्मणः सर्वमङ्गला-कविता-सङ्कलनायाः अन्तर्गतात् निरुत्तर-शतकम्इति काव्यतः प्रस्तूयते उदाहरणमेकम् । मानस-विहारशीलस्य राजहंसस्य क्षुद्र-जलाशये विचरणम्, पुनः काकस्य मानस-सरोवरे सौख्यमय-विहारश्चेत्यादेः योग्यायोग्यता-विचारणा अत्र प्रणिधानमर्हति । पञ्चचामर-छन्दसा प्रणीतं सम्पृक्तं पद्यमीदृशम् :
विरौति राजहंस एष पल्वले विचक्षणः   
परन्तु वायसः सुखं समेधतेऽत्र मानसे
किमस्ति कृत्रिमः क्रमोऽथवाऽस्त्ययं निसर्गजः
समादधानि किं कथं भवाम्यहं निरुत्तरः (निरुत्तर-शतकम्)

    कवि-दिगम्बर-महापात्रस्य रुषिया-शतकम्-काव्यतः एकमुदाहरणमुपस्थाप्यते । रुषिया-देशस्य कला-स्थापत्यानां नितरामाकर्षणीय-सौन्दर्यवर्णनमत्र श्लोके वर्त्तते । वसन्ततिलकाछन्दसा विरचितं तत्पद्यमित्थम्
किं वर्णयानि रुषियां बहुरङ्ग-युक्तां  
स्थापत्य-चित्रबहुला  खलु यत्र शालाः  
सप्राणवत्-प्रतिकृति- प्रचया विभान्ति  
हट्टे चतुष्पद-तटे  स्फुटमेव वाटे (रुषिया-शतकम्/ दृक्, अङ्क-२८-२९, पृ.१०२)

* गीतिकाव्यम् :  
          वैदिकसाहित्यस्य सामवेदात् गीतेर्गीतस्य वा परम्परा सुप्रतिष्ठिता । पारम्परिक-गीतिषु वर्णच्छन्दोबद्धानि  मात्राच्छन्दोबद्धानि च पद्यानि प्राप्यन्ते । आदिशङ्कराचार्यस्य चर्पट-पञ्जरिका-स्तोत्रम् (भज गोविन्दम्), कवि-जयदेव-प्रणीतं काव्यं गीतगोविन्दम्चेत्यादीनि जन-समाजे अद्यापि विशेषेण लोकप्रियतां वहन्ति । आधुनिक-साहित्ये गीतिकाव्यस्य नैकं विभाजनं कर्त्तुं पार्यते, पारम्परिक-वर्णच्छन्दोबद्धा गीतिः, पारम्परिक-मात्राच्छन्दोबद्धा गीतिः, आधुनिक-मौलिक-स्वोद्भावितैः मात्राच्छन्दोभिः प्रणीता गीतिश्चेत्यादिकम् । उदाहरणानि कतिपयान्यत्र परिवेष्यन्ते  

    आधुनिक-गीतिकवेः श्रीनिवास-रथस्य तदेव गगनं सैव धराइति कविता-सङ्ग्रहात् कियदंशः समुल्लेखनीयः ।  आधुनिक-समाजे कलुषित-जीवनस्य दुर्गति-राजिं परिलक्ष्य कविना दुःखित-चेतसा निगदितं यत् जीवन-लता पत्रविहीना कण्टक-बहुला च सञ्जाता, पुनः पुष्पाणां प्रस्फुटनं तु बहुदूरम् । कवि-श्रीरथस्य अभिव्यक्तौ पद्यमिदम् :  
विपत्रितेयं  जीवन-लतिका,
केवल-कुटिल-कण्टकाकलिता,  दूरे कुसुम-कथा  
सूर्ये तपति तमिस्रा प्रभवतिभवति नयनमयथा  ॥ **
युगानुरूपोपाय-चिन्तने,  भवति सर्वदा हृदय-मन्थनम् ।
न केवलं कैकेयी-वचनाज्जगाम रामो वृथा वा वनम् ।
समय-रक्षणं शिलाऽपि कुरुते,  रामायणे यथा ॥ (विपत्रिता)  

    नदीमातृकायाः भारतभूम्याः महनीयता-वर्णनायां कवि-रमाकान्त-शुक्लस्य देशात्मबोधकं गीतं भाति मे भारतम्इत्यस्य प्रस्तूयते कियदंशः । पारम्परिक-स्रग्विणी-छन्दसा रचितेषु पद्येषु कवेः कथनमित्थम्  
जाह्नवी-चन्द्रभागा-जलैः पावितं, भानुजा-नर्मदा-वीचिभि-र्लालितम्
तुङ्गभद्रा-विपाशादिभि-र्भावितं, भूतले भाति मेऽनारतं भारतम् ॥ 
यत्र मन्दाकिनी पाप-संहारिणी, यत्र गोदावरी चारु-सञ्चारिणी
देववाणी यत्रास्ति मोदाकुला, भूतले भाति तन्मामकं भारतम् (भाति मे भारतम्

    कवि-हरिदत्त-शर्मणः उत्कलिकाइति गीति-सङ्कलनायाः ईदृशो भवेयम्- गीतितः कतिपयं पद्यं प्रस्तूयते । बाधा-विघ्नाभ्यन्तरेऽपि मानवस्य सुख-शान्तिमय-जीवनयापनं कामयमानः कविः मार्मिकं निगदति एवंरूपेण :
इच्छामि जीवनं तत्, यस्मिन् सुखं वसेयम्
वाञ्छामि सुस्थलं तत्, स्वैरं यतः श्वसेयम् ॥  
ईर्ष्यानले दाहः, हृदि मे सुधाप्रवाहः,
निष्कारणं विरोधे  निजवैरिणं शमेयम्
विपदां भवन्तु वाताः, बहुदुःख-शोकघाताः,
कुसुमास्तरण इवाहं  कण्टक-पथे चलेयम्
           (ईदृशो भवेयम्/ कल्पवल्ली, पृ.४५१-४५२/ नखदर्पणः, पृ.२२-२३)   

    कवि-भास्कराचार्य-त्रिपाठिनःवसन्त-माधुरी-कवितायाः कियदंशः परिवेष्यते । कुसुमानां मधुरिमा, प्राकृतिक- विभावानां वर्णाली चेत्यादि-प्रसङ्गे कवेर्लेखनी सुन्दरं चित्रयति एवंप्रकारकम् :   
पुष्प-कोरकेषु नीलिमा विलोक्यते,  कीदृशी वसन्त-माधुरी  
सरांसि वापि-पल्वलानिनक्र-बाष्प-सङ्कुलानि
पङ्क-सङ्करेण सावनी विधीयतेकीदृशी वसन्त-माधुरी
तुषार-झञ्झया चिरस्यचेष्टितं तथा विहस्य,  
वर्ण-भिन्नता तृणे तृणे विराजते,  कीदृशी वसन्त-माधुरी  (वसन्त-माधुरी/ कल्पवल्ली, पृ.३५७)  

    मानव-जीवनस्य सांसारिकमनुभूतिराशिं वर्णयतो हरेकृष्ण-मेहेरस्य स्वोद्भावित-मौलिक-मात्राच्छन्दोबद्धात् मातृगीतिकाञ्जलिःइति गीतिकाव्यात् कियदंशः प्रस्तूयते । नैसर्गिक-सौन्दर्य-सम्पन्नस्य भारतवर्षस्य स्वाधीनतां  राष्ट्रचेतनां च विचार्य कवेरभिव्यक्तिरित्थम् :   
अम्बुधि-विधौत-सुमधुर-चरण-विलासा,  
गङ्गा-सलिले  सलील-सुललित-हासा  
कुसुमारामे  रसभर-सुरभि-समीरा,  
तरुवर-पुञ्जे  रञ्जित-मञ्जु-शरीरा ।   
विहङ्ग-ताने         मङ्गल-गाने 
श्यामल-शस्या विजयते,
भारतमाता परम-नमस्या विजयते   
स्वतन्त्रताया रणवीराणां  सफल-तपस्या विजयते ॥
      (देश-गीतिका/ मातृगीतिकाञ्जलिः, पृ.११३)   

  देवर्षि-कलानाथशास्त्रिणः नवयुग-शिशोः स्वागतम्इति कवितायाः कतिपय-पद्यानि प्रस्तूयन्ते । नवसहस्राब्द्याः प्रारम्भे लब्धजनिं मानव-शिशुं प्रति सम्बोधनात्मिकायामस्यां गीत्यां कवेरभिव्यक्तिः समुत्साहप्रदा । आधुनिक-ज्ञान-विज्ञानानां सदुपयोगं कृत्वा स शिशुः संसारे शान्ति-समृद्धिं समानेष्यति, प्राच्य-सदाचार-प्रतिष्ठां करिष्यति इति कवे-र्मनसि आशा वर्त्तते । तस्य मात्राच्छन्दोबद्ध-पद्यरूपायां वर्णनायाम् :   
वर्षसहस्राणां विज्ञानं चरतु तवाद्य नु दास्यम्,
प्राचां सच्चरितान्यनुहर रे यच्छ्रेयस्तदुपास्यम् ।
प्राक्तन-बीजै-र्नवपल्लविनीं फलिनीमृद्धिं जित्वा,
निखिल-धरणितल-लभ्य-ज्ञाननिधेः सुफलानि च चित्वा ॥
आरोक्ष्यसि तुङ्गं प्रासादं यं स्रष्टुं वाञ्छामः ।
यस्याधार-भित्ति-निर्माणायाद्य वयं श्राम्यामः ॥
    (नवयुगशिशोः स्वागतम्/ कल्पवल्ली, पृ.२८१)

    कवि-दिगम्बर-महापात्रेण उत्कलीय-लोकनृत्ये प्रयुक्तैः कतिपय-च्छन्दोभिः व्यङ्ग्य-कवितानां प्रणयनं कृतम् । तस्य  व्यस्तरागम्-कविता-सङ्ग्रहात् प्रस्तुतमस्ति एकमुदाहरणम्  । पक्वकेश-वरेण साकं कुमारी-कन्यायाः परिणय-प्रसङ्गे गीतिमये पद्ये कवेः कथनमीदृशम् :
रोदिति रहो दुहिता / सदने जननी सदा चिन्तिता / एष्यति कदा जामाता
वारि नास्ति वारिवाहे / जामाता भवति पलित-केशः/
कुमारी क्रन्दति गृहे  (व्यस्तरागम्पृ.४४श्रद्धा,अङ्कः ३-पृ.९१)  

लहरी-काव्यम् 
       लहरी-काव्यं खण्डकाव्यस्यान्तर्गतं भवति, राग-काव्यं च । गायन-योग्यत्वात् गीतिकाव्येऽपि द्वयोरेतयोरन्तर्भवनं समीचीनम् । आधुनिक-काव्यशास्त्री आचार्यः अभिराज-राजेन्द्र-मिश्रः मतं पोषयति यत् लहरी-काव्यस्य प्रतिपाद्यं लहरीवद् भवति । समुद्रे यथा लहर्यः परस्परं संलग्नाः विद्यन्ते, भङ्गीराशिं जनयन्त्यः अभिन्नाः प्रतीयन्ते, तद्वत्  लहरी-काव्ये भक्ति-शृङ्गारादि-विषयाः अन्य-प्रवृत्तयश्च परस्पर-भिन्नत्वेऽपि मूलभावं परिपोषयन्ति (द्रष्टव्यम् : अभिराज-यशोभूषणम्, पृ. २२६) पारम्परिक-काव्येषु आदिशङ्कराचार्यस्य सौन्दर्य-लहरी, पण्डितराज-जगन्नाथस्य गङ्गा- लहरी, करुणा-लहरी लक्ष्मी-लहरी चेत्याद्याः सुपरिचिताः । आधुनिक-संस्कृते पण्डिता-क्षमाराव-कृतं मीरा-लहरी-काव्यमुल्लेखनीयमस्ति, यत्र कृष्णोपासिकायाः मीरायाः जीवनगाथा वर्णिता ।   

   लहरी-शब्देन सम्पृक्तं काव्यं समुद्र-लहर्या अथवा नौकया सार्धं सर्वदैव सम्बद्धं स्यादिति विषयो न भवति । प्रस्तुत- प्रसङ्गे कवि-राधावल्लभत्रिपाठिनः लहरीदशकम्इति काव्यात् पङ्क्तिरेका उदाह्रियते । विमानयात्रावेलायां नभसः उपरिभागात् निम्नस्थितां पृथिवीं विलोक्य कविना स्वानुभूतिः प्रकाशिता । मन्दाक्रान्ता-छन्दोबद्धं पद्यमेकमीदृशम् :    
गत्वा चोर्ध्वं वियति विपुलेऽसौ विमानो ललम्बे  
निःस्तब्धत्वं गत इव यथा विस्मृत-श्वास आसीत् ।  
नो संसर्पन् नियतगमनः पृष्ठतश्चाग्रतो वा   
विश्वामित्र-प्रतिहत-रयः संपतन् वा त्रिशङ्कुः (धरित्रीदर्शन-लहरी

    विविध-साहित्येषु नदी-समुद्र-नौका-नाविकादि-सम्बद्धानि नैकानि गीतानि दृक्पथमवतरन्ति । आधुनिक-संस्कृतेऽपि तादृशानि गीतानि भवन्ति । यथा, कवि-त्रिपाठिनः गीतधीवरम्इति काव्यात् पङ्क्तिरेका प्रस्तूयते :   
लहरीषु मया गीति-र्लिखिता, रचिता नूतन-शब्दतरी   
छन्दःसु मया जगती रचिता, कलिता नूतन-भाव-झरी (धीवर-गीतयः)      

अपरमेकं नौका-सम्बद्धमुदाहरणं तस्मादेव कवि-त्रिपाठिनः गीतिकाव्यात् :  
नौकामिह सारं सारम्, गन्तास्मि कदाचित् पारम्
उत्तीर्णः स्यामपि मन्ये, पारावारमपारम् (गीत-धीवरम्

    कवि-हरिराम-आचार्यस्य मधुच्छन्दा-कविता-सङ्ग्रहात् कैवर्तक-गीतम्इत्यस्य कियदंशः प्रस्तूयते । जीवनं समुद्रस्य जल-धारा-रूपेण वर्णयता कविना नाविक-मुखे प्रकाशितम् :   
जीवनमस्माकं  रे, सागर-जलधारा 
स्पन्दनमस्माकं  रे, सागर-जलधारा    
वरुणालय-गमनं नो - हैया हो हैया,  
नौकानामयनं नो - हैया हो हैया,
अशनं नो वसनं नो, रात्रौ सुख-शयनं नो,
धरतीयं धात्रीव सागर-जलधारा 
(कल्पवल्ली, पृ.२६२-२६३ / दृक् २४-२५ अङ्कः, पृ.१०२)

* संस्कृत-हाइकु-कविता :
    हाइकु-कविता-संरचनायां ---वर्णक्रमो भवति । कविः हर्षदेव-माधवः आधुनिक-संस्कृतसाहित्ये हाइकु-छन्दसः प्रथम-प्रवर्त्तकः स्वीक्रियते । त्रिपादयुक्तं  हाइकु-छन्दस्तेन बिल्वपत्र-रूपेण चित्रितम् । कवेर्माधवस्य ऋषेः क्षुब्धे चेतसि (हाइकु-तान्का-सिजो-कविता-सङ्ग्रहः)-काव्यात् हाइकु-कवितायाः नैसर्गिक-चित्रसम्पन्नं रम्यमुदाहरणमेकम्
उद्याने ज्योत्स्ना / विगलितं सौन्दर्यं / पारिजातानाम् (ऋषेः क्षुब्धे चेतसि, पृ. ५५)

    सामाजिक-समस्यामधिकृत्य हरेकृष्ण-मेहेरस्य हासितास्या वयस्या (हाइकु-सिजो-तान्का-सङ्कलना) इति काव्यात् हाइकु-कवितायाः उदाहरणमेकं प्रस्तूयते । वात्या-ग्रस्तानां कृते प्रदत्तानां सहायता-राशिद्रव्याणां धूर्त्तगण-कृतं लुण्ठन-विषयमुद्दिश्य कवेरुक्तिरेवम् :
आयाति वात्या / गृध्राणां मधुमासः/ अर्था उड्डीनाः (हाइकु-कविताः/ हासितास्या वयस्या)       

    प्रयागतीर्थे कुम्भस्नान-जनितं पुण्यलाभ-पापनाश-प्रसङ्गं समानीय रचिता कवि-बनमालि-बिश्वालस्य एका हाइकु-कविता एवंप्रकारा :
ददाति पुण्यं / त्रायते कृतपापं / प्रयागे स्नानम्  (महाकुम्भलहरी, पद्यबन्धाअङ्क--, पृ.१००)

   सम्प्रति अन्तर्जालयुगे सङ्गणक-यन्त्रमधिकृत्य एका हाइकु-कविता कवि-नारायण-दाशस्य लेखनीतः समुपस्थाप्यते : आन्तर्जालके / प्रीति-मेल-पत्रकम् / ईहे मूषकः (पद्यबन्धाअङ्क--, पृ.१०३)

* संस्कृत- तान्का-कविता :  
    तान्का-कविता-संरचनायां भवति ५-----वर्णक्रमः । इयं तान्का हाइकु-छन्दसः सम्प्रसारणमेकमिति वक्तुं शक्यते । निसर्ग-सौन्दर्य-वर्णनायां कवि-हर्षदेव-माधवस्य तान्का-कवितायाः मञ्जुलमुदाहरणमेकम् :
सर्षप-क्षेत्रम् / पीतपुष्प-रञ्जितं / भाति सुन्दरम् / लग्नोत्सुक-कन्यायाः / हरिद्रासिक्तं गात्रम्
(ऋषेः क्षुब्धे चेतसि, पृ. ६८)
तस्यैव कवि-माधवस्य अपरैका दीप-प्रणय-विषयिणी तान्का प्रस्तूयते :  
भाति युवतिः / दीपावली-दीपानां / द्युति-मण्डिता । प्रज्वलिते च नेत्रे / प्रियतम-स्नेहेन ॥
(ऋषेः क्षुब्धे चेतसि, पृ. ५८) 

    तान्का-कवितायाः उदाहरणमेकं हरेकृष्ण-मेहेरस्य हासितास्या वयस्या-काव्यात् । साम्प्रतिक-समाजे बाह्य- चाकचक्यं पुनराभ्यन्तर-शून्यतां च निरीक्ष्य  कवेरभिव्यक्तिरेवंविधा
कर्गज-पुष्पं / मध्येमार्गं मञ्जुलं / निर्गन्धं भाति /
आधुनिकी सभ्यता / उपभोग्य-दर्शना (तान्का-कविताः/ हासितास्या वयस्या) ।  

  अपरमेकमुदाहरणं कवेर्मेहेरस्य लेखनीतः आधुनिके यान्त्रिक-युगे अनिवार्य-वस्तुरूपा विद्यते चल-दूरभाषिका । तद्यन्त्र-प्रसङ्गमानीय एका तान्का-कविता प्रस्तूयते :  
जगन्मोहिनी / वशीकरोति विश्वं / प्रकामं काम्या / भ्राम्य-दूरभाषिका / स्वाधीन-भर्त्तृकेव ॥ 
(तान्का-कविताः/ हासितास्या वयस्या)

  अत्राशयः एवं यत् स्वाधीनभर्त्तृका नायिका स्वमोहिनी-शक्त्या यथा स्वामिनं सदा स्ववशं नयति, तथा चल-दूरभाषिका अर्थात् मोबाइल्-फोन् साम्प्रतं निज-सम्मोहिन्या विश्वं अर्थात् सर्वं ग्रहीतारं  वशीभूतं करोति । नायिका स्वामिनः प्रणयानुरागेण समभिलषिता भवति, इतो दूरभाषिकाऽपि ग्रहीतु-र्जनस्य नितान्तमीप्सिता ।

* संस्कृत- सिजो-कविता :  
    सिजो-कविता-संरचनायां ८------वर्णक्रमो विद्यते । सिजो-कवितायाः प्रस्तूयते पङ्क्तिरेका कवि-हर्षदेव-माधवस्य काव्यात् । यातायात-सङ्कुले संसारे जीवनस्य क्षणिकमनित्यं दुःखं विचार्य मानवस्य कृते सान्त्वनां प्रदाय कविः कथयति :  
वृक्षेभ्यः कानि पर्णानि / पतितानि शीर्णानि ? / नदीभ्यः कानि जलानि / आगतानि गतानि ? /
त्वमेव मूढ़ ! रोदिषि / लघुकानि दुःखानि (ऋषेः क्षुब्धे चेतसि, पृ.७२)

  सिजोकवितायाः अन्यदुदाहरणं कवेर्माधवस्य । स्वस्य जागतिकीं स्थितिं कल्पयता कविना कथ्यते :
इयं नौका किं नेष्यति / मां गाढ़-जलपारम् ?/ विचिन्तयामि मनसा / इत्थं किं वारंवारम् ? / कदा पर्यन्तं स्थास्यामि / पश्यन् मां निराधारम् ? (ऋषेः क्षुब्धे चेतसि, पृ. ७४

    सिजो-कवितायाः एकमुदाहरणं हरेकृष्ण-मेहेरस्य काव्यतः । जगत्यां कुकर्मणां कुपरिणामः समयानुसारं नूनं भुज्यते । समाजे धूर्त्तानां लोकधन-शोषकाणां भ्रष्टाचारिणामवस्था शोचनीया भवत्येव । विषयेऽस्मिन्  कवेरभिव्यक्तिरियम्  :  
चूषति दुर्नय-लिप्तः / वित्तं लोक-सञ्चितम् / विधृतः कारा-पतितः / उत्कण्ठितो मत्कुणः / जाग्रतस्य रसास्वादी / पादेन व्यापादितः (सिजो-कविताः/ हासितास्या वयस्या) । 

   आधुनिकतायाः परम्परायाश्च समन्वय-विषयमधिकृत्य अपरैका सिजो-कविता कवि-मेहेरस्य लेखन्याः प्रस्तूयते : आधुनिकता-प्रसूनम् / परम्परा-वल्लर्याः / भित्तिवारि-संवर्धिता / अभिनवा प्रसूतिः/ मौलिकता-सुरभिता / युगरुचि-स्फुरिता  (सिजो-कविताः/ हासितास्या वयस्या)  

* संस्कृत -गजल्  (गलज्जलिका) :  
    उर्दू-गजल्-गीति-प्रभावात् आधुनिक-संस्कृते गजल्-गीतिः स्वान्तमोहक-रूपेण लभ्यते । मात्रासंख्या-भेदेन गजल्-गीतिः बहुप्रकारा । नव्य-काव्यशास्त्रिणा आचार्य-अभिराज-राजेन्द्रमिश्रेण संस्कृत-गजल्-गीतिः गलज्जलिका-नाम्ना नामितास्ति । तस्य त्रिवेणीकवेः मत्तवारणीइति गजल्-काव्य-सङ्कलनायाः कियदंशः प्रस्तूयते । साधारण-मानवस्य परोपकारितादि-समुदात्त-भावनायाः सामाजिक-समुपादेयता-प्रसङ्गे कवेः षोड़श-मात्रिका गलज्जलिका प्रणिधेया :  
नाहमस्मि सूर्यो, दीपोऽहम्,  मनोराज्य-धरणीपोऽहम्   
सिन्धोरिव न मे विस्तारः,  सर्वसुलभ-मृदुजल-कूपोऽहम्   
चन्दनवन-सुरतरुरपि नाहम् घनच्छाय-जनपथ-नीपोऽहम् 
अलमिह मम निष्ठा परीक्षया,  तनुमपि दास्यामि दिलीपोऽहम्  ॥  (मत्तवारणी

     कवयित्र्याः दीक्षित-पुष्पायाः लोकोऽयम्इति गजल्-गीतेः कियदंशः उदाहरण-स्वरूपम् । सामाजिक-व्यापारे प्रेमिजनं प्रति उदासीनता, साधुजनं प्रति मूर्खस्य शत्रुताचरणं चेत्यादि-विषयाणां प्रसङ्गे तस्याः गीतोक्तिरेवंविधा :   
जने प्रेमप्लुते ताटस्थ्यमाबध्नाति लोकोऽयम् ।  
तटस्थे प्रीतिमाधातुं सयत्नो भाति लोकोऽयम् ॥   
अवैरे सज्जने निष्कारणे वैरायते मूढ़ः,  
जने दुर्दान्त-दौरात्म्त्ये कुलीनो भाति लोकोऽयम् ॥(लोकोऽयम्, कल्पवल्ली, पृ.३९५)      

     कवेः इच्छाराम-द्विवेदिनः धनुस्ते कीदृशम्इति प्रणय-परकायाः गजल्-गीतेः कतिपय-पङ्क्तयः समास्वादनीयाः । शर-सन्धानं विनापि प्रेमासक्तं हृदयं कीदृशं क्षताक्तं भवति, तत् कवेरभिव्यक्तितो ज्ञायते  उदाहरण-स्वरूपम्
धनुस्ते कीदृशं कियदद्भुतं बन्धोकथं जाने ?   
विना नाराच-सन्धानं  व्रणं कुरुते  कथं जाने ?
मया शास्त्रे श्रुतं  मन्दस्मितै-र्नन्दन्ति सत्पुरुषाः,  
मनो दूयते ते  सुस्मितै-र्बन्धोकथं जाने  ? (धनुस्ते कीदृशम्, कल्पवल्ली, पृ.५७०)   

     कवि-बच्चूलाल-अवस्थिनः गजल्-गीतेः एकमुदाहरणं प्रस्तूयते । साम्प्रतिके समाजे मानवस्य वचने आचरणे च कीदृशी भिन्नता दृश्यते, कवि-कृतौ सा प्रतिफलिता इत्थम् :  
अर्जितानां समर्जनं भूयः । नार्जवं किन्तु कर्जनं भूयः  
अद्य केयं दशास्ति मेघानां , वर्षणं नैव गर्जनं भूयः ॥  
भस्मसाद् भावयन्ति का हानिः,  भर्जितस्यैव भर्जनं भूयः  
व्याकुलोऽर्थः  क्व याति  क्व चिन्ता,  शब्दजालस्य सर्जनं भूयः (अभिराज-यशोभूषणम्, पृ.२९३)  

     कवि-जगन्नाथ-पाठकस्य पिपासा-काव्याद्  एकस्याः गजल्-गीतेः कियदंशः परिवेष्यते । निःसङ्गतायाः अपरेषां च सम्बन्धानां विषये कविना वर्ण्यते :
सार्धं हन्त कोऽपि गतः  सर्वतो मया  आसादितो कोऽपि निजः  सर्वतो मया
एकाकिनो जनस्य हि  दिवसा यान्त्यमी,  एवं यापितो दिवसः  सर्वतो मया  
आत्मीयतां गतेऽपि सकलेऽपि कोऽप्यहो,  नैव श्रुतो मदीय-जनः  सर्वतो मया  
(पिपासा/ अभिराज-यशोभूषणम्, पृ.२९५)  

    कवि-जनार्दनप्रसाद-पाण्डेयस्य एका गजल्-गीतिः प्रस्तूयते । आधुनिके कलियुगे राजनीतिक-परिवेशे कृष्णगीतां धृत्वा मिथ्या-शपथकारिणां हरिनाम-विस्मरणकारिणां च कृते कविना सकटाक्षं निगदितम् :  
केवलं श्रोत्रविनोदं विचिन्त्य सत्कुरुषे ।
गीतिका तेऽस्मि शताब्द्या न पक्ष्मभिश्चिनुषे ॥
कृष्णगीताऽपि वृता हा ! त्वयाऽनृते शपथे ।
गोखुराङ्कस्थ-जलाब्धौ निपत्य न म्रियसे ॥
राजनीतेस्तु महापङ्किले विलास-रसे ।
प्राप्त-निर्वाण-सुखस्त्वं प्रभुं न चेतयसे ॥ (अभिराज-यशोभूषणम्, पृ.२९६

* मुक्तच्छान्दस-कविता :  
      मुक्तच्छान्दसं काव्यम् अथवा छन्दोमुक्ता कविता अन्य-प्रान्तीय-भाषासाहित्येषु यद्वत् समुपलभ्यते, आधुनिक- संस्कृतसाहित्येऽपि विपुलं दृष्टिपथमवतरति । लौकिक-संस्कृते आधुनिक-संस्कृते च पारम्परिक-दृष्ट्या प्रायः पिङ्गल-श्रुतबोध-छन्दोमञ्जरी-वृत्तरत्नाकर-प्रभृतिषु छन्दःशास्त्रेषु प्रतिपादितै-र्विविधैरार्यादि-मात्राच्छन्दोभिः अनुष्टुप्-वंशस्थ-स्रग्विणी-शिखरिणी-प्रभृति-वर्णच्छन्दोभिश्च प्रणीताः श्लोक-रूपाः कविताः विलोक्यन्ते । आधुनिक-संस्कृत-साहित्यस्य अन्यदेकं विशेषत्वं भवति मुक्तच्छन्दसः प्रयोगः । विषयेऽस्मिन् सामान्य-चर्चा समीचीना ।    

   विदेशीय-साहित्यानां भारतीय-प्रान्तीय-साहित्यानां च प्रभावेण आधुनिक-संस्कृत-साहित्ये मुक्त-च्छन्दसाऽपि  रचिताः कविताः समवलोक्यन्ते । नाट्यशास्त्रकारेण भरतमुनिना साधु वर्णितम् :
छन्दोहीनो न शब्दोऽस्ति न च्छन्दः शब्दवर्जितम् ।  
तस्मात्तूभय-संयुक्ते नाट्यस्योद्योतके स्मृते ॥(नाट्यशास्त्र, १४/४०)  
  नाट्यशास्त्रस्य उक्तिमेतामवलम्ब्य आधुनिक-काव्यशास्त्री अभिराज-राजेन्द्र-मिश्रः मतं पोषयति यत् पद्येतरे गद्येऽपि छन्दोमयता विद्यते । उभयोः गद्य-पद्ययोः रसवत्ता-भरितं भवति छन्दोमुक्तं काव्यम् । गद्य-पद्ययो-र्द्वयो-र्जीवातुं धारयति छन्दोमुक्तं वाङ्मयम्, यत् पद्यात्मक-लय-द्वारा गद्य-विधायां लिख्यते । छन्दोमुक्तं काव्यं वस्तुतो लयवाहि गद्यमेव । आङ्ग्ल-भाषायामेतद् रिद्मिक् प्रोज्‍’ इति कथ्यते । (द्रष्टव्यम्: अभिराज-यशोभूषणम्, पृ. ३०२-३०३)  

    मुक्तच्छन्दोबद्धा कविता प्रायः उपधामिलन-रहिता भवति । अस्याः प्रत्येक-पङ्क्तिः असमान-वर्णसंख्याका । व्यक्तिरुच्यनुसारं पुनः व्यवहित-रूपेण अव्यवहित-रूपेण च मित्राक्षरयुक्तः अर्थात् उपधामिलन-सहितोऽपि भवति मुक्तच्छन्दोव्यवहारः । उदाहृत-पङ्क्तिषु एवंभूत-प्रयोग-स्पष्टता समनुभूयते । कवेः अभिराज-राजेन्द्र-मिश्रस्यचर्चरी-कविता-सङ्ग्रहात्  प्रस्तुतमस्ति एकमुदाहरणम् :
   अभिलषामि यद् राज्ञा पृष्टोऽहमपि / जाबालि-श्रावितां / मदात्मकथां / समुपवर्णयेयं / शापमुक्तश्च भवेयम् / म्रियेत शूद्रकः / जीवेच्चन्द्रापीड़ः / विलसेत् कादम्बरी / म्रियेत शुक-शावको / जीवेद् वैशम्पायनो / विलसेन् महाश्वेता / अभिलषामि (अभिलाषः, कल्पवल्ली, पृ.३७१-३७२)  

    कवेः रेवाप्रसाद-द्विवेदिनः अहं स्वतन्त्रःइति कवितायाः कियदंशः । साम्प्रतिक-समाजे स्वाधीनता-नाम्ना प्रवर्त्तित-स्वेच्छाचार-विषये कविः सव्यङ्ग्यं कथयति :
    अहं स्वतन्त्रः/ परं निन्दितुं / यदि वात्मानं स्तोतुम् / तर्पयितुं मम मानस-गृध्रं / पोषयितुं मम कायम्  / धातुमात्र-संकायम् / अहं स्वतन्त्रः / परस्य कण्ठे करपत्रं चालयितुं / अर्थः सिध्यतु  न वा मदीयः / परस्य मार्गं रोद्धुं/ जन-नेतृत्वं बोद्धुं  / बहुमत-लब्ध्यै यथाकथञ्चित्/ कूटगवीमपि दोग्धुम् (अहं स्वतन्त्रः, कल्पवल्ली, पृ.२४८)    

    कवि-कमलेशदत्त-त्रिपाठिनः योरोपा-कवितायाः प्रस्तूयन्ते कतिपय-पङ्क्तयः । पाश्चात्य-देशे सुख्यातायाः वीनस-देव्याः  प्रसङ्गमाश्रित्य कविः जिज्ञासां प्रकाशयति :  
   योरोपे ! काऽसि त्वम् ?/ **  रोमकवीराणां प्रवेशैः / परिकम्पितानां सौधानां शिखरेषु / उपर्युपरि सञ्चरन्ती तन्वी / दुग्ध-धवलाङ्गानि वहन्ती / माधुर्य-रससार-समुद्र-तरङ्गभङ्गीव / वीनसाख्या देवी / सविस्मयं विलोकिता / अपि नाम सैवाऽसि त्वम् ?(योरोपा/ नखदर्पणः, पृ.२८)

   रात्रि-वेलायाः विविध-स्वरूपवर्णने कवि-केशवचन्द्र-दाशस्य ईशा-कवितासङ्कलनात् कियदंशः एवम्  : 
   रजनी विजनीभवति / एकाकिनी गृहिणीव / हेमन्तस्य शिशिर-बिन्दवे / तारका करकायते/ व्यथा कथामारभते / अवितथं प्रथयितुम् / यथाकथञ्चित् / समाप्ति-सोपाने / रेलस्थाने / जन-सम्मर्दस्य उत्थाने पतने ॥
(रजनी विजनीभवति)
स्वीय-जागतिक-स्थिति-विषये कवि-दाशस्य ईशा’-कवितासङ्ग्रहाद् अन्यदेकमुदाहरणम्  : 
नाहं निक्षिप्त-कन्दुकः/ प्रत्यागमिष्यामि / भूतलं संस्पृश्य / परमेको मिमिलिषुः / आषाढ़स्य़ बिन्दुः (ईशा)

     कवि-हर्षदेव-माधवस्य कृषीबलः- कवितायाः कियदंशः । कृषकस्य सामाजिक-दुर्दशां तस्य महनीयतां च निरीक्ष्य कविः हृदयस्पर्शि-रूपेण वर्णयति :
 कृषीबलः स्वभाग्यं वपति / दुर्भाग्यं प्ररोहति ।/ * तस्य नत-कन्धरयोरस्ति / देशस्य श्वस्तन-सूर्योदयः / यदा कृषीबलः पञ्चत्वं गमिष्यति / तदा भविष्यति सः / जलद-भारनतं व्योम / सूर्यस्य मसृणातपः / तिलपुष्प-सुरभिहरः पवनः / इक्षुदण्डानां रसः / अपि   प्रथम-वर्षास्पर्श-पुलकिता / क्षेत्र-मृत्तिका (निष्क्रान्ताः सर्वे, पृ.१३१-१३२)  
    कवि-माधवस्यप्रकाशोपनिषद्इति दार्शनिक-काव्यात् प्रकाशस्य विविधवर्णात्मक-चित्रण-विषये प्रस्तूयते एकमुदाहरणमेवम्  :
  ‘अरुणाभा-स्नाता / प्रकाश-करुणा / स्नापयति माम् । / पाटलोज्ज्वला द्युतिः/ मण्डयति मे मृत्तिकाम् ।/ तड़ित्-पिशङ्गा तेजोरतिः / रञ्जयति मे तमः । / आकाशगङ्गा-धवलार्चिमाला / गमयति गगनं मे प्राणान् ॥ (प्रकाशोपनिषद्     

     हरेकृष्ण-मेहेरस्य जीवनालेख्यम्-काव्यस्य अन्धानुसन्धानम्-कवितायाः एकमुदाहरणम् । आधुनिके कलुषिते समाजे नारी-दुर्दशा-वर्णनेन सार्धं कविना रामायण-महाभारत-गतानां खल-चरित्राणामवतारणा कृतास्ति । साम्प्रतिक-युगेऽपि नारीमर्यादाहानि-विषये कवेरभिव्यक्तिरीदृशी :
  अद्यापि भ्रमन्ति रावणाः / बहुवैदेही-हरण-प्रवणाः ।/ कुर्वन्ति द्रुतमुपद्रवं जयद्रथाः / पर-दारापहरणार्थं समारूढ़-रथाः ॥/ बाष्पपूर्णाश्चतुश्पद्यः / अद्यापि खिद्यन्ते समुपद्रुता द्रौपद्यः । / शरव्या दुःशासनानाम् / केशकर्षण-धर्षण-लालसानाम् । / भीष्मास्तु तूष्णीकृत-वर्ष्माणो ह्यनुष्णाः / अपेक्षन्ते कदा रक्षिष्यन्ति श्रीकृष्णाः (अन्धानुसन्धानम्/ संस्कृतमञ्जरी, अप्रैल् २००७)

    अन्यदेकमुदाहरणम्  उपधामिलन-सहितायाः मुक्तच्छान्दस-कवितायाः हरेकृष्ण-मेहेरस्यमौनव्यञ्जना’-काव्यतः । मौनस्य अभिव्यक्ति-सामर्थ्य-विषये कवेः कथनमीदृशम् :
   ‘नीरवताया अपि भाषाऽस्ति, / कोऽपि शिक्षयति वा शास्ति / ब्रवीति नीरवता / कदा हृदयस्य गोपनीय-कथाम्  / अन्तःस्थलस्य सुप्त-व्यथाम्  / यया भाव्यते सहृदयस्य भाववत्ता (मौनव्यञ्जना/ लोकभाषासुश्रीः, फेब्रुआरी-मार्च २००६)  

   कवि-बनमालि-बिश्वालस्य प्रियतमा-कवितासङ्कलनायाः कियदंशः प्रस्तूयते । फाल्गुन-मासे सायंकालस्य  कवरी-कुसुम-सौरभस्य चानुभवेन मिलन-समयागमनं सूच्यते इति कवेः कथनमेवंप्रकारकम् :    
  फाल्गुनस्य सन्ध्या यदा / नमेत क्वचिद् दूरे / दिग्वलये / गन्धं घ्रात्वा कवरीपुष्पस्य / प्रियतमे ! / ज्ञातुं प्रभवामि / उपगता मिलनस्य वेला / प्रस्फुरणं मदीये / दोलायिता च / मे प्रीतिदोला ॥(प्रियतमा)

   समयक्रमेण मानव-जीवने कैशोर-तारुण्य-प्रोढ़त्वादि-विषये कवि-बिश्वालस्यप्रौढ़:’-कवितायाः कतिपय-पङ्क्तयः इत्थम् :  विस्मृत्य  विस्मृत्य कैशोरं  / निवर्त्तते ब्रह्मचर्यं धीरं / जीवन-कपाटे कुत्र / शृणोम्यहं यौवनस्य मृदु-कराघातम् / मन्मनोमन्दिरे / कस्य प्राप्य करस्पर्शं / देहो मम अभवदवशः । / जनैरुद्घोषितम् / अयमद्य सञ्जातोऽस्ति प्रौढ़ः (प्रौढ़ः)  

    कवि-रवीन्द्रकुमार-पण्डा-रचितात्बलाका’-कवितासङ्ग्रहात् छन्दोमुक्ताः कतिपय-पङ्क्तयः निजास्तित्व-स्वरूप-वर्णना-प्रसङ्गे एवम्  :  
   ‘नाहमस्मि नेता / सर्वनियन्ता । / नाहमस्मि द्विजिह्वः / न च मे क्षमता । / अहमस्मि कविः / रसानन्द-दाता । / नाहं सर्प इव भयङ्करः । / न सम्पत्तिर्मम, न च काचित् सत्ता । / अहमस्मि प्रवक्ता ॥(बलाका)

  अनेक-रूपक-माध्यमेन मनस्तत्त्व-विषये पुनः पण्डा-कवेः वर्णनमित्थम् : मनः निदाघस्य मेघः।/ मनः चैत्रस्य पवनः ।/ मनः श्रावणस्य वारिधारा ।/ मनः वसन्तस्योपवनम् ।/ मनः हेमन्तस्य हिमालयः ।/ मनः शीतस्य रजनी ॥(नीरवझरः/ नखदर्पणः, पृ.९५)

* गद्यविभागे  उपन्यासः, कथा :    
  भारतीय-भाषासाहित्येषु गद्यविभागे उपन्यासस्य स्वतन्त्रमेकं महत्त्वपूर्णं स्थानं विद्यते । संस्कृतस्य पारम्परिके  गद्यकाव्यस्य कथा-विभाजने कवि-बाणभट्ट-कृता कादम्बरीसुविदिता । परन्तु प्रचलित-संस्कृत-साहित्यस्य इतिहासे  उपन्यास-विभागस्य अनस्तित्वात् सा उपन्यास-रूपेण न परिचितास्ति । आधुनिक-दृष्ट्या विचारानुसारं वस्तुतः कादम्बरी एको  बृहदुपन्यासो वर्त्तते । आधुनिक-संस्कृते कथाख्यायिकयोः मिश्रित-रूपम् उपन्यास-नाम्ना चर्चितम् ।

    प्रसङ्गतः कवि-कथाकारस्य केशवचन्द्र-दाशस्य अञ्जलिः-उपन्यासात् सामाजिक-समस्यापरकं जीवन-मूल्यबोध-द्योतकं विषयमुद्दिश्य कतिपय-पङ्क्तयः एवम् :  
  दहनं साधारणीकृत्य रात्रिः तया व्यतीता विषयो विमृष्टः विवादो विचारितः । समाधानमन्विष्टम् आत्मा अवबुद्धः उपायः चिन्तितः परं कालाधारे सर्वमद्य शिथिलम् (अञ्जलिः, पृ.४६)  

दार्शनिकता-प्रसङ्गे औपन्यासिक-दाशस्य ऋतम्-उपन्यासात् कियदंशः । मधुरबिम्ब-योजनया कविः वर्णयति :  नदी झरीयति, झरी नदी भवति स्रोतस्तु यथातथा उपचये श्रीमती सहस्रधारा अपचयेऽपि तथैव श्रीधारा वहने क्षालन-प्लावनयोः अद्वैत-प्रतीतिः नदीयं केवलं क्षालयति, पावयति । इयं हि चेतना-नदी (ऋतम्)

    कथाकार-प्रभुनाथ-द्विवेदिनः रुचिवैचित्र्यम्-कथायाः उदाहरणमेकम् विविधोपमानानां चित्रणेन सार्धं नारी-रूप-कल्पनायां  सुन्दराभिव्यक्तिरित्थम् :  
  त्वया तु काचिदपूर्वा सकल-गुणालङ्कार-भूषिता पूर्णचन्द्र-यामिनीव, पञ्चमहाभूत-सत्त्वांश-समष्टिरिव, निरवद्य-सौन्दर्य-सृष्टिरिव, सकल-सुधावृष्टिरिव, दुग्धफल-मिष्टिरिव, कनकावदात-यष्टिरिव, सफलीभूत-मदनोत्सवेष्टिरिव काम्यते कामिनी प्रसाद-सदना भामिनी (रुचिवैचित्र्यम्/ अन्तर्ध्वनिः)   

     कथाकार-बनमालि-बिश्वालस्य नीरव-स्वनःइति लघुकथा-सङ्कलनात् सामाजिक-सन्दर्भे पितृप्राणः-कथायाः   कियदंशः एवम् :  नासा तु रक्त-रञ्जिता चक्षुषः चतुःपार्श्वे सुदीर्घः कज्जल-प्रलेपः चित्रिता टोपिका तुलया भृतं नासा-रन्ध्रम् ईदृशो विचित्र-वेशयुक्तो मातृप्राणः यदा मञ्चोपरि आयाति, तदा बालबृद्ध-वनिताः सर्वे दर्शकाः अट्-हास्यैः तस्य स्वागतं विदधति (नीरवस्वनः, पृ.१७)  

       प्रस्तुतेऽत्र सीमित-लेखे विभिन्न-विधानां समस्त-ग्रन्थानामुदाहरणानां च परिवेषणं न सम्भवति । अत एव विविधा रचनावली सुविधानुसारमन्यत्र सुधीभिरन्वेषणीया, द्रष्टव्या समास्वादनीया च ।   

आधुनिकतायां मूल्यबोधः, सौन्दर्यम् :
     प्रत्येक-भाषायां निजस्वं व्याकरणं, गठन-पद्धतिः, लेखन-चातुरी, साहित्यिक-तत्त्वानि, अन्य-सहायक-विभावाश्च  स्वतन्त्र-रूपेण भवन्ति । एतत् सर्वं कदापि नोपेक्षणीयम् । आधुनिकतायाः प्रभावात् संस्कृते कतिपय-विदेशीय-च्छन्दांसि अन्तर्भुक्तानि सन्ति । एतत्कारणात् संस्कृतस्य मूल-स्वरूपे स्वतन्त्रतायां मर्यादायां च नास्ति कस्याश्चिदपि  हानेरवकाशः । एतत् सर्वं सहायक-रूपेण समकालिकीं सामाजिकीं साहित्यिकीं सांस्कृतिकीं च रुचिं समवलम्ब्य प्रवर्त्तितम् । आधुनिकतायाः प्रसङ्गे कविकुलगुरोः कालिदासस्य उक्तिरियं स्मरणीया :  
पुराणमित्येव साधु सर्वं / चापि काव्यं नवमित्यवद्यम्
सन्तः परीक्ष्यान्यतरद् भजन्ते / मूढ़ः पर-प्रत्यय-नेय-बुद्धिः